सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 215, कुल 837 में से
संदर्भ में पढ़ें१५६ सात्वतसंहिता व्यक्ततामगमद् देवः स्वयमेव धरात्मना । यत्र मोक्षप्रदं विद्धि दिव्यमायतनं हि तत् ॥ ११० ॥ प्रसङ्गाद् दिव्यायतनलक्षणमाह—तस्यापीति सार्धेन ॥ १०९-११० ॥ अब प्रसङ्गाद् दिव्यायतन का लक्षण कहते हैं—जहाँ उस प्रकार के भगवद् भक्तों की अनुकम्पा से उसके लिये भी इस पृथ्वी स्वरूप से देव (प्रभु) स्वयं व्यक्त हों और जो मोक्षप्रद हों, वह दिव्य आयतन है ॥ ११० ॥ सिद्धायतनलक्षणकथनम् मन्त्रसिद्धैश्च विबुधैर्मुनिमुख्यैस्तथामलैः । शान्तये देशजानां त्वप्यात्मनश्चापि कीर्तये ॥ १११ ॥ मन्त्राकृतिमयं ध्यात्वा पाषाणं वसुधातले । पावनं वा ततं वृक्षं ज्ञात्वा वा देवताश्रयम् ॥ ११२ ॥ कृत्वा तच्छक्तिसंरुद्धं विसृज्य च तदाश्रितम् । विद्धि सर्वेश्वरस्यैवं स्थितं निलयलक्षणम् ॥ ११३ ॥ स्वमन्त्रसन्निधिं तत्र कृत्वा तद्विग्रहान्वितम् । पूजितं पत्रपुष्पाद्यैस्तत्सिद्धायतनं स्मृतम् ॥ ११४ ॥ सिद्धायतनलक्षणमाह—मन्त्रसिद्धैरिति प्रक्रम्य तत्सिद्धायतनं स्मृतमित्यन्तम् । विसृज्य च तदाश्रितमित्यत्र विसर्जनप्रकारश्चतुर्विंशे परिच्छेदे— इहाश्रितात्मने तुभ्यं नमः सर्वेश्वराय च । क्षमस्वावतरान्यत्र संतिष्ठात्र चिदात्मना ॥—(२४।८५) इतिवक्ष्यमाणो ज्ञेयः । अत्र— स्वयंव्यक्तं तथा सैद्धं विबुधैश्च प्रतिष्ठितम् ॥ मुनिमुख्यैस्तु गन्धर्वैर्यक्षविद्याधरैरपि । रक्षोभिरसुरैर्मुख्यैः स्थापितं मन्त्रविग्रहम् ॥ ..... स्थापितं मनुजेन्द्रैस्तु ह्यनुवेदादिकोविदैः । —(पा०सं० १०।३१७-३१८, ३२१) इति पारमेश्वरोक्तसैद्धाद्यष्टविधभेदानामपि सैद्धायतन एवान्तर्भावो बोद्ध्यः, सिद्धगन्धर्वादीनामपि विबुधेष्वन्तर्भावात्, मुनिमुख्यैस्तथामलैरित्यत्रामलशब्देनान्येषा- मपि सूचितत्वाच्च ॥ १११-११४ ॥ अब सिद्धायतन का लक्षण कहते हैं—जहाँ मन्त्र सिद्ध देवताओं एवं निष्कपट मुनियों ने उस देश में रहने वालों की शान्ति के लिये तथा अपनी कीर्ति के लिये मन्त्राकृति मय पत्थर में ध्यान किया है, अथवा जहाँ कोई पवित्र वृक्ष है,