सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 210, कुल 837 में से
संदर्भ में पढ़ेंप्रकार दोनों पक्षों में एकादशी के दिन उपवास और जागरण करे । अवशिष्ट दिनों में रात्रि को भोजन तथा मध्याह्न समय में चार या एक ब्राह्मण भोजन कराए । अशक्त होने पर मात्र गो ग्रास का दान करे और प्रतिपक्ष में पूर्वोक्तदान करना चाहिये । इस प्रकार संवत्सर पर्यन्त संहार क्रम से इन मूर्त्तियों की पूजा करने से उस अधिकारी भक्त पर भगवान् अधोक्षज प्रसन्न हो जाते हैं ॥ ७५-८२ ॥ षोडशाख्यव्रतनिरूपणम् षोडशाख्यमतो वक्ष्ये व्रतं धन्यतमं हि यत् । पूर्ववद् रात्रिसमय आषाढस्याद्यवासरे ॥ ८३ ॥ गृहीत्वा नियमं कुर्यादा प्रभातादिपूजनम् । त्रिसन्ध्यं वामनादीनां विधिवद् द्वादशाहकम् ॥ ८४ ॥ त्रयोदश्यां ततोऽभ्यर्च्य चतुर्वर्गप्रदं प्रभुम् । आद्यन्तमनिरुद्धादि तदाद्यमपरेऽहनि ॥ ८५ ॥ तृतीयं पञ्चदश्यां तु संशान्तव्यक्तलक्षणम् । एवं मूर्त्यन्तरेर्युक्तं चातुरात्म्यं त्रिधा स्थितम् ॥ ८६ ॥ आराध्य परया भक्त्या चैकादश्यामनश्नतः । पूर्णं तदर्चनं कृत्वा पञ्चदश्यां यथाविधि ॥ ८७ ॥ चत्वारस्तन्मयाः पूज्याः श्रद्धापूतेन चेतसा । आत्मयागं ततः कुर्याद् दिनान्तेऽर्चनपूर्वकम् ॥ ८८ ॥ एवमाश्वयुजे भूयः पर्वादौ प्रारभेत् क्रियाम् । पद्मनाभादिमूर्तीनामर्चनं विहितं क्रमात् ॥ ८९ ॥ एकादश्यामनश्नंस्तु सर्वं निर्वर्त्य पूर्ववत् । सम्प्राप्ते च ततः पौषे यजेन्नारायणादिकम् ॥ ९० ॥ द्वादश्यां तद् द्विषट्कं च तथा व्यूहत्रयं त्वपि । चैत्रे तद्दिवसादादौ विष्ण्वादीनां समर्चनम् ॥ ९१ ॥ विहितं सद्ब्रतज्ञानां सह व्यूहत्रयेण तु । विशेषपूजनं कुर्यात् सम्पन्ने वत्सरे सति ॥ ९२ ॥ विभोरग्रे द्विजेन्द्राणां षोडशानां स्वशक्तितः । अथ व्रतान्तरमाह—'षोडशाख्यमि'ति प्रक्रम्य 'षोडशानां स्वशक्तितः' इत्य- न्तम् । अत्र केशवादयो द्वादश वासुदेवादयश्चत्वारः, आहत्य षोडशमूर्तयः । एतेषां षोडशानामुक्तक्रमेणार्चनादिकं षोडशाख्यव्रतमित्युच्यते । यद्वा आषाढादिमासचतुष्टये प्रतिमासं वासुदेवादीनां चतुर्णामर्चनात् षोडशाख्यमिति ज्ञेयम् । आषाढे वामनादीनाम्,