सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 203, कुल 837 में से
संदर्भ में पढ़ें१४४ सात्वतसंहिता इस प्रकार यहाँ पर नित्य एवं नैमित्तिक कार्य के लिये तथा निःश्रेयस प्राप्ति के लिये प्रथम मूर्त्तियों का सार्चन ध्यान कहा गया है ।। ३६ ।। केवलमुमुक्षुभिरनुष्ठेयं व्रते विशेषविधिः भक्तिपूर्वात् तु कैवल्याद् यत्नेनाभ्यर्थयन्ति ये। वर्णा विप्रादयस्तेषां व्रताचरणमुच्यते ॥ ३७ ॥ श्रावणस्य दशम्यां तु सर्वं पूर्वोक्तमाचरेत्। कृत्वा कुशोदकाभ्यङ्गं स्मरन् देवमिदं पठेत् ॥ ३८ ॥ सर्वभूतमयाऽनादे यच्छ मे परमं पदम्। छिन्धि सांसारिकान् बन्धानज्ञानतिमिरं हर ॥ ३९ ॥ ततो ध्यात्वा यजन् देवं चतुर्मूर्तिं तु पूर्ववत्। गौणमुख्यैर्महच्छब्दैर्जिजन्तार्थैः पदैस्ततः ॥ ४० ॥ व्यस्तैस्ततः समस्तैश्चाप्येकैकं पुनरेव हि। वाच्यभेदोक्तियोगेन समस्तेनान्यथात्मना ॥ ४१ ॥ इत्यर्चनं क्रमात् कुर्यान्मूर्तेर्मूर्तेर्महामते। प्रणिपातादिकं सर्वमावर्तव्यं यथास्थितम् ॥ ४२ ॥ तुर्यन्तं मौद्गलान्तैस्तु मोक्षैकफललम्पटैः। विन्यासं लाञ्छनानां तु ग्रहणेनान्वितं शृणु ॥ ४३ ॥ अस्मिन् व्रते चतुर्णां तु देवानां वस्तुसूचनम्। तिर्यक् स्वपक्षदेशाभ्यां स्तनाख्यान्मण्डलाद् बहिः ॥ ४४ ॥ दक्षिणे तु गदाद्यस्य स्पष्टमुष्टिगता भवेत्। वामेन कुक्षिकुहरात् समाक्रान्तश्च शङ्खराट् ॥ ४५ ॥ परिधेर्बाह्यतोऽङ्गुष्ठं निषण्णं सर्वदा स्मरेत्। मुख्यहस्ते द्वितीयस्य ध्येयः शङ्खवरस्तथा ॥ ४६ ॥ चक्रमङ्गुष्ठ ऊर्ध्वस्थं वामहस्ते समुष्टिके। प्रद्युम्नस्य गदा वामे शब्दपूर्णस्तु दक्षिणे ॥ ४७ ॥ दक्षिणे त्वनिरुद्धस्य कमलं सूर्यवर्चसम्। वामतर्जनिगं चक्रं त्रिष्वङ्गुष्ठं स्मरेत् स्थितम् ॥ ४८ ॥ एवं यथास्थिताद् ध्यानात् फलमाप्नोति साधकः। अथ केवलमुमुक्षुभिरनुष्ठेयव्रते कालभेदं संकल्पश्लोकान्तरं लाञ्छनन्यास- ध्यानभेदं चाह—भक्तिपूर्वादित्युपक्रम्य फलमाप्नोति साधक इत्यन्तम्। तुर्यन्तम् अनिरुद्धान्तम्। मौद्गलान्तैः शूद्रान्तैरित्यर्थः। दक्षिणे तु गदाद्यस्येत्यत्र आद्यस्य