भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 225, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 225

१६६ सात्वतसंहिता द्वितीयतुर्यषष्ठैश्च द्वादशेनान्तिमेन च। चतुर्दशेनानाराद्गार्त्ति क्रमाद्वै विनियोजयेत् ॥ (१७।९) इति कवचादिबीजत्रयस्य स्वरान्तसंयोजनमपि वक्ष्यति ॥ २०-२२ ॥ अब वासुदेवादि चारों मूर्तियों के हृदयाद्यङ्ग के बीजमन्त्रों को कहते हैं— हकार को सकार में मिलाकर १६ बार लिखें, फिर द्वितीय (आ), तुर्य (ईकार), षष्ठ (ऊकार), अष्टम (ॠकार), द्विषट्क (ऐकार) एवं दशक (ॡकार) से क्रमशः संयुक्त करे। इस प्रकार हसां, हसीं, हसूं, हसॄं, हसैं, हसॢं इतने बीजमन्त्र निष्पन्न होते हैं। इनको हृदयादि नेत्रान्त मन्त्र षट्क में संयुक्त करे। ये चातुरात्मीय मन्त्रों के साधन हैं ॥ २०-२२ ॥ केशवादीनां द्वादशबीजकथनम् त्रिधा हकारं कृत्वादौ जीवबीजं तथैव च ॥ २२ ॥ ककारं च क्षकारं च लिखेत् तद्वत् त्रिधा त्रिधा। द्विषट्कमेव बीजानां क्रमादादौ निवेश्य च ॥ २३ ॥ ततो वायुधरावारिसंज्ञं यच्चाक्षरत्रयम्। पौनःपुन्येन सर्वेषामधोभागे नियोजयेत् ॥ २४ ॥ सर्वे षष्ठस्वरारूढा अनुस्वारविभूषिताः। बोद्धव्याः केशवादीनां बीजास्त्वेते पृथक् पृथक् ॥ २५ ॥ अथ केशवादीनां द्वादशबीजान्याह—त्रिधेति सार्धैस्त्रिभिः। आदौ त्रिधा त्रिवारं हकारं विलिख्य, तथैव जीवबीजं सकारं विलिख्य, ककारं क्षकारं तद्वत् त्रिधा विलिखेत्। एवं बीजानां द्विषट्कमादौ निवेश्य वायुधरावारिसंज्ञं यदक्षरत्रयं यकार- लकारवकारत्रयम्, सर्वेषां पूर्वं विलिखितद्वादशबीजानामधोभागे पौनःपुन्येन योजयेत्। सर्वे षष्ठस्वरारूढा ऊकारान्विताः, अनुस्वारविभूषिता बिन्दुयुक्ताः केशवादिबीजा ज्ञेयाः। तथा चैवं प्रयोगः—ह्यूं ह्लूं ह्वूं स्यूं स्लूं स्वूं क्यूं क्लूं क्वूं क्ष्यूं क्ष्लूं क्ष्ष्वूं इति। अयमेवार्थः पारमेश्वरेऽपि सुस्पष्टमुपबृंहितश्चतुर्विंशेऽध्याये— क्रमशः केशवादीनां मन्त्राणां लक्षणं शृणु। नवमं चाष्टमं नेमावराद्यं मातृकान्तिमम् ॥ त्रिधैकैकं क्रमात् कृत्वा बीजद्वादशकं यथा। पौनःपुन्येन सर्वेषां यलवान् योजयेदधः ॥ नाभिषष्ठासनोर्ध्वस्थानङ्गयेद् बिन्दूनोपरि। तारादिहृदयान्तानि संज्ञाभिस्तुर्यया सह ॥ केशवः प्रथमो वाच्यस्ततो नारायणः परः। माधवश्चैव गोविन्दो विष्णुश्च मधुसूदनः॥ त्रिविक्रमो वामनाख्यः श्रीधरः पद्मलोचनः। हृषीकेशः पद्मनाभो दामोदर इति श्रुतः॥