सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 229, कुल 837 में से
संदर्भ में पढ़ें१७० सात्वतसंहिता आराधनकाले प्रयोज्यां मुद्रामाह—श्लिष्टाविति द्वाभ्याम् । स्वहस्तौ परस्पर- संश्लिष्टौ विकसितौ च कृत्वा तद्बाहुकूर्परौ द्वौ मणिबन्धपर्यन्तं निरन्तरं संयोज्य दण्डवत् स्वनाभौ संरोध्य हस्तौ अध ऊर्ध्वं च किञ्चिच्चालयेत् । एषा मुद्रा गुप्तिं कृत्वा योज्या, गोप्येत्यर्थः ॥ ३७-३९ ॥ अब इसके बाद सर्वमन्त्र साधारण अञ्जलि मुद्रा कहते हैं, इन्हें अपने-अपने मन्त्र के साथ संयुक्त कर प्रयोग करना चाहिए । अब मुद्रा निर्माण का प्रकार कहते हैं—दोनों हाथों को फैला कर परस्पर मिला देवे । दोनों बाहुओं के कूर्पर को मणिबन्ध पर्यन्त नाभि में रोक कर दण्ड के समान स्थापित करे फिर ऊपर कुछ- कुछ चलाते रहे, यह अञ्जलि मुद्रा है । इस मुद्रा को आराधन कर्म में छिपाकर करना चाहिये ॥ ३६-३९ ॥ आसाद्य प्राक्स्थितामर्चां स्वयं वासमपृष्ठताम् ॥ ३९ ॥ सर्वलक्षणसम्पन्नां यस्यां चेतः प्रसीदति । व्रताराधनार्थं स्वयंव्यक्तान्यतमबिम्बं सलक्षणं सुप्रतिष्ठितं बिम्बं वा स्वेच्छानुसा- रेण प्राप्यमित्याह—आसाद्येति ॥ ३९-४०॥ अब व्रत की आराधन के लिये बिम्ब का प्रकार कहते हैं—साधक आराधना के लिये स्वयं व्यक्त बिम्ब अथवा अन्य स्थापित बिम्ब जो सुलक्षण हो एवं प्रतिष्ठित हो अथवा जिसे देख कर अपना मन प्रसन्न हो जाता हो, ऐसे बिम्ब को प्राप्त करे ॥ ३९-४० ॥ हेमादिनिर्मितं कुर्यात् पीठं वा लक्षणान्वितम् ॥ ४० ॥ शमं त्रिभागन्यूनं वा द्वादशाङ्गुलविस्तृतम् । चतुरश्रं चतुष्पादं विस्तरार्धेन चोन्नतम् ॥ ४१ ॥ तृतीयं भागमादाय विस्तराच्च स्वकं स्वकम् । तेन तन्मध्यगं कुर्यात् कमलं लक्षणान्वितम् ॥ ४२ ॥ द्विषट्कारं तु तद्बाह्ये चक्रं सर्वाङ्गचिह्नितम् । सिद्धामरनरादीनां हृदयस्थाऽक्षयाऽच्युती ॥ ४३ ॥ मृदूच्चचरणाक्रान्तिनिर्मुक्ताऽऽकृतिलक्षणा । पादाम्बुरुहमुद्राऽथ कार्या वै कर्णिकोदरे ॥ ४४ ॥ बिम्बं विनाऽर्चनार्थं केवलपीठं वा कुर्यादिति तल्लक्षणमाह—हेमादिनिर्मित- मित्यादिभिः । शमं चतुरङ्गुलविस्तृतमित्यर्थः । ‘‘शमः स्याच्चतुरङ्गुलः’’ (३।१। ५२) इति वैजयन्ती । सममिति पाठे समं निम्नोन्नतत्वरहितमित्यर्थः । यद्वा आयाम- विस्तराभ्यां सममित्यर्थः । त्रिभागन्यूनं वा अष्टाङ्गुलं वेत्यर्थः । द्वादशाङ्गुलस्य त्रिष्वेकभागराहित्येऽष्टाङ्गुलं भवति । एवमुक्तं द्वितीयपरिच्छेदेऽपि—‘‘मृत्काष्ठोपल-