सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 228, कुल 837 में से
संदर्भ में पढ़ेंअष्टमः परिच्छेदः १६९ स्वाहान्तः प्रणवाद्यश्च मन्त्रः शङ्खस्य कीर्तितः ॥ ३३ ॥ ॐकारो वेदमात्रेऽथ विद्ये स्वाहा पदं तु वै । गदामन्त्रस्त्वयं प्रोक्तश्चक्रस्याथ निगद्यते ॥ ३४ ॥ ॐकारान्ते पदं दद्यात् पञ्चार्णं प्रभविष्णवे । तदन्ते कालशब्दं तु मूर्त्तये हुँ ततस्तु फट् ॥ ३५ ॥ पद्मादीनां चतुर्णां तु एतन्मन्त्रचतुष्टयम् । अथ पद्मशङ्खगदाचक्राणां मन्त्रचतुष्टयमाह—समुद्रमूर्तय इत्यादिभिः । तथा चात्रैवं प्रयोगः—ॐ समुद्रमूर्तये स्वाहा, ॐ सर्वान्तश्चारिणे गगनमूर्तये स्वाहा, ॐ वेदमात्रे विद्यायै स्वाहा, ॐ प्रभविष्णवे कालमूर्तये हुँ फट् इति । अत्र समुद्रस्य पद्माधिष्ठातृत्वात्, गगनस्य शङ्खाधिष्ठातृत्वात्, सरस्वत्या गदाधिष्ठातृत्वात्, कालस्य चक्राधिष्ठातृत्वाच्च समुद्रमूर्तादिशब्दैः पद्मादीन्युक्तानीति बोध्यम् । समुद्रादीनां पद्माद्यधिष्ठातृत्वं त्रयोदशपरिच्छेदे वक्ष्यमाणं द्रष्टव्यम् । इदं पद्मादिमन्त्रचतुष्टयं वासुदेवादिव्यूहार्चने केशवादिव्यूहान्तरार्चने च कार्यम् । विभवार्चने तु प्रकारान्तरेण वक्ष्यमाणायुधमन्त्रा ग्राह्याः । अत एवास्मत्तातपादैः सात्वतामृते नारायणमूर्त्यर्चनप्रकरणादिदमेव पद्मादिमन्त्रचतुष्टयं प्रतिपादितम् ॥ ३२-३६ ॥ अब पद्म, शङ्ख, गदा तथा चक्र के चार मन्त्रों को कहते हैं—'ॐ समुद्र मूर्त्तये स्वाहा' यह पद्म का मन्त्र है । 'ॐ सर्वान्तश्चारिणे गगनमूर्त्तये स्वाहा' यह शङ्ख का मन्त्र है । 'ॐ वेदमात्रे विद्यायै स्वाहा' यह गदा का मन्त्र है तथा 'ॐ प्रभविष्णवे कालमूर्त्तये हुं फट्' यह चक्र का मन्त्र है । इस प्रकार इन चारों आयुधों के चार आयुध-मन्त्र कहे गये ॥ ३२-३६ ॥ सर्वमन्त्रसाधारणाञ्जलिमुद्राकथनम् सामान्या सर्वमन्त्राणामेका मुद्राञ्जलिः कृता ॥ ३६ ॥ स्वेन स्वेन तु मन्त्रेण संयुक्तानां प्रयोजयेत् । श्लिष्टौ विकसितौ हस्तौ योज्यौ चामणिबन्धनात् ॥ ३७ ॥ अथ सर्वमन्त्रसाधारणाञ्जलिमुद्रामाह—सामान्येति । यद्यप्येवमञ्जलिमुद्राया एव सर्वसाधारणत्वोक्त्या सर्वत्रेयमेव प्रयोक्तव्या, तथाप्यत्रैव कतिपयमुद्राविशेषाणां नृसिंहकल्पादिषु वक्ष्यमाणत्वात् तदनुरोधे (च ? न) सात्वतोपबृंहणे ऐश्वरतन्त्रे च केषाञ्चिन्मुद्राविशेषाणां प्रदर्शितत्वाच्च तद्व्यतिरिक्तानां केवलमञ्जलिमुद्रैव प्रदर्शनीयेति बोध्यम् ॥ ३६-३७ ॥ तद्बाहुकूर्परौ द्वौ च नाभौ संरोध्य दण्डवत् । ईषद् वै डोलयेत् पश्चादथ ऊर्ध्वे च तौ करौ ॥ ३८ ॥ गुप्तिं कृत्वा तु योज्यैषा मुद्राऽऽराधनकर्मणि । सा० सं० - 15