सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 244, कुल 837 में से
संदर्भ में पढ़ेंअष्टमः परिच्छेदः १८५ यतः प्रद्युम्नोत्पन्न त्रिविक्रमादि का वर्ण पीत है, इसलिये उनकी पूजा पीत गन्ध-पुष्पादि से ही करे । उसके अभाव में हल्दी, कुङ्कुमादि से रंग कर पीत वर्ण बनाकर उनकी पूजा करे और घृत पूरित हेमपात्र का दान करे ॥ १०६-१०८ ॥ गुर्वर्चननिरूपणम् ततः सम्पूजनं कुर्याद् व्रतादेष्टरि पूर्ववत् । गोहेमवस्त्रपूर्वस्तु यथा सन्तोषमेति सः ॥ १०९ ॥ अथ गुर्वर्चनमाह—तत इति । व्रतादेष्टरि गुरावित्यर्थः ॥ १०९ ॥ तत्पूजान्ते पारणेन द्वितीयं च जगत्पतिम् । प्रीणयेत् सङ्कर्षणं च गृहीत्वा पाणिना जलम् ॥ ११० ॥ प्रणवाद्येन तेनैव मन्त्रेणाद्योदितेन च । सनमस्केन किन्त्वत्र गतिः सङ्कर्षणोऽस्तु मे ॥ १११ ॥ अथ पारणानन्तर पूर्वोक्तरीत्या सङ्कर्षणप्रीणनम्, पूर्वोक्तमन्त्रे वासुदेवोऽस्तु मे गतिरिति वाक्यं विहाय सङ्कर्षणोऽस्तु मे गतिरिति वाक्ययोजनं चाह—तत्पूजान्त इति द्वाभ्याम् । पारणेन ब्राह्मणभोजनेनेत्यर्थः । गृहीत्वा पाणिना जलमित्यत्र सपुष्पं प्रधानार्घ्यजलं ग्राह्यम् । दीक्षापरिच्छेदे— तदम्भसा चार्घणं तु तथैव परिषेचनम् ॥ कुर्यात् प्रणयनादानं प्रीणनं प्रीतिकर्म च । (१८।७१-७२) इति प्रधानार्घ्यजलेन प्रीणनस्य वक्ष्यमाणत्वात्, ईश्वरपारमेश्वर्योः— इत्युक्त्वा सोदकं पश्चात् पुष्पं दक्षिणपाणिगम् ॥ अग्रतो निक्षिपेद् विष्णोर्मूलमन्त्रेण नारद । (१३।२३१-२३२) —(ई०सं० ५।३७-३८, पा०सं० ६।४११-४१२) इति जयाख्यवचनेनोदाहृतेन सपुष्पस्योक्तत्वाच्च ॥ ११०-१११ ॥ अब गुरु की अर्चना कहते हैं—इसके बाद व्रत के आदेष्टा गुरु का पूर्ववत् पूजन करना चाहिये । उन्हें गाय, सुवर्ण एवं वस्त्रादि दान करे जिससे वे सन्तुष्ट हो जावें । फिर पारण करने के पश्चात् द्वितीय जगत्पति सङ्कर्षण का पूजन कर उन्हें प्रसन्न करना चाहिये । साधक हाथ में जल लेकर प्रणवादि के सहित पूर्व में कहे गये मन्त्र से प्रसन्न होकर ‘ॐ सङ्कर्षणोऽस्तु मे गतिः’ इस मन्त्र से प्रार्थना करे ॥ १०९-१११ ॥ अथ त्रिविक्रमं देवं वामनं श्रीधरं प्रभुम् । यजेन्मासत्रयं तावद्यावत् स्याद् दशमी सिता ॥ ११२ ॥ तदादि वै हृषीकेशमन्त्रेणाखिलमाचरेत् । सा० सं० - 16