भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 252, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 252

अष्टमः परिच्छेदः १९३ निर्बाधे स्वगृहे विजनेऽन्यत्र वा देशे यथाविभवविस्तारायां धूमनिर्गमनार्थ- मूर्ध्वगवाक्षान्वितं परितश्च गवाक्षोपशोभितं यागमण्डपं परिकल्प्य तन्मध्ये इष्टकाभि- र्विरचितं चतुरश्रं भूमेः किञ्चिदुन्नतं वेदिकात्रयं निर्माय तत्र दक्षिणदिग्वेदेरूर्ध्वं पूर्वोक्तं कुण्डं कल्पयेत् । मध्यवेद्यां गोक्षीरमर्दितेन चन्दनमिश्रेण रोचनासहितेन कुङ्कुमेन प्रतिमासं षड्दलपद्मगर्भं द्वादशारं चक्रं विलिखेत् । उत्तरवेदेरूर्ध्वं स्नानपीठं स्थापयेत् । अथाषाढशुक्लदशम्यां सायं वासुदेवमन्त्रेण दक्षिणपाणिना तोयमादाय, भगवन् पुण्डरीकाक्ष सर्वव्रतपतेऽच्युत । व्रतं मे त्वत्प्रसादेन निष्पद्यतु तवाप्तये ॥ (८।१४८) इत्युदकप्रक्षेपपूर्वकं संकल्प्य, एकादश्यां समुपोष्य, द्वादश्यां प्रातः कर्णिकामध्ये वासुदेवं प्रागाग्नेयनैर्ऋतदलेषु प्रादक्षिण्येन सङ्कर्षणप्रद्युम्नानिरुद्धान्, ऐशान्यवायव्य- पश्चिमदलेष्वप्ययक्रमेणानिरुद्धप्रद्युम्नसङ्कर्षणांश्च सम्पूज्य, पुनर्मध्ये वासुदेवमभ्यर्च्य, चक्रस्य प्रागाद्यरेषु वामनं प्रीतिसंज्ञां तद्देवी हृन्मन्त्रं शिरोमन्त्रम्, श्रीधरं रतिसंज्ञां तद्देवी शिखामन्त्रं कवचमन्त्रम्, हृषीकेशं मायाख्यां तद्देवीमस्त्रमन्त्रं नेत्रमन्त्रं च क्रमेणाभ्यर्च्य, ध्यानार्चनस्नपननिवेदनहोमजपादिभिः सर्वान् सन्तोष्य, अथ श्रावण- शुक्ल द्वादश्यां कर्णिकामध्ये सङ्कर्षणं दलेषु सङ्कर्षणस्थानयोर्वासुदेवमरेषु पद्म- नाभादामोदरकेशवान् धीमहिमाश्रीदेवीत्रयं हृन्मन्त्रादिष्टकं चाभ्यर्च्य, भाद्रपदशुक्ल- द्वादश्यां मध्ये प्रद्युम्नं दलेषु प्रद्युम्नस्थानयोर्वासुदेवमरेषु नारायणमाधवगोविन्दान् वागीश्वरीकान्तिक्रियाख्यदेवीत्रयं हृन्मन्त्रादिष्टकं चाभ्यर्च्य, आश्वयुजशुक्लद्वादश्यां मध्येऽनिरुद्धं दलेष्वनिरुद्धस्थानयोर्वासुदेवमरेषु विष्णुमधुसूदनत्रिविक्रमान् शक्तिविभू (तिच्छाया? तीच्छाख्य)देवीत्रयं हृन्मन्त्रादिष्टकं च क्रमेणाभ्यर्च्य, कार्तिकशुक्ल- द्वादश्यां कर्णिकामध्ये वासुदेवादिमूर्तिचतुष्टये दलेषु हृन्मन्त्रादिष्टकमरेषु केशवादि- मूर्तिद्विष्टकं नेमिस्थाने श्रियादिदेवी-द्विष्टकं च यथाविधि विशेषेणाभ्यर्च्य होमं पूर्णाहृत्यन्तं कुर्यात् ॥ १४१-१६२ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये अष्टमः परिच्छेदः ॥ ८ ॥ हे सङ्कर्षण! अब मोक्ष देने वाला सर्वोत्तम 'चातुर्मास्य व्रत' कहता हूँ जिसके करने से मनुष्य अपनी सभी अभीष्ट कामनायें इसी लोक में प्राप्त कर लेता है । निर्बाध अपने गृह में, अथवा किसी निर्जन प्रदेश में, जो अपने विभव के अनुकूल लम्बा-चौड़ा हो, चौकोर हो, उस स्थान में धुआँ निकालने के लिये अपर गवाक्ष हो तथा चारों ओर भी गवाक्ष हो, ऐसे याग मण्डप का निर्माण करे । उसके मध्य में चौकोर भूमि में, भूमि से ऊपर ईंटों से तीन वेदी निर्माण करावे । उसमें दक्षिण वेदी के ऊपर पूर्वोक्त कुण्ड निर्माण करावे । मध्य वेदी में गोक्षीर से मर्दित चन्दन