सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 251, कुल 837 में से
संदर्भ में पढ़ें१९२ सात्वतसंहिता अप्ययेन तु सम्पूज्य यावत् पश्चिमदिग्दलम् । भूतावासं पुनर्मध्ये ततश्चक्रारकेषु च ॥ १५१ ॥ क्रमेण पूर्वदारभ्य न्यासं पूजनमाचरेत् । वामनं चाथ तद्देवीं हृन्मन्त्रं च ततः शिरः ॥ १५२ ॥ श्रीधरस्त्वथ तत्कान्ता शिखा कवचमेव च । हृषीकेशश्च तत्पत्नी ह्यस्त्रं तदनु लोचनम् ॥ १५३ ॥ ध्यानं स्नानं तथा पूजां होमं जपसमन्वितम् । क्रमेणानेन सर्वेषां सर्वदैव समाचरेत् ॥ १५४ ॥ द्वादश्यां श्रावणस्याथ मध्ये सङ्कर्षणं यजेत् । तत्पत्राभ्यां वासुदेवं चक्रारेष्वथ पूर्ववत् ॥ १५५ ॥ त्रितयं पद्मनाभाद्यं तथा देवीं हृदादि यत् । ततो नभस्यद्वादश्यां प्रद्युम्नः कर्णिकागतः ॥ १५६ ॥ आद्यस्तत्पत्रगोऽराणां त्रयं नारायणादिकम् । देव्यश्चैवाङ्गषट्कं तु पूर्ववच्चारकान्तरे ॥ १५७ ॥ ततस्तदग्रद्वादश्यामनिरुद्धं यथा पुरा । पत्रयुग्मे तदीये तु आदिदेवं यजेत् क्रमात् ॥ १५८ ॥ त्रिविक्रमान्तं विष्ण्वाद्यं शक्तिरङ्गान्यथादिवत् । एवं तावद् यजेद् यावद् द्वादशी कार्तिकस्य तु ॥ १५९ ॥ तत्राखिलैर्मन्त्रवरैः कर्म निश्शेषमाचरेत् । द्वादश्यां पूर्ववन्मध्ये षडङ्गं तुल्यरूपधृक् ॥ १६० ॥ मूर्तयोऽरान्तरस्थाश्च नेमिस्थो देवतागणः । पूजाहोमं विशेषेण पूर्णान्तं पूर्वचोदितम् ॥ १६१ ॥ इत्येतत् सविशेषं च व्रतमुक्तं समासतः । यत्कृत्वा पुनरप्यत्र जायते न पुनर्भवे ॥ १६२ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां समन्त्रकव्रतविधिर्नाम अष्टमः परिच्छेदः ॥ ८ ॥ — ൡ ॐ ൹ — अथ चातुर्मास्याविधिमाह—'अथापवर्गदं वक्ष्ये' इत्यारभ्य यावत्परिच्छेदपरि- समाप्ति । सुखबोधनायैतद्व्याख्या प्रयोगरूपेण विलिख्यते ।