सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 250, कुल 837 में से
संदर्भ में पढ़ेंअष्टमः परिच्छेदः १९१ पत्याऽनुज्ञातेत्युक्तम् । तथा च गारुडे— नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा । निष्फलं तु भवेत् तस्या यत् करोति व्रतादिकम् ॥ अनापृच्छ्य तु भर्तारमुपोष्य व्रतमाचरेत् । आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥ नास्ति स्त्रीणां पृथक् कर्म न व्रतं नाप्युपोषणम् । पतिशुश्रूषणं तासां तेन स्वर्गो विधीयते ॥ इति ॥ १४०-१४१ ॥ यह व्रत सुमङ्गला नारी अथवा पूर्वसुमङ्गला (= विधवा) दोनों को करना चाहिये । सुमङ्गला स्त्री पति की आज्ञा से यदि व्रत करे तो उसे भी इसका फल प्राप्त होता है ॥ १४०-१४१ ॥ चातुर्मास्यविधानम् अथापवर्गदं वक्ष्ये चातुर्मास्यं व्रतोत्तमम् ॥ १४१ ॥ यत्कृत्वाऽभिमतान् कामानिहैव लभते नरः । गृहमासाद्य निर्बाधं देशे वा न जनाकुले ॥ १४२ ॥ यथाविभवविस्तीर्णं तुर्याश्रं वा यथायतम् । धूमनिर्गमनोपेतं गवाक्षगणभूषितम् ॥ १४३ ॥ इष्टकाद्यैश्चितं कुर्यात् तन्मध्ये पिण्डिकात्रयम् । चतुरश्रं च विच्छिन्नं भूमेः किञ्चित् समुन्नतम् ॥ १४४ ॥ ततो दक्षिणदिग्वेदेरूर्ध्वे कुण्डं तु पूर्ववत् । मध्ये चन्दनमिश्रेण रोचनाकुङ्कुमेन च ॥ १४५ ॥ गोक्षीरमर्दितेनैव मासि मासि लिखेच्छुभम् । चक्रं षट्पत्रगर्भं तु स्नानपीठमुदग्दिशि ॥ १४६ ॥ ततस्त्वाषाढमासस्य दशम्यामुदितेन्दुना । वासुदेवाख्यमन्त्रेण तोयमादाय पाणिना ॥ १४७ ॥ भगवन् पुण्डरीकाक्ष सर्वव्रतपतेऽच्युत । व्रतं मे त्वत्प्रसादेन निष्पद्यतु तवाप्तये ॥ १४८ ॥ ततोऽर्चयेद् वासुदेवं द्वादश्यां कमलोदरे । प्रागादावथ पत्राणां त्रयं सङ्कर्षणादिकम् ॥ १४९ ॥ प्रादक्षिण्येन विन्यस्य यावद्रक्षःपदच्छदम् । ईशानपदपत्रात् तु अनिरुद्धादिकत्रयम् ॥ १५० ॥