सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 255, कुल 837 में से
संदर्भ में पढ़ें१९६ सात्वतसंहिता य उक्तस्ते मया पूर्वमेकैकं विद्धि तन्त्रिधा ॥ ४ ॥ चतुर्णां युगसन्धीनां युगानां च तथैव हि । विश्वविप्लवदोषाणां विनाशाय समुद्यतम् ॥ ५ ॥ सितरक्तादिरूपेण ज्वलदस्त्रकराङ्कितम् । कार्यारम्भे तथा मध्ये ह्यवसाने तु सर्वदा ॥ ६ ॥ सन्धत्ते रूपमात्मीयमेक एव त्वनेकधा । श्रेयसे सर्वलोकानां स्थूलं तत् कामरूपधृक् ॥ ७ ॥ अनुद्यतेन वपुषा कुन्देन्दुधवलेन च । वीरासनादिना चैव स्थितं मुदितमानसम् ॥ ८ ॥ लीलाविधृतसर्वास्त्रं सौम्यवक्त्रमनाकुलम् । धिया दोषगणं सर्वं ध्वंसयन्तं च मोक्षिणाम् ॥ ९ ॥ तद्व्यक्तं शान्तसंज्ञं च रूपं रूपवतांवरम् । प्रकाशयति सन्मार्गं समाधिनिरतात्मनाम् ॥ १० ॥ तेजोमयं यत् तद्रूपं वैभवं शान्तसंज्ञकम् । उपासकानां भक्तानां सर्वे सर्वफलप्रदाः ॥ ११ ॥ एवं पृष्टो भगवान् स्थूलसूक्ष्मपरत्वभेदेन विभवावतारस्य त्रैविध्यमाह—वैभवीय इत्यारभ्य आमोक्षात्रिर्विचारेणेत्यन्तम् । अत्र युगानां युगसन्धीनामिति षष्ठ्या अधिक- रणत्वमर्थः । विश्वविप्लवदोषाणां विनाशाय समुद्यतम् । युगेषु तत्सन्धिकालॆषु च ये ये दोषाः संभवन्ति, तेषां प्रशमायाविर्भूतमित्यर्थः । अनेन— परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ — (गी० ४।८) इत्यर्थः स्मारितो भवति । सितरक्तादिरूपेण तत्तद्युगानुकारिवर्णभेदेनेत्यर्थः । तथा च श्रीभागवते— आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः । शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ इति । —(श्रीमद्भा० १०।८।१३) कार्यारम्भे मध्येऽवसाने च सृष्टिस्थितिसंहारकालेष्वित्यर्थः । एक एवानेकधा रूपं सन्धत्ते । सृष्टिकाले रक्तं रूपम्, रक्षणकाले शुक्लं रूपम्, संहारकाले कृष्णं रूपं बिभर्तीत्यर्थः । स्थूलं जाग्रत्पदस्थितमित्यर्थः । कामरूपधृक् = स्वेच्छया नाना- रूपधरमित्यर्थः । 'तद्व्यक्तं शान्तसंज्ञं च रूपम्' इत्यत्र व्यक्तमित्यनेन स्वप्नसुषुप्ति- पदाश्रितत्वम्, शान्तसंज्ञमित्यनेन तुर्यपदाश्रितत्वं चोच्यते । यतो लक्ष्मीतन्त्रे— त्रिविधं चातुरात्म्यं तु सुषुप्यादिपदत्रिके ।