भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 269, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 269

२१० सात्वतसंहिता और 'पूर्व चक्र से अक्ष पर रहने वाले ॐ वर्ण को प्रधि पर लिखे। फिर शब्द ब्रह्ममय उस चक्र को अर्घ्य पुष्पादिकों से सविधि पूजन करे ॥ ६१-६५ ॥ बीजोद्धारक्रमविधानम् तन्मध्यादुद्धरेदादौ सर्वेषां कारणं हि यत् । उदक्स्थमक्षरं चाक्षादरान्ताद्येन भूषितम् ॥ ६६ ॥ विद्धि सर्वेश्वरस्येदं बीजं निर्बीजकारणम् । एतदेवाब्जनाभस्य विसर्गसहितं स्मृतम् ॥ ६७ ॥ नेमिवर्गाद् द्वितीयं वै ततोऽरात् षष्ठमक्षरम् । अष्टमं नाभिदेशाच्च तत्संख्यं नेमिमण्डलात् ॥ ६८ ॥ नेमिपूर्वमतो नाभेः सप्तमं पञ्चमारगम् । अराच्चतुर्दशं त्वक्षात् पश्चिमाशागतं हि यत् ॥ ६९ ॥ नेमेरेकादशं चाथ षोडशं च त्रयोदशम् । पञ्चमं नाभिदेशाच्च नेमेरेकोनविंशकम् ॥ ७० ॥ तदन्तं सप्तमं चैव नवमं हि महामते । नाभेस्तृतीयं तदनु नेमेस्तत्संख्यमेव च ॥ ७१ ॥ द्वादशं च बहिष्ठेभ्यो दशमं षोडशात् परम् । नाभिपूर्वं ततो वर्णं नेमेः पञ्चदशं हि यत् ॥ ७२ ॥ तुर्यसंख्यमराद्बीजं ततो नाभिचतुर्थकम् । षष्ठं नेमेरुतूर्थं च मध्यमक्षात् तथा हरेत् ॥ ७३ ॥ तत्रैव पूर्वदिक्स्थं यद् बाह्याद्वै पञ्चमं ततः । अक्षाद् दक्षिणदिक्संस्थं नेमेरष्टादशं ततः ॥ ७४ ॥ द्वितीयं नाभिदेशाच्च तदन्ते सप्तमारगम् । चतुर्दशमतो नेमेः षष्ठं नाभेरथाहरेत् ॥ ७५ ॥ सर्वे कारणवन्मूर्ध्ना योजनीयाः समासतः । प्रणवाद्या नमोन्ताश्च तेजसातीव निर्भराः ॥ ७६ ॥ बीजोद्धारक्रममाह—'तन्मध्यादित्यारभ्य' तेजसाऽतीव निर्भरा इत्यन्तम् । अक्षाद् उदक्स्थमक्षरं नकारमुद्धृत्य, अरान्ताद्येनानुस्वारेण भूषितं कुर्यात् । तथा च नमिति प्रयोगः । इदं सर्वेश्वरस्य विशाखयूपस्य बीजम् । एतदेव विसर्गसहितं चेद् अब्जनाभस्य बीजं भवति । ध्रुवबीजं तु नेमिवर्गाद् द्वितीयं खकारः । अनन्तबीजं तु अरात् षष्ठमक्षरम् ऊकारः । एवं क्रमेण अष्टमनाभेरथाहरेदिति पातालशयन- बीजान्तमर्थो बोध्यः ।