सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 271, कुल 837 में से
संदर्भ में पढ़ें२१२ सात्वतसंहिता श्रीपतिर्दिव्यदेहोऽथ कान्तात्माऽमृतधारकः । राहुजित् कालनेमिघ्नः पारिजातहरो महान् ॥ ८० ॥ लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः । न्यग्रोधशायी भगवानेकशृङ्गतनुस्ततः ॥ ८१ ॥ देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः । नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ ८२ ॥ ज्वलत्परशुधृग् रामो रामश्चान्यो धनुर्धरः । वेदविद् भगवान् कल्की पातालशयनः प्रभुः ॥ ८३ ॥ प्रादुर्भावगणो मुख्य इत्युक्तस्ते समासतः । एषां वाच्यान् पद्मनाभाद्यष्टत्रिंशद्देवान् क्रमेणाह—‘पद्मनाभादय’ इति प्रक्रम्य ‘इत्युक्तस्ते समासतः’ इत्यन्तम् । देव इति पदमेकार्णवशायस्य विशेषणम् । पाताल- धारक इति कूर्मविशेषणम् । दिव्यदेह इति श्रीपतिविशेषणम् । अमृतधारक इति कान्तात्मनो विशेषणम् । महानिति पारिजातहरस्य विशेषणम् । शान्तात्मेति लोक- नाथस्य विशेषणम् । महाप्रभूरिति दत्तात्रेयस्य विशेषणम् । भगवानिति न्यग्रोधशायिनो विशेषणम् । देव इति वामनस्य, सर्वव्यापीति त्रिविक्रमस्य च विशेषणम् । ज्वल- त्परशुधृगिति रामस्य, धनुर्धर इत्यन्यस्य रामस्य च विशेषणम् । भगवानिति कल्किनः, प्रभुरिति पातालशयनस्य च विशेषणम् । एवं विशेषणविशेष्यमबुद्ध्वा पार- मेश्वरव्याख्याने विमानार्चनप्रकरणे एकशृङ्गतन्वादिषु द्वादशमूर्तिषु, कूर्मादिषु द्वादश- मूर्तिषु च जागरूकास्त्वप्येकशृङ्गादिपातालशयनान्तमेकादश मूर्तयः, कूर्मादिन्यग्रोध- शाय्यन्तमेकादश मूर्तय इति च लिखितम् । अतः सावधानं बोद्धव्यम् । एवं चात्र पद्मनाभादिपातालशयनान्ता अष्टत्रिंशद्विभवदेवा ज्ञेयाः । तथा च लक्ष्मीतन्त्रे—‘‘पद्मनाभो ध्रुवोऽनन्तः’’ (१९।१९) इति प्रक्रम्य ‘‘त्रिंशाच्चाष्टाविमे देवाः पद्मनाभादयो मताः’’ (१९।२५) इत्युक्तम् । अहिर्बुध्न्यसंहितायां तु पञ्चमे- ऽध्याये एवमेव विभवदेवानुक्त्वा ‘‘त्रिंशच्च नव चैवैते पद्मनाभादयो मताः’’ (५।५७) इत्युक्तम्, नैतावता परस्परविरोधः शङ्कनीयः । पद्मनाभादयोऽष्टत्रिंशद्देवाः, तेषा- मधिपतिर्विशाखायूपस्त्वेकः । तेन सहैकोनचत्वारिंशद्देवा इत्यभिप्रायेण ‘‘त्रिंशच्च नव चैवैते’’ (५।५७) इत्युक्तमिति बोध्यम् । यतो विशाखयूपस्य विभवदेवाधिपत्यं पूर्वमेवोक्तम्—‘‘वैभवीयस्य यूथस्य पतित्वेनावतिष्ठते’’ (९।५६) इति । अत एवात्र विशाखयूपपुरस्सरमेकोनचत्वारिंशद्बीजान्युकानि । किञ्च, ध्यानप्रकरणेऽपि— त्रयाणां मुख्यपूर्वाणां ध्रुवान्तानां पुरोदितम् । शेषादीनामशेषाणामिदानीमवधारय ॥ ध्यानं पातालनिलयपर्यन्तानां यथास्थितम् । (१२।३-४) इति विशाखयूपस्यापि विभवदेवैः साहचर्यं वक्ष्यति । ननु—‘‘पद्मनाभो ध्रुवो- ऽनन्तः’’ (५।५०) इति प्रक्रम्य, ‘‘त्रिंशच्च नव चैवैते पद्मनाभादयो मताः’’