भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 272, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 272

नवमः परिच्छेदः २१३ (५।५७) इति पद्मनाभादीनामेवैकोनचत्वारिंशत्संख्याकत्वेनोक्तत्वादनुक्तविशाखयूप- स्य संख्यापूरणार्थं तत्र संयोजनमनुचितम् । तथा गत्यभावे तद्योजनं कार्यम् । अस्ति च गत्यन्तरम् । तथाहि— “श्रीपतिर्भगवान् देवः” (अहि० ५।५३) इत्यत्र देवशब्देन पौष्करोक्तमन्दरोत्पाटकृद्देवो ग्राह्यः, उभयत्राप्येकरूपदेवशब्दप्रयोगात्, प्रकरणाच्च । पौष्करे हि— मन्दरोत्पाटकृद् देवस्त्वमृताहरणस्तथा । सुधाकलशधृक् चैव वनिताकृतिविग्रहः ॥ भूयो रूपान्तरं चैव राहोश्चिच्छेद मस्तकम् । एवं चतुर्धा भगवान् एष एव महामते ॥ प्रादुर्भावान्तरोपेताः प्रादुर्भावोत्तमोत्तमः । (३६।२१५-२१७) इति मन्दरोत्पाटकृदवतारस्य पार्थक्येन निर्देशः कृत इति चेन्न, अहिर्बुध्न्ये— ‘‘पद्मनाभो ध्रुवोऽनन्तः’’ (५।५०) इति प्रक्रम्य सात्वतोक्तानुपूर्व्या एव पठितत्वात्, ‘‘सात्वते शासने सर्वं तत्तदुक्तं महामते’’ (५।५९) इति पद्मनाभादिलक्षणानां सात्वते द्रष्टव्यत्वेनोक्तत्वाच्चाहिर्बुध्न्यस्थवाक्यानामपि सात्वतानुसारेणैव व्याख्येयत्वात् । सात्वते हि मन्दरोत्पाटकृद् देवो न पृथग् निर्दिष्टः । तस्मात्— आप्तकामः स भगवान् स्वव्यापारवशेन तु ॥ स्वां शक्तिमवलम्ब्यास्ते पद्मनाभात्मना पुनः । (९।९७-९८) इ(ति पूर्वो?त्यु)क्तेः पद्मनाभविशाखयूपयोरभेदात्, अत एवेश्वरपारमेश्वर्यो- रङ्कुरार्पणप्रकरणे—‘‘अब्जनाभं परं चैव पद्मनाभं ध्रुवं तथा’’ (ई० सं० १०।१७४, पा० सं० १५।१५९) इति विशाखयूपस्यापि पद्मनाभशब्देनैव व्यवहृतत्वाच्च, अहि- र्बुध्न्ये—‘‘पद्मनाभो ध्रुवोऽनन्तः’’ (५।५०) इत्यत्र पद्मनाभशब्देनैव विशाखयूपोऽपि संगृहीत इति सूक्ष्मदृष्ट्या बोध्यम् । नन्वहिर्बुध्न्यवाक्यस्यैवं कथञ्चिद् गतिरुक्ता, पद्मनाभादिकाः सर्वे वैभवीयास्तथैव च । षट्त्रिंशत्संख्यासंख्याताः प्राधान्येन गणेश्वर ॥ षट्त्रिंशद्भेदभिन्नास्तु पद्मनाभादिकाः सुराः । अनिरुद्धात् समुत्पन्ना दीपाद्दीप इवेश्वराः ॥ (तत्त्व०, पृ० १३४) इति विष्वाक्सेनसंहितावाक्यस्य का गतिरिति चेत्, तद्गतिकल्पनं तु श्रीमद्रम्य- जामातृमुनिभिरेव तत्त्वत्रयव्याख्याने कृतम् । तथाहि—अहिर्बुध्न्यसंहितोक्तैकोनचत्वा- रिंशद्विभवदेवेषु कपिलदत्तात्रेयजामदग्न्यानां गौणप्रादुर्भावतया मुमुक्षुभिरनर्चितत्वात् तान् विहाय मुमुक्षुभिरर्च्यः पद्मनाभादयो मुख्यप्रादुर्भावाः षट्त्रिंशदिति विष्वाक्सेन- संहितायामुक्तमिति । नन्वेवं गतिकल्पनमज्ञानमूलकम्, यतः—‘‘पद्मनाभो ध्रुवोऽनन्तः’’ (५।५०) इत्यहिर्बुध्न्योक्तानुपूर्व्यां स्थितस्य वेदविच्छब्दस्य वेदव्यासोऽर्थ इति रम्यजामातृमुनिभिर्न ज्ञातम्, तस्य वेदव्यासपरत्वनिर्णायकसहस्रनामभाष्यवाक्यमपि नाधीतमिति चेत्, किमरे मूढाग्रगण्य! तेषामाचार्याणामाशयमविदित्वा दूषयसि—