भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

नवमः परिच्छेदः २१३ (५।५७) इति पद्मनाभादीनामेवैकोनचत्वारिंशत्संख्याकत्वेनोक्तत्वादनुक्तविशाखयूप- स्य संख्यापूरणार्थं तत्र संयोजनमनुचितम् । तथा गत्यभावे तद्योजनं कार्यम् । अस्ति च गत्यन्तरम् । तथाहि— “श्रीपतिर्भगवान् देवः” (अहि० ५।५३) इत्यत्र देवशब्देन पौष्करोक्तमन्दरोत्पाटकृद्देवो ग्राह्यः, उभयत्राप्येकरूपदेवशब्दप्रयोगात्, प्रकरणाच्च । पौष्करे हि— मन्दरोत्पाटकृद् देवस्त्वमृताहरणस्तथा । सुधाकलशधृक् चैव वनिताकृतिविग्रहः ॥ भूयो रूपान्तरं चैव राहोश्चिच्छेद मस्तकम् । एवं चतुर्धा भगवान् एष एव महामते ॥ प्रादुर्भावान्तरोपेताः प्रादुर्भावोत्तमोत्तमः । (३६।२१५-२१७) इति मन्दरोत्पाटकृदवतारस्य पार्थक्येन निर्देशः कृत इति चेन्न, अहिर्बुध्न्ये— ‘‘पद्मनाभो ध्रुवोऽनन्तः’’ (५।५०) इति प्रक्रम्य सात्वतोक्तानुपूर्व्या एव पठितत्वात्, ‘‘सात्वते शासने सर्वं तत्तदुक्तं महामते’’ (५।५९) इति पद्मनाभादिलक्षणानां सात्वते द्रष्टव्यत्वेनोक्तत्वाच्चाहिर्बुध्न्यस्थवाक्यानामपि सात्वतानुसारेणैव व्याख्येयत्वात् । सात्वते हि मन्दरोत्पाटकृद् देवो न पृथग् निर्दिष्टः । तस्मात्— आप्तकामः स भगवान् स्वव्यापारवशेन तु ॥ स्वां शक्तिमवलम्ब्यास्ते पद्मनाभात्मना पुनः । (९।९७-९८) इ(ति पूर्वो?त्यु)क्तेः पद्मनाभविशाखयूपयोरभेदात्, अत एवेश्वरपारमेश्वर्यो- रङ्कुरार्पणप्रकरणे—‘‘अब्जनाभं परं चैव पद्मनाभं ध्रुवं तथा’’ (ई० सं० १०।१७४, पा० सं० १५।१५९) इति विशाखयूपस्यापि पद्मनाभशब्देनैव व्यवहृतत्वाच्च, अहि- र्बुध्न्ये—‘‘पद्मनाभो ध्रुवोऽनन्तः’’ (५।५०) इत्यत्र पद्मनाभशब्देनैव विशाखयूपोऽपि संगृहीत इति सूक्ष्मदृष्ट्या बोध्यम् । नन्वहिर्बुध्न्यवाक्यस्यैवं कथञ्चिद् गतिरुक्ता, पद्मनाभादिकाः सर्वे वैभवीयास्तथैव च । षट्त्रिंशत्संख्यासंख्याताः प्राधान्येन गणेश्वर ॥ षट्त्रिंशद्भेदभिन्नास्तु पद्मनाभादिकाः सुराः । अनिरुद्धात् समुत्पन्ना दीपाद्दीप इवेश्वराः ॥ (तत्त्व०, पृ० १३४) इति विष्वाक्सेनसंहितावाक्यस्य का गतिरिति चेत्, तद्गतिकल्पनं तु श्रीमद्रम्य- जामातृमुनिभिरेव तत्त्वत्रयव्याख्याने कृतम् । तथाहि—अहिर्बुध्न्यसंहितोक्तैकोनचत्वा- रिंशद्विभवदेवेषु कपिलदत्तात्रेयजामदग्न्यानां गौणप्रादुर्भावतया मुमुक्षुभिरनर्चितत्वात् तान् विहाय मुमुक्षुभिरर्च्यः पद्मनाभादयो मुख्यप्रादुर्भावाः षट्त्रिंशदिति विष्वाक्सेन- संहितायामुक्तमिति । नन्वेवं गतिकल्पनमज्ञानमूलकम्, यतः—‘‘पद्मनाभो ध्रुवोऽनन्तः’’ (५।५०) इत्यहिर्बुध्न्योक्तानुपूर्व्यां स्थितस्य वेदविच्छब्दस्य वेदव्यासोऽर्थ इति रम्यजामातृमुनिभिर्न ज्ञातम्, तस्य वेदव्यासपरत्वनिर्णायकसहस्रनामभाष्यवाक्यमपि नाधीतमिति चेत्, किमरे मूढाग्रगण्य! तेषामाचार्याणामाशयमविदित्वा दूषयसि—

२१४ सात्वतसंहिता कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यो भुवि मैत्रेय महाभारतकृद् भवेत् ॥ (विष्णु० ३।४।५) इत्युक्तमहामहिम्नि सूत्रकृति श्रीकृष्णद्वैपायने साक्षाद् भगवदवतारत्वमेव तेषा- मभिमतम् । नुन तर्हि व्यासस्यावेशावतारत्वं मुमुक्षुभिरनुपास्यत्वं च तैरेव कथमुक्तमिति चेत्, सत्यम् । न तत् कृष्णद्वैपायनविषयम्, अपि तु विष्णुपुराणोक्ताष्टाविंशतिसंख्याक- व्यासान्तरविषयम् । ननु च सहस्रनामभाष्ये—‘तत्र प्रादुर्भावाः केचित् साक्षात्, यथा मत्स्यकूर्मादयः। अन्ये तु ऋष्यादिविशिष्टपुरुषाधिष्ठानेन, यथा भार्गवरामकृष्णद्वैपायनादयः’ (पृ० १८२) इति कृष्णद्वैपायनस्यैवावेशावतारत्वमुक्तम्, तस्य का गतिरित चेत्, तच्च कल्पभेदेनावतीर्णद्वैपायनविषयं बोध्यम्, अन्यथा आचार्योक्तिविरोधात् । यथा तत्त्व- त्रयव्याख्याने बुद्धस्य साक्षादवतारत्वमाचार्यहृदये प्रतिपादितम् । विष्वक्सेनंसंहितादिषु तस्यावेशावतारत्वमुक्तम् । उभयोर्विरोधः कल्पभेदेन परिहरणीय इति व्याख्यातम्, तद्वदिहापीति सन्तोष्टव्यमायुष्मता । ननु ‘‘प्रादुर्भावगणो मुख्यः’’ (९।८४) इति पद्मनाभाद्यष्टत्रिंशद्देवानामपि मुख्यप्रादुर्भावत्वमुक्तम्, तदन्तःपातिकपिलादीनां गौणत्वं कथं वक्तुं शक्यमिति चेत्, ब्रूमः—अत्र ‘‘प्रादुर्भावगणो मुख्य’’ (९।८४) इत्यत्र स्थितो मुख्यशब्दो विष्वक्सेन- संहितोक्तो मुख्यशब्दश्च न समानार्थकः, यतो विष्वक्सेनंसंहितायाम्— प्रादुर्भावो द्विधा प्रोक्तो गौणमुख्यविभेदतः । मदिच्छया हि गौणत्वं मनुष्यत्वमिवेच्छया ॥ सूकरत्वं च मत्स्यत्वं नारसिंहत्वमेव च । यथा वा दण्डकारण्यॆ कुब्जाम्रत्वं ममेच्छया ॥ यथा वाजिमुखत्वं च मम संकल्पतो भवेत् । सेनापते ममेच्छातो गौणत्वं न च कर्मणा ॥ प्रादुर्भावास्तु मुख्या ये मदंशत्वाद् विशेषतः । अजहत्स्वभावविभवदिव्याः प्राकृतविग्रहाः ॥ दीपाद् दीप इवोत्पन्ना जगतो रक्षणाय ते । अर्च्या एव हि सेनेश अनर्च्यदितरान् विदुः ॥ अनर्च्यानपि वक्ष्यामि प्रादुर्भावान् यथाक्रमम् । चतुर्मुखस्तु भगवान् सृष्टिकार्ये नियोजितः ॥ शङ्कराख्यो महारुद्रः संहारे विनियोजितः । मोहनाख्यस्तथा बुद्धो व्यासश्चैव महानृषिः ॥ वेदानां व्यसने तत्र देवेन विनियोजितः । अर्जुनो धन्विनां श्रेष्ठो जामदग्न्यो महानृषिः ॥ वसूनां पावकश्चापि वित्तेशश्च तथैव च । एवमाद्यास्तु सेनेश प्रादुर्भावैरधिष्ठिताः ॥

नवमः परिच्छेदः २१५ जीवात्मानः सर्व एते नोपास्तिर्वैष्णवी हि सा । आविष्टमात्रास्ते सर्वे कार्यार्थममितद्युते ॥ अनर्थ्याः सर्व एवैते विरुद्धत्वान्महामते । अहङ्कृतियुताश्चैव जीवमिश्रा ह्याधिष्ठिताः ॥ -(तत्त्व० पृ० १३०-१३२) इत्यादिभिर्मुख्यः साक्षादवतारः, गौणस्त्वावेशावतार इति प्रतिपादितम् । अत्र तु साक्षादवतारानावेशावतारांश्च सह पठित्वा प्रादुर्भावगणो मुख्य इत्युभयेषामपि मुख्य- प्रादुर्भावत्वप्रतिपादनादुभयसाधारणप्रसिद्धत्वमेव मुख्यशब्दार्थः, न तु साक्षादवतारत्व- मिति बोध्यम् । किञ्च, "प्रादुर्भावगणो मुख्य इत्युक्तस्ते समासतः" (९।८४) इत्यत्र प्रादुर्भाव- शब्देन मुख्यप्रादुर्भावा गौणप्रादुर्भावाश्च यथा संगृहीताः, तथा प्रादुर्भावान्तराण्युपि संगृहीतानि बोध्यानि, त्रिविक्रमादीनां प्रादुर्भावान्तरत्वात् । प्रादुर्भावान्तरं नाम तत्त- दवताराणामवान्तरभेदाः । तथा च पौष्करे- स्वभावमजहच्छश्वदाकारान्तरमाकृतेः । यत्तदंशसमुद्भूतं प्रादुर्भावान्तरं तु तत् ॥ इति । (३६।२०१-२०२) कण्ठरवेण च प्रतिपादितास्तत्रैव- तथा वामननाथेन खर्वमूर्तिधरेण च । स्नातकब्रह्मचारीयलाञ्छनेर्लाञ्छितेन च ॥ तस्य रूपान्तरेणैव सुखानां सुखदेन च । त्रिविक्रमाख्यसंज्ञेन त्रैलोक्याक्रान्तमूर्तिना ॥ (३६।१९६-१९८) इत्यादिभिः । विष्वक्सेनंसंहितायां चैवमेवोक्तम्- पूर्वोत्पन्नाद् वैभवीयात् प्रादुर्भूता महेश्वराः । प्रादुर्भावान्तरान् विद्धि तान् गणेश्वर मुख्यतः ॥ उपेन्द्राच्च यथा मुख्यात् त्रिविक्रमतनुर्हरिः । (तत्त्व०, पृ० १३५) इत्यादिभिः । लक्ष्मीतन्त्राहिर्बुध्न्यसंहितयोस्त्वावेशावताराणां प्रादुर्भावान्तरत्व- मुक्तम्- आविश्याविश्य कुरुते यत्र देवनरादिकम् । जगद्धितं जगन्नाथस्तज्ज्ञेयं विभवान्तरम् ॥ -इति, (लक्ष्मी० ४।३०) विभवान्तरसंज्ञं तद् यच्छक्त्यावेशसंभवम् । -इति च । (अहि० ८।५१) वस्तुतस्तु "प्रादुर्भावगणो मुख्य इत्युक्तस्ते समासतः" (९।८४) इति पद्म- नाभादीनां मुख्यत्वोक्त्या तदन्येऽमुख्या विभवावतारा बहवः सन्तीति ज्ञायते । अत्र श्रीकृष्णस्य पारिजातहरणशब्देनोक्तत्वात् तदनुक्तिर्न शङ्कनीया ।

२१६ सात्वतसंहिता ननु “नरो नारायणश्चैव हरिः कृष्णस्तथैव च” (९।८२) इति कृष्णास्तूच्यत एव, तदनुक्तिः केनोच्यत इति चेन्न, यतोऽत्र प्रतिपादितः कृष्णो न वसुदेवात्मजः, अपि तु धर्मात्मज इति बोध्यम् । तथा च पौष्करे— धर्मात्मा भगवान् विष्णुः प्रादुर्भावं च शाश्वतम् । प्रादुर्भूतं हि वै यास्मान्नराद्यं कृष्णपश्चिमम् ॥ इति । (३६।२०७) ननु चात्र केवलकृष्णशब्दस्योक्तत्वाद् वसुदेवपुत्रः प्रसिद्धः कृष्ण एव स्यादिति चेन्न, साहचर्यविरोधाद् वक्ष्यमाणध्यानविरोधाच्च । किञ्च, अत्रानन्तस्योक्तत्वाद् बल- भद्रलक्ष्मणावप्युक्तप्रायाविति बोध्यम् । अनन्तः प्रथमं रूपं लक्ष्मणश्च ततः परम् । बलभद्रस्तृतीयस्तु कलौ कश्चिद् भविष्यति ॥ इति प्रसिद्धेः । ननु भगवदवतारमध्ये शेषावतारयोर्बलभद्रलक्ष्मणयोः कथनं कस्यापेक्षितमिति चेन्न, शेषस्यैव भगवतारत्वात् । अत एवात्र—“पद्मनाभो ध्रुवोऽनन्तः” (९।७७) इत्यनन्तस्याप्युक्तत्वाच्च । ननु तर्हि मत्स्याद्यवतारदशकेऽप्यन्तर्भूतस्य बलभद्रस्यास्मिन् पद्मनाभाद्यष्टत्रिंशा- वतारगणे कथमप्रतिपादनमिति चेत्, सत्यम् । यथा श्रीरामस्योक्त्या लक्ष्मणाद्यास्त्र- योऽप्युक्तप्रायाः, तथा पारिजातहरस्योक्त्या तद्भ्रातृपुत्रपौत्राः सङ्कर्षणप्रद्युम्नानिरुद्धा अप्युक्तप्राया इति बोध्यम् । ननु किं प्रद्युम्नानिरुद्धयोरपि भगवदतारान्तर्गतत्वमङ्गीक्रियत इति चेत्, निः- संशयमङ्गीक्रियते । ननु तर्हि पुराणार्थानभिज्ञोऽसि, श्रीभागवते दशमस्कन्धे— कामस्तु वासुदेवांशो दग्धः प्राग् रुद्रमन्युना । देहोपपत्तये भूयस्तमेव प्रत्यपद्यत ॥ (१०।५५।१) इत्यत्र मुनिभावप्रकाशिकाख्यायां व्याख्यायाम्—“वासुदेवांश इति विशेषणम् । अनेन भाविजन्मप्रभृति सम्बन्ध उक्तः । न(नु?तु) चतुर्व्यूहेष्वयं तृतीयव्यूह उच्यते, नाम- साम्यं तु तद्विभूतित्वनिबन्धनमिति विवेकः । वासुदेवाधिष्ठितचित्तप्र(भा प्र)त्वाद् वासुदेवांशस्तत्सृष्टिहेतुत्वाद्वो” इति व्याख्यातम् । अतः प्रद्युम्नानिरुद्धयोर्भगवदवतार- त्वं न संभवतीति चेन्न, यतस्तद्व्याख्यातृभिः सहस्रनामभाष्यादिकं कदापि न दृष्टम् । भगवच्छास्त्रमपि न श्रुतम् । सहस्रनामभाष्ये हि—“कृष्णात्वेऽप्यजहद्वासुदेवादिचतु- र्मूर्तित्वादिति विभवेऽपि तन्मूलव्यूहं प्रत्यभिज्ञापयति—चतुर्मूर्तिः । बलभद्रवासुदेव- प्रद्युम्नानिरुद्धाश्चतस्रो मूर्तयो यदुकुलेऽप्यस्येति व्यूहमूलेन निरूपाधिकपररूपेण देवक्यामवततार” (पृ०६५८-६५९) इति, “अत्रापि तथैव समस्तव्यस्तषाड्गुण्या- वस्थत्वाच्चतुर्व्यूहः” (पृ० ६६०) इति च प्रद्युम्नानिरुद्धयोरपि भगवदवतारत्वमस- कृदुक्तम् । भगवच्छास्त्रेऽपि लक्ष्मीतन्त्रे— अवतारो हि यो विष्णोश्चतुर्धा संभविष्यति ।

नवमः परिच्छेदः २१७ मधुरायामहं व्यक्तिं चतुर्धैष्यामि वै तथा ॥ रेवती रुक्मिणी चैव रतिर्नाम्ना तथाप्युषा । (८।४५-४६) इति बलभद्रादीनां चतुर्णामपि भगवदवतारत्वं सुस्पष्टं प्रतिपादितम् । अलं प्रसक्तानुप्रसक्त्या ॥ ७७-८४ ॥ अब इनके वाच्य अड़तीस पद्मनाभादि देवताओं के नाम कहते हैं—पद्मनाभ, ध्रुव, अनन्त, शक्त्यात्मा, मधुसूदन, विद्याधिदेव, कपिल, विश्वरूप, विहङ्गम, क्रोडात्मा (१०), वडवावक्त्र, धर्म, वागीश्वर, देव एकार्णवशाय, पातालधारक कूर्म, वाराह, नरसिंह, अमृताहरण, दिव्य देह श्रीपति, अमृतधारककान्तात्मा (२०), राहुजित्, कालनेमिघ्न, महान् पारिजातहर, शान्तात्मा, लोकनाथ, महाप्रभु दत्तात्रेय, भगवान् न्यग्रोधशायी, एकशृङ्गतनु, देव वामनदेह (३०), सर्वव्यापी त्रिविक्रम, नर, नारायण, हरि, कृष्ण, ज्वलत्परशुधृक् परशुराम, धनुर्धरराम, वेदावर्त, भगवान् कल्की, प्रभु पातालशयन ॥ ७७-८३ ॥ हे सङ्कर्षण ! इस प्रकार संक्षेप में गौण तथा मुख्य प्रादुर्भाव गण (तत्तदवतार और उनके अवान्तर भेद) कहे गए । अब प्रधान देवी गणों को कहते हैं, अब यहाँ सभी शक्ति संघों में प्रधान शक्ति संघ कहता हूँ ॥ ८४ ॥ शक्तिसंघात् प्रधानो यः शक्तिसंघः स उच्यते ॥ ८४ ॥ लक्ष्मीः पुष्टिर्दया निद्रा क्षमा कान्तिः सरस्वती । धृतिर्मैत्री रतिस्तुष्टिर्मतिर्द्वादशमी स्मृता ॥ ८५ ॥ अथ प्रधानं देवीवर्गमाह—शक्तीति सार्धेन । शक्तिसंघादिति जात्येकवचनम् । यतः श्र्यादिदेवीनामेकद्विकचतुष्कषट्काष्टकद्विषट्कभेदैः षोढा संघान् वक्ष्यति द्वादशे परिच्छेदे । अयमपि संघो वक्ष्यमाणान्तर्गत एव । अत्रापि मुख्यतमत्वात् प्रतिपादितः । पद्मनाभादीनां प्रसिद्धा देव्यस्त्वीश्वरलक्ष्मीतन्त्रयोः प्रतिपादिताः । तथाहि— धीस्तारा वारुणी शक्तिः पद्मा विद्या तथैव च । संख्या विश्वा खगा भूर्गोर्लक्ष्मीर्वागीश्वरी तथा ॥ अमृता धरणी छाया नारसिंही तथा सुधा । श्रीः कान्तिर्विश्वकामा मा सत्या शान्तिः सरोरुहा ॥ माया पद्मासना खर्वा विक्रान्तिर्नरसंभवा । नारायणी हरिप्रीतिर्गान्धारी काश्यपी तथा ॥ वैदेही वेदविद्या च पद्मिनी नागशायिनी । त्रिंशच्चाष्टाविमा देव्यः पद्मनाभादिशक्तयः ॥ इति । (८४-८५) —(लक्ष्मी० २०।४५-४८, ई० सं० ७।३३-३७) लक्ष्मी, पुष्टि, दया, निद्रा, क्षमा, कान्ति, सरस्वती, धृति, मैत्री, रति, तुष्टि एवं मति ये द्वादश शक्तियाँ हैं ॥ ८५ ॥ सा० सं० - 18

२१८ सात्वतसंहिता प्रधानभूतांश्छारीरानलङ्कारान्निबोध मे । किरीटः कौस्तुभो भाढ्यः श्रीवत्सोऽमृतलक्षणः ॥ ८६ ॥ वनमालेति गरुडः प्रधानान् हेतिकान् शृणु । चक्रं शङ्खो गदा पद्मं लाङ्गलं मुसलं शरः ॥ ८७ ॥ शार्ङ्गं च खड्गखेटौ तु दण्डः परशुरीतिहा । पाशाङ्कुशौ मुद्गरश्च वज्रः शक्तिसमन्वितः ॥ ८८ ॥ इत्येतद् देवताचक्रमङ्गमन्त्रगणान्वितम् । विग्रहे देवदेवस्य संलीनमवतिष्ठते ॥ ८९ ॥ अथ किरीटादिभूषणप्रधानचतुष्टयं वाहनं चक्रादिसप्तदशप्रधानायुधानि चोक्त्वा एषामङ्गमन्त्रैः सह भगवद्विग्रहे संलीनत्वमाह—प्रधानभूता इति चतुर्भिः । ईतिहन्तेति ईतिहेति परशोर्विशेषणम् । अत्र विशेष्यभ्रान्त्या पारमेश्वरव्याख्यातृभिर्विमानदेवता- कथनप्रकरणे चक्रादिशक्त्यन्ताष्टायुधन्यास इत्युक्तम्, सहस्त्रकलशाभिषेक- प्रकरणेऽपि— चक्रादिवज्रपर्यन्तमस्त्रषोडशकं यजेत् ॥ कोणस्थेषु चतुष्केषु न्यसेच्छक्तिं ततः परम् । (१४।४४७-४४८) इति श्लोकव्याख्यावसरे पूर्वोक्तभ्रान्तिजल्पितस्य दृढीकरणार्थं चक्रादिवज्र- पर्यन्तमित्यत्रातद्गुणसंविज्ञानो बहुव्रीहिरिति चोक्तम् ॥ ८६-८९ ॥ अब इनके प्रधान शारीरिक अलङ्कारों को सुनिए—देदीप्यमान किरीट, कौस्तुभ, अमृत लक्षण श्रीवत्स और वनमाला इनके ये चार अलङ्कार हैं । गरुड़ वाहन हैं । अब इनके प्रधान शस्त्रों को सुनिए । चक्र, शङ्ख, गदा, पद्म, लाङ्गल, मुसल, द्वार, शार्ङ्ग, खड्ग, खेटक, दण्ड, ईतियों को नष्ट करने वाला परशु, पाश, अङ्कुश, मुद्गर, वज्र शक्ति, अङ्ग मन्त्र गणान्वित, इतने देवता चक्रादि देवाधिदेव विष्णु के विग्रह में लीन होकर स्थित रहते हैं ॥ ८६-८९ ॥ देवतावर्गकथनम् वक्ष्ये भवोपकरणं गीर्वाणगणमुत्तमम् । नानाविभवमूर्तीनां योऽवतिष्ठेत शासने ॥ ९० ॥ कालो वियन्नियन्ता च शास्त्रं नानाङ्गलक्षणम् । विद्याधिपतयश्चैव सरुद्रः सगणः शिवः ॥ ९१ ॥ प्रजापतिसमूहश्च इन्द्रः सपरिवारकः । मुनयः सप्त पूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः ॥ ९२ ॥ जीमूताश्चाखिला नागास्त्वप्सरोगण उत्तमः ।

नवमः परिच्छेदः २१९ ओषध्यश्चैव पशवो यज्ञाः साङ्गाखिलाश्च ये ॥ ९३ ॥ विद्या चैव पराविद्या पावकश्चैव मारुतः । चन्द्रार्कौ वारिवसुधे इत्युक्तममलेक्षण ॥ ९४ ॥ चतुर्विंशतिसंख्यं च भवोपकरणं महत् । अथ भवोपकरणदेवतावर्गमाह—वक्ष्य इत्यादिभिः । सरुद्र सगण इति च शिवस्य विशेषणम् । रुद्रैरेकादशभिः सह वर्तत इति तथोक्तः ॥ ९०-९५ ॥ अब भवोपकरण भूत देवता वर्गों को कहते हैं—जो नाना प्रकार के विभव मूर्त्तियों के शासन में रहते हैं । समस्त विद्याधिपति, सरुद्र, सगण शिवप्रजापति समूह सपरिवार, इन्द्र, अन्य ग्रह तारादिकों से संयुक्त सप्तर्षि, समस्त भूतगण, नाग, अप्सरा गण, औषधियाँ, पशु, साङ्ग समस्त यज्ञ, विद्या, पराविद्या, अग्नि, वायु, चन्द्रमा, सूर्य, जल एवं वसुधा इतने भवोपकरण हैं । हे अमलेक्षण ! इन्हें मैंने आपसे कहा ॥ ९०-९४ ॥ ये सभी २४ संख्या में भवोपकरण कहे गये । यतः भव (= प्रकृति) प्रधान है, प्रकृति लक्षण व्यापक है और जड़ लक्षण वाली है ॥ ९५ ॥ भवः साक्षात् प्रधानं तु व्यापको जडलक्षणः ॥ ९५ ॥ मन्त्रमन्त्रेश्वरन्यासात् सोऽपि पूज्यत्वमेति च । इत्येवमादि सर्वेषां भविनां परमेश्वरः ॥ ९६ ॥ स्थितोऽन्तर्यामिभावेन रूपमासाद्य निष्कलम् । आप्तकामः स भगवान् स्वव्यापारवशेन तु ॥ ९७ ॥ स्वां शक्तिमवलम्ब्यास्ते पद्मनाभात्मना पुनः । धराम्बुहुतभुग्वातमूलनालदलोदरे ॥ ९८ ॥ एवं भवोपकरणदेवता विवृत्य भवस्यापि पूज्यत्वमाह—भव इति । भवत्यस्मात् सर्वमिति भवः, प्रकृतिरित्यर्थः । प्रधानं प्रधानशब्दवाच्यः । एतद्भवोपकरणादीनां सर्वेषामपि प्रकृतियुक्तानामन्तर्यामिभावेन स्थितोऽपि स्वयं पूर्णकामोऽपि भक्तानुग्रहार्थं पद्मनाभाख्यविभवरूपमङ्गीकरोतीत्याह—इत्येवमिति द्वाभ्याम् । निष्कलं निराकार- मित्यर्थः ॥ ९५-९८ ॥ चतुस्तत्त्वमये पद्मे गगनैकार्णवोदरे । मानसेऽनन्तशयने दिव्यबोधतनुर्विभुः ॥ ९९ ॥ सहस्रांशुसहस्राभ उत्तानस्थो हि लीलया । ततो विविधरत्नाभे तदीये नाभिपुष्करे ॥ १०० ॥ प्रोद्द्वहंस्तु स्ववीर्येण विद्यां सामर्थ्यविग्रहाम् ।

२२० सात्वतसंहिता मूर्तैर्ध्वजादिकैः सर्वैरावृतस्तत्परायणैः ॥ १०१ ॥ तत्पद्मनाभरूपं विशिनष्टि—धरेति सार्धैस्त्रिभिः । धराम्बुहुतभुग्वातमूलनाल- दलोदरे चतुस्तत्त्वमये पृथिवीतत्त्वस्य मूलत्वम्, अप्तत्त्वस्य नालत्वम्, तेजस्तत्त्वस्य दलत्वम्, वायुतत्त्वस्य कमलोदरत्वं च क्रमेण ज्ञेयम् । गगनैकार्णवोदरे आकाश- तत्त्वात्मकसमुद्रमध्य इत्यर्थः । मानसेऽनन्तशयने मनस्तत्त्वात्मकनागपर्यङ्क इत्यर्थः । दिव्यबोधतनुः बुद्धितत्त्वात्मकदिव्यशरीर इत्यर्थः । उत्तानस्थः उत्तानशायीत्यर्थः । तदीये नाभिपुष्करे प्रकृतितत्त्वात्मकनाभिपद्म इत्यर्थः । विद्यां चतुर्मुखमूर्त्तिरूपां वेद- विद्यामित्यर्थः । तस्य विद्यादेहत्वं प्रतिपादितं खलु जयाख्यादिषु— तन्मध्ये मानवो ब्रह्मा मया सृष्टश्चतुर्मुखः । जगतां प्रभवस्तस्माद् विद्यादेहः सनातनः ॥ (२।२७) इति ॥ ९८-१०१ ॥ मन्त्र मन्त्रेश्वर के न्यास के कारण वह पूज्यता प्राप्त किये हुए है । इस प्रकार सभी सांसारिक वस्तुओं में अन्तर्यामी भाव से स्थित होकर परमेश्वर निष्कल (निराकार) होकर भी साकार रूप धारण करते हैं । यद्यपि भगवान् आप्तकाम हैं किन्तु अपने व्यापार के वशीभूत होकर पद्मनाभ रूप से अपनी शक्ति का सहारा ले कर चतुस्तत्त्वमय धरा, जल, अग्नि एवं वायु रूप मूल, नाल एवं दल के उदर में, गगन रूप एकार्णव उदर वाले पद्म में, मनस्तत्त्वात्मक नाग के पर्यङ्क पर दिव्यज्ञान शरीर धारण कर सहस्रों सूर्य के समान प्रकाशित हो कर अपनी लीला से उत्तान पड़े रहते हैं । अर्थात् यहाँ चार तत्त्वों में पृथ्वी मूल है, जल तत्त्व नाल है, तेजस तत्त्व कमल दल है, वायुतत्त्व कमलोदर है, आकाशतत्त्व समुद्र मध्य है । उनकी नाभि पुष्कर में प्रकृति तत्त्वात्मक नाभि पद्म उत्पन्न हुआ है वे मनस्तत्त्वात्मक नाग पर्यङ्क पर लीलापूर्वक उत्तान सोये हुए हैं ॥ ९६-१०० ॥ वे अपनी शक्ति से शक्ति स्वरूपा महाविद्या को वहन कर रहे हैं । वे विद्या में परायण सभी मूर्त्ति ध्वजादिकों से घिरे हुए हैं ॥ १०१ ॥ अनन्तचेष्टस्य विभोरित्येवं त्वीश्वरात्मनः । भोगापवर्गदं रूपं शान्तव्यक्तं च वैभवम् ॥ १०२ ॥ प्राग्वत् तुर्यपदावस्थं स्मरेद् हृत्कमलाम्बरे । एवं पद्मनाभरूपस्य हृदयकमले ध्यानस्थानमाह—अनन्तेति सार्धेन । शान्तं निराकारम्, अन्तर्यामिभावेन स्थितमिति यावत् । व्यक्तं साकारमित्यर्थः । साकारत्वेन निराकारत्वेनोभयथापि ध्येयमिति भावः । प्राग्वत् तुर्यपदावस्थं द्वितीयपरिच्छेदोक्त- रीत्या (२।६९) नादावसानगगनस्थितमित्यर्थः ॥ १०२-१०३ ॥ तदधः कर्णिकामध्ये त्वभिजातोत्यलद्युतिम् ॥ १०३ ॥ दिशो दश द्योतयन्तं नानागात्ररुहैश्चितम् ।

नवमः परिच्छेदः २२१ सौम्यं द्विरष्टवर्षं च राजीवदललोचनम् ॥ १०४ ॥ भचक्रचक्रभृद्देवं गदादेहं तथैव च। शक्तिमाधारसंज्ञां च प्रोद्वहन्तं स्मरेद् ध्रुवम् ॥ १०५ ॥ स्थितो यः स्तम्भभूतस्तु अस्मिन् वै विश्वमन्दिरे । नभोऽनिलात्मना चैव भूमिकाभिन्नलक्षणे ॥ १०६ ॥ तदधः कर्णिकामध्ये सुषुप्तिस्थाने ध्रुवस्य ध्यानप्रकारमाह—तदध इति सार्धैस्त्रिभिः । नायं प्रसिद्धोऽर्वाचीनो ध्रुव इति मन्तव्यः । अपि तु तस्यापि ध्रुवत्व- प्रदः । साक्षाद् भगवद्रूपोऽन्य इति बोध्यम् । तथा च सहस्रनामभाष्ये"अतिशयेन धीयते बद्ध्यतेऽस्मिन् ज्योतिश्चक्रमिति व्यवसायः, ..... नक्षत्राधारव्योमशरीर- त्वात् । अतो हि "गगनमूर्तये" (सा० २३।४४) इति मन्त्रवर्णः । "भचक्रचक्र- भृद्देवम्" (सा० ९।१०५) इति हि ध्यानम् । सर्वमस्मिन् संतिष्ठते समाप्यत इति संस्थानः । स एव "परमपदप्राप्तिहेतुः" (सा० २३।४५) इति मन्त्रवर्णात् स्थानदः । स खलु तुङ्गपदप्रदानेनार्वाचीनं ध्रुवमपि ध्रुवीचकार, अतो ध्रुवः" (पृ० ३६४-३६६) इति ॥ १०३-१०६ ॥ अनन्त चेष्टा वाले ईश्वरात्मा उन विभु का वैभव-स्वरूप भोग एवं अपवर्ग देने वाला है और शान्त (निराकार) व्यक्त साकार है । इस प्रकार तूर्य पदावस्थ उनको साकार निराकार दोनों रूप का ध्यान करना चाहिये ॥ १०२-१०३ ॥ इस प्रकार कर्णिका के मध्य में सुषुप्ति स्थान में अत्यन्त मनोहर कमल के समान अपनी कान्ति से दशों दिशाओं को प्रकाशित करते हुए सौम्य-स्वरूप सोलह वर्ष की अवस्था वाले, कमल के समान नेत्रों से युक्त, नक्षत्र चक्र में चक्र धारण किये हुए, गदा धारण किये हुए, उसी प्रकार अपनी शक्ति तथा आधार संज्ञा को धारण किये हुए ध्रुव स्वरूप भगवान् का ध्यान करे ॥ १०२-१०५ ॥ नभ, वायु और भूमि से अभिन्न लक्षण वाले इस विश्वमन्दिर में खम्भे की तरह वे अडिग स्थित है ॥ १०६ ॥ प्रागादावीशकोणान्तं संस्मरेत् कर्णिकोपरि । द्विषट्कं यदनन्ताद्यं सरश्शाय्यन्तमग्निगम् ॥ १०७ ॥ तस्मिन्नेव स्थाने प्रागादीशानान्तमन्नतादिद्वादशमूर्तिध्यानं कार्यमित्याह— प्रागादाविति । अग्निगम् = अग्निमण्डलस्थमित्यर्थः ॥ १०७ ॥ अब ऐसे स्थान में पूर्व से ईशानादि क्रम से द्वादश मूर्तियों का ध्यान करे, इस बात को कहते हैं—पूर्व से आरम्भ कर ईशानकोण पर्यन्त कर्णिका पर सरश्शायी अग्नि के मण्डल में स्थित बारह संख्यक अनन्तादि का ध्यान करे ॥ १०७ ॥

२२२ सात्वतसंहिता तत्संख्यं केसरोर्ध्वस्थं तद्वत् कूर्मादिकं न्यसेत् । न्यग्रोधशायिपर्यन्तममृताधारमण्डले ॥ १०८ ॥ केसरस्थाने स्वप्नपदे कूर्मादिद्वादशमूर्तिध्यानं कार्यमित्याह—तत्संख्यमिति । अमृताधारमण्डले चन्द्रमण्डल इत्यर्थः ॥ १०८ ॥ केशर के ऊर्ध्व भाग में कूर्मादि से लेकर न्यग्रोधशायी पर्यन्त बारह देवताओं के आधारभूत चन्द्रमण्डल में न्यास करे ॥ १०८ ॥ सूर्यचक्रसमारूढं दलभूमिगतं ततः । पातालशायिपर्यन्तमेकशृङ्गादिकं हि यत् ॥ १०९ ॥ दलस्थाने जाग्रत्पदे एकशृङ्गादिद्वादशमूर्तिध्यानं कार्यमित्याह—सूर्येति । एषा- मनन्तादिष्टत्रिंशद्देवानां ध्यानप्रकारा वक्ष्यमाणा ज्ञेयाः ॥ १०९ ॥ दल स्थान में (जाग्रत्पद में) सूर्य चक्र पर समारूढ़ एकशृङ्ग से लेकर पातालशायी पर्यन्त मूर्त्तियों का ध्यान करे । (अनन्त से लेकर ३६ देवताओं का ध्यान आगे चलकर कहेंगे) ॥ १०९ ॥ न्यस्यैवममृतोत्थैस्तु भोगैरभ्यर्च्य मानसैः ॥ यथावद् ध्यानयोगेन प्राग्वत् सृष्टिक्रमेण तु ॥ ११० ॥ पुनः संहृतियोगेन पातालशयनात् तु वै । यावद् गगनशाय्यन्तमर्चनीयं फलाप्तये ॥ १११ ॥ पद्मनाभाद्यष्टत्रिंशद्देवानापि सृष्टिक्रमेण संहारक्रमेण च मानसार्चनं कार्य- मित्याह—न्यस्येति द्वाभ्याम् । गगनशाय्यन्तं पद्मनाभान्तमित्यर्थः ॥ ११०-१११ ॥ इस प्रकार इन देवताओं का न्यास कर मानस भोगों से उनकी अर्चना कर पहले ध्यान करे । फिर सृष्टिक्रम से न्यास करे ॥ ११० ॥ फिर संहार क्रम से पातालशयन से आरम्भ कर गगन शय्यन्त अर्थात् पद्मनाभान्त देवताओं का फल प्राप्ति के लिये अर्चना करे ॥ ११०-१११ ॥ य उक्तः समुदायेऽस्मिन् हृद्यागे देवतागणः । यजेद् भिन्नक्रमेणैव विधिनानेन तं पुनः ॥ ११२ ॥ त्रिकं यद्वै द्विषट्कानां त्रिस्थानस्थं प्रकाशितम् । पृथक् पृथक् तदेकैकं न्यस्य न्यस्य यजेत् क्रमात् ॥ ११३ ॥ अनन्तादिद्वादशकस्य कूर्मादिद्वादशकस्य मीनादिद्वादशकस्य च प्रत्येकं प्रत्येक- मप्यर्चनं कुर्यादित्याह—य इति द्वाभ्याम् ॥ ११२-११३ ॥ इस समुदाय में अन्तर्याग में जो देवतागण कहे गए हैं । उन अनन्तादि

नवमः परिच्छेदः २२३

द्वादशक, कूर्मादि द्वादशक, मीनादि द्वादशक देवों का एक-एक का अलग से न्यास कर अर्चना करे ॥ ११२-११३ ॥ प्रतिद्वादशकस्याद्यं प्रगुक्तेन क्रमेण यत् । तन्निष्कलात्मना पूर्वमिष्ट्वा वै कर्णिकोदरे ॥ ११४ ॥ समुत्थाप्य ततो मध्यात् तमेव सकलात्मना । न्यसेदाधारभूतं च सर्वत्र कमलादधः ॥ ११५ ॥ तमेवार्घ्यादिनाऽभ्यर्च्य कमलच्छदकोटिगम् । द्वितीयं कर्णिकामध्ये तदग्रे केसरोर्ध्वगम् ॥ ११६ ॥ ध्यात्वा न्यस्य तृतीयं तु ततः पत्राष्टकेऽष्टकम् । द्वादशाख्यं हि सर्वत्र गगने पद्मनाभवत् ॥ ११७ ॥ भवोपकरणीयाभिर्देवताभिः समावृतम् । यस्त्वङ्गदेवतासंघः सर्वः स कमलाद् बहिः ॥ ११८ ॥ न्यस्यैवमर्चनं कुर्याद् दिव्यैर्भोगैस्तु पूर्ववत् । प्रत्येकार्चनप्रकारमाह—प्रतिद्वादशकस्येत्यारभ्य दिव्यैर्भोगैस्तु पूर्ववदित्यन्तम् । प्रतिद्वादशकस्याद्यं यद् अनन्तः कूर्मो मीनश्चेत्यर्थः । द्वितीयं शक्त्यात्मानं वराहं वामनं चेत्यर्थः । तृतीयं मधुसूदनं नारसिंहं त्रिविक्रमं चेत्यर्थः । अष्टकं विद्यादेवाष्टकं श्री- पत्याद्यष्टकं नराद्यष्टकं चेत्यर्थः । द्वादशाख्यम् एकार्णवशायिनं न्यग्रोधशायिनं पाताल- शायिनं चेत्यर्थः । तथा च प्रयोगः—अनन्तादिद्वादशकार्चनप्रकरणे प्रथममनन्तं स्वहृदयकमल- कर्णिकामध्ये निराकारं ध्यात्वाऽभ्यर्च्य, पुनस्तमेव तस्मात् स्थानादुत्थाप्य, हृदय- कमलाधस्ताद् आधारभूतं साकारं ध्यात्वाऽभ्यर्च्य, तमेव हृत्कमलदलाग्रेऽप्यभ्यर्च्य, कर्णिकामध्ये शक्त्यात्मानं तत्पुरतः केसरस्थाने मधुसूदनं दलाष्टके विद्याधिदेवाद्यष्टकं चाभ्यर्च्य, नादावसानगगने पद्मनाभवत् साकारं निराकारं चैकार्णवशायिनं ध्यात्वाऽ- भ्यर्च्य, लक्ष्म्यादिशक्तिकिरीटादिभूषणचक्रादिलाञ्छनानि कालादिभवोपकरणदेवताश्च कमलाद् बहिरभ्यर्चयेत् । कूर्मादिद्वादशकार्चनप्रकरणे त्वनन्तस्थाने कूर्मम्, शक्त्या- त्मस्थाने वराहम्, मधुसूदनस्थाने नृसिंहम्, विद्याधिदेवाद्यष्टकस्थाने श्रीपत्याद्यष्टकम्, एकार्णवशायिस्थाने न्यग्रोधशायिनं चार्चयेत् । मीनादिद्वादशकार्चनप्रकरणे तु कूर्म- स्थाने मीनम्, वराहस्थाने वामनम्, नृसिंहस्थाने त्रिविक्रमम्, श्रीपत्याद्यष्टकस्थाने नरा- द्यष्टकम्, न्यग्रोधशायिस्थाने पातालशायिनं चार्चयेत् ॥ ११४-११९ ॥ प्रत्येक का अर्चन कहते हैं—प्रथम द्वादशक के—आद्य, अनन्त, कूर्म एवं मीन, द्वितीय—शक्त्यात्मा, वराह एवं वामन, तृतीय द्वादशक—मधुसूदन, नारसिंह एवं त्रिविक्रम, अष्टक—विद्यादेवाष्टक, श्रीपत्याद्यष्टक एवं नराष्टक, द्वादशाख्य— एकार्णवशायी, न्यग्रोधशायी एवं पातालशायी, प्रयोग—अनन्तादिद्वादशकार्चन

२२४ सात्वतसंहिता प्रकरण में कहे गए प्रथम अनन्त की हृदय कमल कर्णिका के मध्य में निराकार का ध्यान करे और अर्चन करे । फिर वहाँ से उठ कर हृदय कमल से नीचे आधारभूत साकार का ध्यान करे और अर्चना करे । फिर हृदय कमलदलाग्र में उनकी अर्चना करे । कर्णिका के मध्य में शक्त्यात्मा के सर स्थान में मधुसूदन, दलाष्टक में विद्यादिदेवाष्टक की अर्चना करे । नादावसान गगन में साकार, निराकार एवं एकार्णवशायी विष्णु का ध्यान कर अर्चन करे । फिर लक्ष्म्यादिशक्ति, किरीटादि, भूषण, चक्रादि लाञ्छन, कालादिभवोपकरण देवता की कमल से बाहर अर्चना करे । कूर्मादिद्वादशार्चन के प्रकरण में कहे गए अनन्त के स्थान में कूर्म, शक्त्यात्म स्थान में वराह, मधुसूदन स्थान में नृसिंह, विद्यादि देवताष्टक स्थान में श्रीपत्यादि अष्टक, एकार्णवशायी स्थान में न्यग्रोधशायी की अर्चना करे । मीनादिद्वादशार्चन प्रकरण में कहे गए कूर्म स्थान में मीन, वराह स्थान में वामन, नरसिंह स्थान में त्रिविक्रम, श्रीपत्याद्यष्टक स्थान में नराद्यष्टक और न्यग्रोधशायि स्थान में पातालशायी की अर्चना करे । इस प्रकार न्यास करने का विधान है ॥ ११४-११८ ॥ मूर्त्तौ मण्डलमध्ये च बहिरग्नौ जलाशये ॥ ११९ ॥ स्वमन्त्रेणाम्बरस्थस्य मूर्तं स्रक्चन्दनादिकम् । दातव्यं कर्णिकामध्ये न्यस्तमन्त्रस्य मूर्धनि ॥ १२० ॥ प्रतिबिम्बति तद् यस्मात् तद् ब्रह्मद्वारदर्पणे । एवं मानसार्चनमुक्त्वा बिम्बादिबाह्यार्चनेऽप्येवमेव देवतान्यासक्रमः । किन्तु गगनस्थमूर्तेरर्चनार्थं पुष्पचन्दनादिकं कर्णिकामध्यस्थितमूर्तेर्मूर्द्धन्येव समर्पयेत् । यतः कर्णिकामध्यस्थितमूर्तिर्ब्रह्मरन्ध्रदर्पणे गगनस्थमूर्तिः प्रतिबिम्बतीत्याह—मूर्त्ताविति द्वाभ्याम् । मूर्त्तौ बिम्बे मण्डलमध्ये वक्ष्यमाणमण्डले, अग्नौ प्रतिष्ठितेऽग्नौ, जलाशये तीर्थमध्य इत्यर्थः । मानसिकत्वनिवृत्त्यर्थं मूर्तमिति स्रक्चन्दनादिकस्य विशेषणमुक्तम् । मूर्तं = बाह्येन्द्रियविषयमित्यर्थः ॥ ११९-१२१ ॥ मानसार्चन करने के बाद बिम्बादि बाह्य अर्चन में भी इसी प्रकार देवता न्यास का क्रम है—मानस पूजा के पश्चात् मूर्त्ति में, मण्डलमध्य में, बाहर अग्नि में, अथवा जलाशय में उन-उन के अपने मन्त्र से अम्बरस्थ मूर्त्ति के लिये स्रक, चन्दनादि कर्णिका के मध्य में स्थापित मूर्त्ति के शिर पर समर्पित करे । क्योंकि गगनस्थ मूर्त्ति नीचे वाले ब्रह्मद्वार दर्पण में प्रतिबिम्बित होती रहती है ॥ ११९-१२१ ॥ यस्य यस्य यदा यस्मिन्नाकारे रमते मनः ॥ १२१ ॥ भोगाप्तये वा मोक्षार्थं तं तं मध्येऽर्चयेत् तदा । तदुद्देशेऽर्चनं कुर्यात् तत्स्थानप्रच्युतस्य वा ॥ १२२ ॥ नानासिद्धिप्रदानाच्च सह संहारमूर्तिना । यस्य साधकस्य यस्मिन् भगवदवतारे विशेषेणाभिरुचिः, तेन स एव भगवान्

नवमः परिच्छेदः २२५ प्राधान्येन कर्णिकामध्ये तदूर्ध्वगगनस्थितार्णवशाय्याद्यन्यतममूर्तिना सह पूजनीयः, तस्य स्थाने तु पूर्वं कर्णिकामध्येऽर्चनीयत्वेन य उक्तः, स पूजनीय इत्याह—यस्येति (सार्धं?) द्वाभ्याम् । तत्स्थानप्रच्युतस्य कर्णिकामध्यादुत्थापितस्येत्यर्थः । संहारमूर्तिना एका- र्णवशायिन्यग्रोधशायिपातालशाय्यन्यतमेनेत्यर्थः ॥ १२१-१२३ ॥ दोनों मूर्ति एक ही हैं, जिस-जिस साधक का जिस-जिस आकार में मन रमण करे वह भोग की प्राप्ति के लिये, अथवा मोक्ष के लिये उसे उस कर्णिका के मध्य में स्थित मूर्ति का, ऊर्ध्व गगन स्थित, अथवा तीनों अर्णवशायी किसी एक संहार मूर्ति के साथ पूजा करनी चाहिये ॥ १२१-१२३ ॥ एवमेवाङ्गमन्त्राणामर्चनादीप्सितं लभेत् ॥ १२३ ॥ तत्रायं हि विशेषः स्याद् विन्यासे तन्निबोध मे । भूलोकाखिलसिद्धीनामाप्तये तावदुच्यते ॥ १२४ ॥ अथ भूलोक एव पातालाद्यखिललोकभोगसिद्धयर्थं श्रियादिशक्तिकिरीटादि- भूषणचक्रादिलाञ्छनसंज्ञाङ्गमन्त्रानेवार्चयेत्, तदानीं देवताविन्यासप्रकार उच्यत इ(त्युत- आ? त्या)ह—एवमिति सार्धेन ॥ १२३-१२४ ॥ इसी प्रकार अङ्गमन्त्रों की अर्चना से साधक अभीष्ट फल प्राप्त करता है । वहाँ विन्यास में जो विशेषता होती है, हे सङ्कर्षण ! आप सुनिए भूलोकादि अखिल सिद्धियों के लिये उपाय कहता हूँ ॥ १२३-१२४ ॥ प्राग्वद् द्वादशकादन्त्यादेकशृङ्गमथो यजेत् । श्र्याख्यं यदङ्गमन्त्रं तु कर्णिकायां न्यसेत् ततः ॥ १२५ ॥ अथ केसरकोटिस्थं स्मरेत् तत्पुरतोऽपरम् । पश्चात् क्रमाद् दलान्तस्थं दलाग्रस्थं द्विरष्टकम् ॥ १२६ ॥ पातालशायिनं मध्ये मन्त्रस्योपरि पूर्ववत् । ध्यायेन्निश्र्शेषपातालसिद्धीनामालयं परम् ॥ १२७ ॥ तच्छक्त्यनुगृहीतस्तु मन्त्रेशः कर्णिकागतः । समस्तसिद्धिदाने स्यादाश्रितस्याङ्गसंज्ञकः ॥ १२८ ॥ प्रथमं पाताललोकसिद्धयर्थं लक्ष्मीमन्त्रस्य प्राधान्येनार्चनक्रममाह—प्राग्वदिति चतुर्भिः । अन्त्याद् द्वादशकाद् एकशृङ्गाद्दिद्वादशकादित्यर्थः । एकशृङ्गं मीनमित्यर्थः । श्रियाख्यं लक्ष्मीसंज्ञमित्यर्थः । अपरं पुष्टिमन्त्रमित्यर्थः । पश्चात् क्रमाद्दलान्तस्थं द्विरष्टकं निद्रादिदशकं कीरीटादिचतुष्टयं गरु(डश्च? डं चक्रं) चाहत्य द्विरष्टकं बोध्यम् । दलाग्रस्थं द्विरष्टकं तु शङ्खादिशक्त्यन्तं ज्ञेयम् ॥ १२५-१२८ ॥ प्रथम एकशृङ्गादि द्वादश से लेकर लक्ष्मीसंज्ञक जितने मन्त्र हैं उनसे कर्णिका में न्यास करे ॥ १२५ ॥

२२६ सात्वतसंहिता उसके पश्चात् केशर कोटि में उसके आगे दलान्तस्थ सोलह पुष्टि मन्त्रों से न्यास करे। फिर दलाग्रस्थ शङ्खादि शक्ति पर्यन्त का न्यास करे। फिर मन्त्र के ऊपर मध्य में पूर्ववत् पातालशायी का, फिर पाताल सिद्धियों के आलयभूत पद देवता का ध्यान करे। उसकी शक्ति से अनुगृहीत कर्णिकागत अङ्गसंज्ञक मन्त्रेश समस्त सिद्धियों को देने में समर्थ हो जाता है ॥ १२६-१२८ ॥ एवमेव भुवर्लोकसिद्धीनां प्राप्तये सदा। स्मर्य ऊर्ध्वे सरश्शायी त्वनन्तः कमलादधः ॥ १२९ ॥ अथ भुवर्लोकसिद्ध्यर्थमर्चने विशेषमाह—एवमिति। सरश्शायी एकार्णवशाय इत्यर्थः ॥ १२९ ॥ अब भूलोक की सिद्धि के लिये विशेष अर्चन कहते हैं—इसी प्रकार भुव लोक की सिद्धि के लिये सदा ऊपर एकार्णवशायी अनन्त का तथा नीचे कमलादि का यजन करे ॥ १२९ ॥ यजेद् गगनसिद्धीनामशेषाणामथाप्तये। खस्थं न्यग्रोधशयनं कूर्मं कमलमूलगम् ॥ १३० ॥ सुवर्लोकादीनां सिद्ध्यर्थमर्चने विशेषमाह—यजेदिति। खस्थं कर्णिकामध्य- गतलक्ष्मीयन्त्रस्योपरि स्थितमित्यर्थः ॥ १३०॥ सुवर्लोक की सिद्ध के लिये विशेष पूजन—कर्णिका मध्यगत लक्ष्मी यन्त्र के ऊपर स्थित कमल मूल में स्थित कूर्म भगवान् का यजन करे ॥ १३० ॥ एतेषामपि सञ्चारं नानासिद्धिव्यपेक्षया। प्रधानमन्त्रवत् कुर्यात् प्राग्वत् सर्वत्र सर्वदा ॥ १३१ ॥ एवं लक्ष्मीमन्त्रवत् पुष्याद्यङ्गमन्त्राणामपि तत्तत्फलप्राप्तीच्छया प्राधान्येनार्चनं कुर्यादित्याह—एतेषामिति ॥ १३१ ॥ लक्ष्मी मन्त्र के समान पुष्पादि अङ्गमन्त्रों की भी उन उन फलों के प्राप्ति की इच्छा से प्राधान्येन अर्चन करना चाहिये ॥ १३१ ॥ एवमाद्यैस्तु विधिवद् भोगैर्नानाविधोत्थितैः । यः स्थितस्त्रिविधे सर्गे विभवः पारमेश्वरः ॥ १३२ ॥ उक्तमर्थं निगमयति—एवमिति ॥ १३२ ॥ इस प्रकार नानाविध भोगों तथा मोक्षों से युक्त होकर जो तीनों लोकों में विधिवत् स्थित है वही पारमेश्वर विभव है ॥ १३२ ॥ पौष्कराख्ये च वाराहे प्राजापत्ये महामते ।

नवमः परिच्छेदः २२७ सूक्ष्मत्वेन च निश्शेषं प्रत्येकस्मिन् हि वर्तते ॥ १३३ ॥ समाश्रित्य बृहत्त्वं च तृतीयांशेन तिष्ठति । सर्गत्रयविवरणं तत्र सूक्ष्मस्थूलभेदेनावस्थानं चाह—पौष्कराख्य इति सार्धेन । पौष्करे पाद्मकल्प इत्यर्थः । प्राजापत्ये ब्राह्मकल्प इत्यर्थः । यथा च श्रीभागवते— पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् । कल्पो यत्राऽभवद् ब्रह्मा शब्दब्रह्मेति यं विदुः ॥ तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते । यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् ॥ अयं तु कथितः कल्पो द्वितीयस्यापि भारत । वाराह इति विख्यातो यत्रासीत् सूकरो हरिः ॥ (३।११।३४-३६) इति ॥ १३३-१३४ ॥ हे महामते! वह पद्मकल्प, ब्रह्मकल्प, तथा वाराहकल्प इन तीनों सर्गों में सूक्ष्म रूप से तथा स्थूल रूप से प्रत्येक में वर्त्तमान रहता है ॥ १३३ ॥ वह बृहत्त्व का आश्रय लेकर तृतीय अंश (=स्थूल रूप) से तीनों कल्पों में रहता है ॥ १३४ ॥ यथोक्तक्रमयोगेन युक्तः सर्गत्रये तु वै ॥ १३४ ॥ परिवारं समादाय भवोपरणान्वितम् । दिक्पालकगणोपेतं समाक्रम्य तमेव हि ॥ १३५ ॥ पौष्करादिसर्गत्रयेऽपि पूर्वोक्तलक्ष्मादिपरिवारसंग्रहणमाह— यथोक्तेति ॥ १३४-१३५ ॥ वह पारमेश्वर विभव तीनों पौष्करादि सर्गों में अपने श्री आदि परिवार के साथ काल आदि भवोकरण (द्र. ९.९०-९५) एवं दिक्पालगण आदिकों को अपने वश में करके स्थित रहता है ॥ १३४-१३५ ॥ अभिधानाक्षरं पूर्वमरान्ताद्येन भूषितम् । योक्तव्यमभिधानेन पूर्वोद्दिष्टेन वर्त्मना । पूजार्थं चैव सर्वेषां क्रमेऽस्मिन् सम्प्रकाशितम् ॥ १३६ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां विभवदेवतान्तर्यागो नाम नवमः परिच्छेदः ॥ ९ ॥ — ൘ ❀ ൘ —

२२८ सात्वतसंहिता परिवाराणां बीजपिण्डयोरनुक्तत्वात् तत्तन्नामाद्याक्षरमेवानुस्वारान्वितं कृत्वा तत्तत्संज्ञामन्त्रैर्योज्यमित्याह—अभिधानेति सार्धेन । अरान्ताद्येन पूर्वोक्तवर्णचक्रे, अरान्तो विसर्गः, तदाद्येन अनुस्वारेणेत्यर्थः ॥ १३६ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये नवमः परिच्छेदः ॥ ९ ॥ — 𑁍 — यहाँ परिवारों का बीज पिण्ड नहीं कहा गया है । अतः उनके नाम के आदि अक्षर को ही अनुस्वार से युक्त कर पूर्वोद्दिष्ट मार्ग से संज्ञा मन्त्रों में जोड़ देना चाहिये । इस प्रकार विभवदेवतान्तर्याग के इस क्रम में सभी देवताओं की पूजा के लिये यह प्रकाशित किया गया है ॥ १३६ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के विभवदेवतान्तर्याग नामक नवम परिच्छेद की हिन्दी समाप्त हुई ॥ ९ ॥ — 𑁍 —

दशमः परिच्छेदः विभवदेवताबहिर्यागविधिः नारद उवाच अथ लाङ्गलिना विप्राश्चोदितः परमेश्वरः । यत् तदाकर्ण्यतामद्य चेतसा संयतेन तु ॥ १ ॥ अथ दशमो व्याख्यास्यते । पुनः सङ्कर्षणेन वासुदेवो यत्पृष्टस्तच्छृणुध्वमिति नारदो मुनीनाह—अथेति ॥ १ ॥ नारद जी ने कहा—हे मुनीश्वरो! संकर्षण द्वारा पूछे जाने पर परमेश्वर ने जो कहा था अब उसे सावधान होकर आप लोग सुनिए ॥ १ ॥ सङ्कर्षण उवाच मण्डलेऽग्नौ बहिर्नाथ जलमध्ये त्वयाऽर्चनम् । नोक्तं विभवदेवानां व्यक्तं कृत्वा तदादिश ॥ २ ॥ सङ्कर्षणो बाह्यागं पृच्छति—मण्डल इति ॥ २ ॥ सङ्कर्षण ने कहा—हे नाथ! आपने मण्डल में अग्नि के बाहर जल के मध्य में विभव देवताओं का किस प्रकार अर्चन करना चाहिये इसे नहीं कहा, इसलिये उसे स्पष्ट रूप से कहिये ॥ २ ॥ भगवानुवाच सुलक्षणे तु भूभागे समे पूर्वोक्तलक्षणे । तत्र मण्डलमालेख्यं सर्वेषामेकमर्चने ॥ ३ ॥ चतुरश्रं चतुर्द्वारं पीठाद्यवयवान्वितम् । षट्त्रिंशद्द‍लपद्मेन मध्यतश्चाप्यलङ्कृतम् ॥ ४ ॥ वितानध्वजसंवीतं किङ्किणीदर्पणान्वितम् । तोरणव्यजनच्छत्रचामरस्रग्विमण्डितम् ॥ ५ ॥ उक्तानुक्तमशेषं तु कृत्वा पूर्वोक्तलक्षणम् ।

२३० सात्वतसंहिता वासुदेवस्तमुपदिशन् पूर्वं षट्त्रिंशद्दलपद्मगर्भितवक्ष्यमाणपीठाद्यवयवान्वित- मण्डललेखनं यागमण्डलालङ्करणं च कार्यमित्याह— सुलक्षण इति सार्धैस्त्रिभिः ॥ ३-६ ॥ भगवान् ने कहा—पूर्वोक्त लक्षण वाले सुलक्षण एवं समतल भू भाग में ऐसा मण्डल निर्माण करना चाहिये जहाँ सबकी एक साथ अर्चना की जावे । मण्डल चौकोर एवं चार द्वारों वाला तथा पीठादि अवयवों से संयुक्त हो । भीतरी भाग छत्तिस दल वाले कमलों से अलङ्कृत हो, चारों ओर तथा मध्य में सर्वत्र अलंकृत हो, चारों ओर ध्वजाओं से घिरा हो, चारों ओर किङ्किणी, दर्पण, तोरण, व्यजन, छत्र, चामर एवं माल्य से मण्डित हो । जो कहा गया हो और जो नहीं कहा गया है, उन सभी से मण्डप पूर्ण हो ऐसा पूर्वोक्त लक्षण लक्षित मण्डल निर्माण करे ॥ ३-६ ॥ ततस्तु करयोर्न्यस्य विग्रहे बीजमैश्वरम् ॥ ६ ॥ समालम्ब्य च तादात्म्यमभिमानं सुनिश्चितम् । बद्ध्वा च वैभवीं मुद्रां स्पृशेत् सर्वाङ्गकं तया ॥ ७ ॥ समुच्चार्य धिया सर्वं मन्त्रग्रामं क्रमस्थितम् । सर्वदेवमयं देहमेवं स्मृत्वा स्वकं पुरा ॥ ८ ॥ अथ करयोर्देहे च विशाखयूपबीजन्यासम्, विशाखयूपोऽहमिति तत्तादात्म्याव- लम्बनम्, वक्ष्यमाण (१०।४१-४४) वैभवमुद्रया सर्वाङ्गस्पर्शम्, पद्मानाभाद्यष्ट- त्रिंशन्मन्त्रोच्चारणपूर्वकं स्वदेहस्य सर्वमन्त्रमयत्वापादनं चाह—तत इति सार्धद्वाभ्याम् । ऐश्वरं बीजं विशाखयूपबीजमित्यर्थः । नमिति यावत् । विशाखयूपतादात्म्याश्रितस्य पुनः पद्मानाभादिसर्वदेवमयविग्रहत्वम्— आमूर्धतोऽङ्घ्रिपर्यन्तं तदीयं गात्रमण्डलम् ॥ रत्नवद् वैभवीयैस्तु बीजैर्भाव्यमलङ्कृतम् । (९।५८-५९) इति पूर्वोक्तप्रकारेण बोध्यम् ॥ ६-८ ॥ तदनन्तर साधक अपने दोनों हाथ में तथा शरीर में विशाखयूप बीज 'नम्' से न्यास करे । 'मैं विशाखयूप हूँ'—इस प्रकार तादात्म्याभिमान कर साधक स्थिर हो जावे, फिर वैभवी मुद्रा बना कर सर्वाङ्ग का स्पर्श करे । फिर बुद्धि से क्रमपूर्वक अड़तीस बीज मन्त्रों का उच्चारण कर अपने देह को सर्वमन्त्रमय (एक- देव मय) बनावे ॥ ६-८ ॥ अन्तश्चक्रनिविष्टं तु संस्मरेद् भद्रपीठवत् । मण्डलं देवताधारं चक्रमन्त्रेण तद् यजेत् ॥ ९ ॥ मण्डले भद्रपीठवदन्तर्लीनचक्रराजस्मरण तदर्चनं चाह—अन्तरिति ॥ ९ ॥

दशमः परिच्छेदः २३१ इस प्रकार अपना शरीर सर्वदेवमय बना लेने के बाद मण्डल में भद्रपीठ के समान अन्तर्लीन चक्रराज का स्मरण करे तथा देवताधार उस मण्डल का चक्रराज के मन्त्र से उनका अर्चन करे ॥ ९ ॥ ततस्तु सर्वमन्त्राणां विन्यासं तत्र चेतसा । समाचरेद् यथायोगं पुष्पदानपुरस्सरम् ॥ १० ॥ तस्मिन् मण्डले प्रत्येकं पुष्पदानपूर्वकं मन्त्राणां न्यासमाह—तत इति ॥ १० ॥ इसके बाद सभी मन्त्रों का चित्त से ध्यान कर उसी से पुष्पदान पुरःसर यथायोग न्यास करे ॥ १० ॥ ध्रुवात्मा भगवान् मध्ये कर्णिकायामतः क्रमात् । दिक्कचक्रमभिवीक्षन्तं प्राग्दलादादितो न्यसेत् ॥ ११ ॥ पातालशायिपर्यन्तमनन्ताद्यं महामते । न्यसेत् कमलबाह्ये तु ईशाद् वह्निपदावधि ॥ १२ ॥ चतुष्टयं किरीटाद्यं मन्त्राणां पूर्वचोदितम् । उदग्दक्षिण आप्याद्ये पैठीये दिक्कचतुष्टये ॥ १३ ॥ द्वन्द्वद्वयं तु लक्ष्म्याद्यं विनिवेश्यं यथाक्रमम् । तत्रैव चेशकोणात् तु यावद् वायुपदावधि ॥ १४ ॥ द्वयं द्वयं क्षमाद्यं च मत्यन्तं सन्निवेश्य च। बहिः पीठस्य निकटे चाग्रतो वै पतत्त्रिराट् ॥ १५ ॥ चक्रात् कमलपर्यन्तं चतुष्कं शाङ्करात् पदात् । वायुकोणावधेर्धावित् पीठबाह्ये तु योजयेत् ॥ १६ ॥ सौम्ययाम्याप्यपूर्वाशावस्थितं च द्वयं द्वयम् । लाङ्गलाद्यं परश्वन्तमष्टकं तद्वदेव हि ॥ १७ ॥ याम्यसौम्याप्यपूर्वाशागतं दद्याच्चतुष्टयम् । पाशाद्यं वज्रपर्यन्तं शक्तिकोणचतुष्टये ॥ १८ ॥ आ ईशकोणनिकटात् पदात् तन्निकटे स्थितम् । प्रदक्षिणक्रमेणैव पदं यावद् द्वितीयकम् ॥ १९ ॥ कालादीनां च विन्यासः कार्यश्चानुक्रमेण तु । यज्ञान्तानां महाबुद्धे षोडशानां यथास्थितम् ॥ २० ॥ क्रमात् पूर्वोत्तरे कोणे न्यसेद् दक्षिणपश्चिमे । विद्याऽविद्याद्वयं यद् वै स्वपदस्थेऽग्निमारुते ॥ २१ ॥

चन्द्रादित्यावुदग्याम्ये द्वारयोर्विनिवेश्य च । प्रत्यग्द्वारगतं तोयं प्राग्द्वारे विन्यसेद् धराम् ॥ २२ ॥ चतुर्णामिथ कोणानामव्यक्तं मण्डलाद् बहिः । संयजेद् भवनाम्ना वै यस्मान्नान्यो भवः स्मृतः ॥ २३ ॥ ततः कामात्मतत्त्वानां दशकं सिद्धतां गतम् । भगवत्तुल्यसामर्थ्यं सर्वज्ञादिगुणैर्युतम् ॥ २४ ॥ वियुक्तं प्राकृताद् दुःखान्नियुक्तं चेश्वरेणतु । भवसन्तारकत्वेन मण्डलस्य बहिर्न्यसेत् ॥ २५ ॥ उपेन्द्रः पूर्वदिग्भागे दक्षिणे दुरतिक्रमः । महाह्रदः पश्चिमे तु वसुरेतास्तथोत्तरे ॥ २६ ॥ न्यस्यस्तेजो धराख्यस्तु पूर्वदक्षिणमध्यगः । नैर्ऋते तु महाकर्मा त्वग्राह्यः पश्चिमोत्तरे ॥ २७ ॥ पूर्वोत्तरे वर्धमानः साक्षी गगनगोचरे । आधारनिलयं नाम्ना सर्वस्याधोगतं स्मरेत् ॥ २८ ॥ तेषां बहिः स्वमन्त्रेण दिक्क्रमेण तु हेतिराट् । स्वमरीचिगणेनैव भासयन्तं निवेश्य च ॥ २९ ॥ मण्डले ध्रुवादीनां स्थानान्याह—ध्रुवात्मेति प्रक्रम्य भासयन्तं निवेश्य चेत्यन्तम् । तथा च प्रयोगः—कर्णिकामध्ये ध्रुवं प्रागादिषट्त्रिंशद्दलेषु दिङ्‌मण्डलमभिवी- क्षतोऽनन्तादीन् पातालशयनान्तान् षट्त्रिंशद् देवान् तद्बहिरैशान्यादिवायव्यान्तकोण- चतुष्टये किरीटश्रीवत्सकौस्तुभवनमालाः, ततः पीठे उत्तरदिशि लक्ष्मीम्, दक्षिणदिशि पुष्टिम्, पश्चिमदिशि दयाम्, पूर्वदिशि निद्राम्, ईशानकोणे क्षमां क्षान्तिं च, आग्नेय- कोणे सरस्वतीं धृतिं च, नैर्ऋतकोणे मैत्रीं रतिं च, वायव्यकोणे तुष्टिं मतिं च, तद्बहिः पीठसमीपे पुरतो गरुडम्, पीठाद् बहिरैशान्यादिवायव्यान्तकोणचतुष्टये क्रमेण चक्र- शङ्खगदापद्मानि, सौम्यदिशि पाशम्, याम्यदिश्यङ्कुशम्, वारुणदिशि मुद्गरम्, पूर्व- दिशि वज्रम्, कोणचतुष्टये शक्तिम्, ईशानकोणसमीपस्थपदादारभ्य तत्समीपस्थ- द्वितीयपदपर्यन्तमर्धशोभापूर्णशोभास्थितनीलोत्पलरक्तोत्पलाख्यषोडशपदेषु प्रादिक्षिण्येन कालादियज्ञान्तं भवोपहरणदेवताषोडशकम्, ईशानकोणे विद्याम्, नैर्ऋत- कोणेऽविद्याम्, अग्निकोणेऽग्निम्, वायुकोणे वायुम्, उत्तरद्वारे चन्द्रम्, दक्षिणद्वारे सूर्यम्, पश्चिमद्वारे तोयम्, पूर्वद्वारे वसुधां च, मण्डलाद् बहिः कोणेषु प्रकृतिम्, तद्बहिः पूर्वादिदिक्षु विदिक्षु ऊर्ध्वमधश्च उपेन्द्रादिसिद्धदशकं च, तद्बहिः सर्वदिक्षु चक्रराजं च न्यसेत् ॥ ११-२९ ॥ मण्डल में ध्रुवादि का स्थान कहते हैं—कर्णिका मध्य में ध्रुव का, पूर्वादि छत्तीस कमल दलों में दिङ् मण्डल की ओर देखते हुए अनन्त से लेकर