सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 277, कुल 837 में से
संदर्भ में पढ़ें२१८ सात्वतसंहिता प्रधानभूतांश्छारीरानलङ्कारान्निबोध मे । किरीटः कौस्तुभो भाढ्यः श्रीवत्सोऽमृतलक्षणः ॥ ८६ ॥ वनमालेति गरुडः प्रधानान् हेतिकान् शृणु । चक्रं शङ्खो गदा पद्मं लाङ्गलं मुसलं शरः ॥ ८७ ॥ शार्ङ्गं च खड्गखेटौ तु दण्डः परशुरीतिहा । पाशाङ्कुशौ मुद्गरश्च वज्रः शक्तिसमन्वितः ॥ ८८ ॥ इत्येतद् देवताचक्रमङ्गमन्त्रगणान्वितम् । विग्रहे देवदेवस्य संलीनमवतिष्ठते ॥ ८९ ॥ अथ किरीटादिभूषणप्रधानचतुष्टयं वाहनं चक्रादिसप्तदशप्रधानायुधानि चोक्त्वा एषामङ्गमन्त्रैः सह भगवद्विग्रहे संलीनत्वमाह—प्रधानभूता इति चतुर्भिः । ईतिहन्तेति ईतिहेति परशोर्विशेषणम् । अत्र विशेष्यभ्रान्त्या पारमेश्वरव्याख्यातृभिर्विमानदेवता- कथनप्रकरणे चक्रादिशक्त्यन्ताष्टायुधन्यास इत्युक्तम्, सहस्त्रकलशाभिषेक- प्रकरणेऽपि— चक्रादिवज्रपर्यन्तमस्त्रषोडशकं यजेत् ॥ कोणस्थेषु चतुष्केषु न्यसेच्छक्तिं ततः परम् । (१४।४४७-४४८) इति श्लोकव्याख्यावसरे पूर्वोक्तभ्रान्तिजल्पितस्य दृढीकरणार्थं चक्रादिवज्र- पर्यन्तमित्यत्रातद्गुणसंविज्ञानो बहुव्रीहिरिति चोक्तम् ॥ ८६-८९ ॥ अब इनके प्रधान शारीरिक अलङ्कारों को सुनिए—देदीप्यमान किरीट, कौस्तुभ, अमृत लक्षण श्रीवत्स और वनमाला इनके ये चार अलङ्कार हैं । गरुड़ वाहन हैं । अब इनके प्रधान शस्त्रों को सुनिए । चक्र, शङ्ख, गदा, पद्म, लाङ्गल, मुसल, द्वार, शार्ङ्ग, खड्ग, खेटक, दण्ड, ईतियों को नष्ट करने वाला परशु, पाश, अङ्कुश, मुद्गर, वज्र शक्ति, अङ्ग मन्त्र गणान्वित, इतने देवता चक्रादि देवाधिदेव विष्णु के विग्रह में लीन होकर स्थित रहते हैं ॥ ८६-८९ ॥ देवतावर्गकथनम् वक्ष्ये भवोपकरणं गीर्वाणगणमुत्तमम् । नानाविभवमूर्तीनां योऽवतिष्ठेत शासने ॥ ९० ॥ कालो वियन्नियन्ता च शास्त्रं नानाङ्गलक्षणम् । विद्याधिपतयश्चैव सरुद्रः सगणः शिवः ॥ ९१ ॥ प्रजापतिसमूहश्च इन्द्रः सपरिवारकः । मुनयः सप्त पूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः ॥ ९२ ॥ जीमूताश्चाखिला नागास्त्वप्सरोगण उत्तमः ।