सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 278, कुल 837 में से
संदर्भ में पढ़ेंनवमः परिच्छेदः २१९ ओषध्यश्चैव पशवो यज्ञाः साङ्गाखिलाश्च ये ॥ ९३ ॥ विद्या चैव पराविद्या पावकश्चैव मारुतः । चन्द्रार्कौ वारिवसुधे इत्युक्तममलेक्षण ॥ ९४ ॥ चतुर्विंशतिसंख्यं च भवोपकरणं महत् । अथ भवोपकरणदेवतावर्गमाह—वक्ष्य इत्यादिभिः । सरुद्र सगण इति च शिवस्य विशेषणम् । रुद्रैरेकादशभिः सह वर्तत इति तथोक्तः ॥ ९०-९५ ॥ अब भवोपकरण भूत देवता वर्गों को कहते हैं—जो नाना प्रकार के विभव मूर्त्तियों के शासन में रहते हैं । समस्त विद्याधिपति, सरुद्र, सगण शिवप्रजापति समूह सपरिवार, इन्द्र, अन्य ग्रह तारादिकों से संयुक्त सप्तर्षि, समस्त भूतगण, नाग, अप्सरा गण, औषधियाँ, पशु, साङ्ग समस्त यज्ञ, विद्या, पराविद्या, अग्नि, वायु, चन्द्रमा, सूर्य, जल एवं वसुधा इतने भवोपकरण हैं । हे अमलेक्षण ! इन्हें मैंने आपसे कहा ॥ ९०-९४ ॥ ये सभी २४ संख्या में भवोपकरण कहे गये । यतः भव (= प्रकृति) प्रधान है, प्रकृति लक्षण व्यापक है और जड़ लक्षण वाली है ॥ ९५ ॥ भवः साक्षात् प्रधानं तु व्यापको जडलक्षणः ॥ ९५ ॥ मन्त्रमन्त्रेश्वरन्यासात् सोऽपि पूज्यत्वमेति च । इत्येवमादि सर्वेषां भविनां परमेश्वरः ॥ ९६ ॥ स्थितोऽन्तर्यामिभावेन रूपमासाद्य निष्कलम् । आप्तकामः स भगवान् स्वव्यापारवशेन तु ॥ ९७ ॥ स्वां शक्तिमवलम्ब्यास्ते पद्मनाभात्मना पुनः । धराम्बुहुतभुग्वातमूलनालदलोदरे ॥ ९८ ॥ एवं भवोपकरणदेवता विवृत्य भवस्यापि पूज्यत्वमाह—भव इति । भवत्यस्मात् सर्वमिति भवः, प्रकृतिरित्यर्थः । प्रधानं प्रधानशब्दवाच्यः । एतद्भवोपकरणादीनां सर्वेषामपि प्रकृतियुक्तानामन्तर्यामिभावेन स्थितोऽपि स्वयं पूर्णकामोऽपि भक्तानुग्रहार्थं पद्मनाभाख्यविभवरूपमङ्गीकरोतीत्याह—इत्येवमिति द्वाभ्याम् । निष्कलं निराकार- मित्यर्थः ॥ ९५-९८ ॥ चतुस्तत्त्वमये पद्मे गगनैकार्णवोदरे । मानसेऽनन्तशयने दिव्यबोधतनुर्विभुः ॥ ९९ ॥ सहस्रांशुसहस्राभ उत्तानस्थो हि लीलया । ततो विविधरत्नाभे तदीये नाभिपुष्करे ॥ १०० ॥ प्रोद्द्वहंस्तु स्ववीर्येण विद्यां सामर्थ्यविग्रहाम् ।