सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
२१८ सात्वतसंहिता प्रधानभूतांश्छारीरानलङ्कारान्निबोध मे । किरीटः कौस्तुभो भाढ्यः श्रीवत्सोऽमृतलक्षणः ॥ ८६ ॥ वनमालेति गरुडः प्रधानान् हेतिकान् शृणु । चक्रं शङ्खो गदा पद्मं लाङ्गलं मुसलं शरः ॥ ८७ ॥ शार्ङ्गं च खड्गखेटौ तु दण्डः परशुरीतिहा । पाशाङ्कुशौ मुद्गरश्च वज्रः शक्तिसमन्वितः ॥ ८८ ॥ इत्येतद् देवताचक्रमङ्गमन्त्रगणान्वितम् । विग्रहे देवदेवस्य संलीनमवतिष्ठते ॥ ८९ ॥ अथ किरीटादिभूषणप्रधानचतुष्टयं वाहनं चक्रादिसप्तदशप्रधानायुधानि चोक्त्वा एषामङ्गमन्त्रैः सह भगवद्विग्रहे संलीनत्वमाह—प्रधानभूता इति चतुर्भिः । ईतिहन्तेति ईतिहेति परशोर्विशेषणम् । अत्र विशेष्यभ्रान्त्या पारमेश्वरव्याख्यातृभिर्विमानदेवता- कथनप्रकरणे चक्रादिशक्त्यन्ताष्टायुधन्यास इत्युक्तम्, सहस्त्रकलशाभिषेक- प्रकरणेऽपि— चक्रादिवज्रपर्यन्तमस्त्रषोडशकं यजेत् ॥ कोणस्थेषु चतुष्केषु न्यसेच्छक्तिं ततः परम् । (१४।४४७-४४८) इति श्लोकव्याख्यावसरे पूर्वोक्तभ्रान्तिजल्पितस्य दृढीकरणार्थं चक्रादिवज्र- पर्यन्तमित्यत्रातद्गुणसंविज्ञानो बहुव्रीहिरिति चोक्तम् ॥ ८६-८९ ॥ अब इनके प्रधान शारीरिक अलङ्कारों को सुनिए—देदीप्यमान किरीट, कौस्तुभ, अमृत लक्षण श्रीवत्स और वनमाला इनके ये चार अलङ्कार हैं । गरुड़ वाहन हैं । अब इनके प्रधान शस्त्रों को सुनिए । चक्र, शङ्ख, गदा, पद्म, लाङ्गल, मुसल, द्वार, शार्ङ्ग, खड्ग, खेटक, दण्ड, ईतियों को नष्ट करने वाला परशु, पाश, अङ्कुश, मुद्गर, वज्र शक्ति, अङ्ग मन्त्र गणान्वित, इतने देवता चक्रादि देवाधिदेव विष्णु के विग्रह में लीन होकर स्थित रहते हैं ॥ ८६-८९ ॥ देवतावर्गकथनम् वक्ष्ये भवोपकरणं गीर्वाणगणमुत्तमम् । नानाविभवमूर्तीनां योऽवतिष्ठेत शासने ॥ ९० ॥ कालो वियन्नियन्ता च शास्त्रं नानाङ्गलक्षणम् । विद्याधिपतयश्चैव सरुद्रः सगणः शिवः ॥ ९१ ॥ प्रजापतिसमूहश्च इन्द्रः सपरिवारकः । मुनयः सप्त पूर्वेऽन्ये ग्रहास्तारादिकैर्वृताः ॥ ९२ ॥ जीमूताश्चाखिला नागास्त्वप्सरोगण उत्तमः ।
नवमः परिच्छेदः २१९ ओषध्यश्चैव पशवो यज्ञाः साङ्गाखिलाश्च ये ॥ ९३ ॥ विद्या चैव पराविद्या पावकश्चैव मारुतः । चन्द्रार्कौ वारिवसुधे इत्युक्तममलेक्षण ॥ ९४ ॥ चतुर्विंशतिसंख्यं च भवोपकरणं महत् । अथ भवोपकरणदेवतावर्गमाह—वक्ष्य इत्यादिभिः । सरुद्र सगण इति च शिवस्य विशेषणम् । रुद्रैरेकादशभिः सह वर्तत इति तथोक्तः ॥ ९०-९५ ॥ अब भवोपकरण भूत देवता वर्गों को कहते हैं—जो नाना प्रकार के विभव मूर्त्तियों के शासन में रहते हैं । समस्त विद्याधिपति, सरुद्र, सगण शिवप्रजापति समूह सपरिवार, इन्द्र, अन्य ग्रह तारादिकों से संयुक्त सप्तर्षि, समस्त भूतगण, नाग, अप्सरा गण, औषधियाँ, पशु, साङ्ग समस्त यज्ञ, विद्या, पराविद्या, अग्नि, वायु, चन्द्रमा, सूर्य, जल एवं वसुधा इतने भवोपकरण हैं । हे अमलेक्षण ! इन्हें मैंने आपसे कहा ॥ ९०-९४ ॥ ये सभी २४ संख्या में भवोपकरण कहे गये । यतः भव (= प्रकृति) प्रधान है, प्रकृति लक्षण व्यापक है और जड़ लक्षण वाली है ॥ ९५ ॥ भवः साक्षात् प्रधानं तु व्यापको जडलक्षणः ॥ ९५ ॥ मन्त्रमन्त्रेश्वरन्यासात् सोऽपि पूज्यत्वमेति च । इत्येवमादि सर्वेषां भविनां परमेश्वरः ॥ ९६ ॥ स्थितोऽन्तर्यामिभावेन रूपमासाद्य निष्कलम् । आप्तकामः स भगवान् स्वव्यापारवशेन तु ॥ ९७ ॥ स्वां शक्तिमवलम्ब्यास्ते पद्मनाभात्मना पुनः । धराम्बुहुतभुग्वातमूलनालदलोदरे ॥ ९८ ॥ एवं भवोपकरणदेवता विवृत्य भवस्यापि पूज्यत्वमाह—भव इति । भवत्यस्मात् सर्वमिति भवः, प्रकृतिरित्यर्थः । प्रधानं प्रधानशब्दवाच्यः । एतद्भवोपकरणादीनां सर्वेषामपि प्रकृतियुक्तानामन्तर्यामिभावेन स्थितोऽपि स्वयं पूर्णकामोऽपि भक्तानुग्रहार्थं पद्मनाभाख्यविभवरूपमङ्गीकरोतीत्याह—इत्येवमिति द्वाभ्याम् । निष्कलं निराकार- मित्यर्थः ॥ ९५-९८ ॥ चतुस्तत्त्वमये पद्मे गगनैकार्णवोदरे । मानसेऽनन्तशयने दिव्यबोधतनुर्विभुः ॥ ९९ ॥ सहस्रांशुसहस्राभ उत्तानस्थो हि लीलया । ततो विविधरत्नाभे तदीये नाभिपुष्करे ॥ १०० ॥ प्रोद्द्वहंस्तु स्ववीर्येण विद्यां सामर्थ्यविग्रहाम् ।
२२० सात्वतसंहिता मूर्तैर्ध्वजादिकैः सर्वैरावृतस्तत्परायणैः ॥ १०१ ॥ तत्पद्मनाभरूपं विशिनष्टि—धरेति सार्धैस्त्रिभिः । धराम्बुहुतभुग्वातमूलनाल- दलोदरे चतुस्तत्त्वमये पृथिवीतत्त्वस्य मूलत्वम्, अप्तत्त्वस्य नालत्वम्, तेजस्तत्त्वस्य दलत्वम्, वायुतत्त्वस्य कमलोदरत्वं च क्रमेण ज्ञेयम् । गगनैकार्णवोदरे आकाश- तत्त्वात्मकसमुद्रमध्य इत्यर्थः । मानसेऽनन्तशयने मनस्तत्त्वात्मकनागपर्यङ्क इत्यर्थः । दिव्यबोधतनुः बुद्धितत्त्वात्मकदिव्यशरीर इत्यर्थः । उत्तानस्थः उत्तानशायीत्यर्थः । तदीये नाभिपुष्करे प्रकृतितत्त्वात्मकनाभिपद्म इत्यर्थः । विद्यां चतुर्मुखमूर्त्तिरूपां वेद- विद्यामित्यर्थः । तस्य विद्यादेहत्वं प्रतिपादितं खलु जयाख्यादिषु— तन्मध्ये मानवो ब्रह्मा मया सृष्टश्चतुर्मुखः । जगतां प्रभवस्तस्माद् विद्यादेहः सनातनः ॥ (२।२७) इति ॥ ९८-१०१ ॥ मन्त्र मन्त्रेश्वर के न्यास के कारण वह पूज्यता प्राप्त किये हुए है । इस प्रकार सभी सांसारिक वस्तुओं में अन्तर्यामी भाव से स्थित होकर परमेश्वर निष्कल (निराकार) होकर भी साकार रूप धारण करते हैं । यद्यपि भगवान् आप्तकाम हैं किन्तु अपने व्यापार के वशीभूत होकर पद्मनाभ रूप से अपनी शक्ति का सहारा ले कर चतुस्तत्त्वमय धरा, जल, अग्नि एवं वायु रूप मूल, नाल एवं दल के उदर में, गगन रूप एकार्णव उदर वाले पद्म में, मनस्तत्त्वात्मक नाग के पर्यङ्क पर दिव्यज्ञान शरीर धारण कर सहस्रों सूर्य के समान प्रकाशित हो कर अपनी लीला से उत्तान पड़े रहते हैं । अर्थात् यहाँ चार तत्त्वों में पृथ्वी मूल है, जल तत्त्व नाल है, तेजस तत्त्व कमल दल है, वायुतत्त्व कमलोदर है, आकाशतत्त्व समुद्र मध्य है । उनकी नाभि पुष्कर में प्रकृति तत्त्वात्मक नाभि पद्म उत्पन्न हुआ है वे मनस्तत्त्वात्मक नाग पर्यङ्क पर लीलापूर्वक उत्तान सोये हुए हैं ॥ ९६-१०० ॥ वे अपनी शक्ति से शक्ति स्वरूपा महाविद्या को वहन कर रहे हैं । वे विद्या में परायण सभी मूर्त्ति ध्वजादिकों से घिरे हुए हैं ॥ १०१ ॥ अनन्तचेष्टस्य विभोरित्येवं त्वीश्वरात्मनः । भोगापवर्गदं रूपं शान्तव्यक्तं च वैभवम् ॥ १०२ ॥ प्राग्वत् तुर्यपदावस्थं स्मरेद् हृत्कमलाम्बरे । एवं पद्मनाभरूपस्य हृदयकमले ध्यानस्थानमाह—अनन्तेति सार्धेन । शान्तं निराकारम्, अन्तर्यामिभावेन स्थितमिति यावत् । व्यक्तं साकारमित्यर्थः । साकारत्वेन निराकारत्वेनोभयथापि ध्येयमिति भावः । प्राग्वत् तुर्यपदावस्थं द्वितीयपरिच्छेदोक्त- रीत्या (२।६९) नादावसानगगनस्थितमित्यर्थः ॥ १०२-१०३ ॥ तदधः कर्णिकामध्ये त्वभिजातोत्यलद्युतिम् ॥ १०३ ॥ दिशो दश द्योतयन्तं नानागात्ररुहैश्चितम् ।
नवमः परिच्छेदः २२१ सौम्यं द्विरष्टवर्षं च राजीवदललोचनम् ॥ १०४ ॥ भचक्रचक्रभृद्देवं गदादेहं तथैव च। शक्तिमाधारसंज्ञां च प्रोद्वहन्तं स्मरेद् ध्रुवम् ॥ १०५ ॥ स्थितो यः स्तम्भभूतस्तु अस्मिन् वै विश्वमन्दिरे । नभोऽनिलात्मना चैव भूमिकाभिन्नलक्षणे ॥ १०६ ॥ तदधः कर्णिकामध्ये सुषुप्तिस्थाने ध्रुवस्य ध्यानप्रकारमाह—तदध इति सार्धैस्त्रिभिः । नायं प्रसिद्धोऽर्वाचीनो ध्रुव इति मन्तव्यः । अपि तु तस्यापि ध्रुवत्व- प्रदः । साक्षाद् भगवद्रूपोऽन्य इति बोध्यम् । तथा च सहस्रनामभाष्ये"अतिशयेन धीयते बद्ध्यतेऽस्मिन् ज्योतिश्चक्रमिति व्यवसायः, ..... नक्षत्राधारव्योमशरीर- त्वात् । अतो हि "गगनमूर्तये" (सा० २३।४४) इति मन्त्रवर्णः । "भचक्रचक्र- भृद्देवम्" (सा० ९।१०५) इति हि ध्यानम् । सर्वमस्मिन् संतिष्ठते समाप्यत इति संस्थानः । स एव "परमपदप्राप्तिहेतुः" (सा० २३।४५) इति मन्त्रवर्णात् स्थानदः । स खलु तुङ्गपदप्रदानेनार्वाचीनं ध्रुवमपि ध्रुवीचकार, अतो ध्रुवः" (पृ० ३६४-३६६) इति ॥ १०३-१०६ ॥ अनन्त चेष्टा वाले ईश्वरात्मा उन विभु का वैभव-स्वरूप भोग एवं अपवर्ग देने वाला है और शान्त (निराकार) व्यक्त साकार है । इस प्रकार तूर्य पदावस्थ उनको साकार निराकार दोनों रूप का ध्यान करना चाहिये ॥ १०२-१०३ ॥ इस प्रकार कर्णिका के मध्य में सुषुप्ति स्थान में अत्यन्त मनोहर कमल के समान अपनी कान्ति से दशों दिशाओं को प्रकाशित करते हुए सौम्य-स्वरूप सोलह वर्ष की अवस्था वाले, कमल के समान नेत्रों से युक्त, नक्षत्र चक्र में चक्र धारण किये हुए, गदा धारण किये हुए, उसी प्रकार अपनी शक्ति तथा आधार संज्ञा को धारण किये हुए ध्रुव स्वरूप भगवान् का ध्यान करे ॥ १०२-१०५ ॥ नभ, वायु और भूमि से अभिन्न लक्षण वाले इस विश्वमन्दिर में खम्भे की तरह वे अडिग स्थित है ॥ १०६ ॥ प्रागादावीशकोणान्तं संस्मरेत् कर्णिकोपरि । द्विषट्कं यदनन्ताद्यं सरश्शाय्यन्तमग्निगम् ॥ १०७ ॥ तस्मिन्नेव स्थाने प्रागादीशानान्तमन्नतादिद्वादशमूर्तिध्यानं कार्यमित्याह— प्रागादाविति । अग्निगम् = अग्निमण्डलस्थमित्यर्थः ॥ १०७ ॥ अब ऐसे स्थान में पूर्व से ईशानादि क्रम से द्वादश मूर्तियों का ध्यान करे, इस बात को कहते हैं—पूर्व से आरम्भ कर ईशानकोण पर्यन्त कर्णिका पर सरश्शायी अग्नि के मण्डल में स्थित बारह संख्यक अनन्तादि का ध्यान करे ॥ १०७ ॥
२२२ सात्वतसंहिता तत्संख्यं केसरोर्ध्वस्थं तद्वत् कूर्मादिकं न्यसेत् । न्यग्रोधशायिपर्यन्तममृताधारमण्डले ॥ १०८ ॥ केसरस्थाने स्वप्नपदे कूर्मादिद्वादशमूर्तिध्यानं कार्यमित्याह—तत्संख्यमिति । अमृताधारमण्डले चन्द्रमण्डल इत्यर्थः ॥ १०८ ॥ केशर के ऊर्ध्व भाग में कूर्मादि से लेकर न्यग्रोधशायी पर्यन्त बारह देवताओं के आधारभूत चन्द्रमण्डल में न्यास करे ॥ १०८ ॥ सूर्यचक्रसमारूढं दलभूमिगतं ततः । पातालशायिपर्यन्तमेकशृङ्गादिकं हि यत् ॥ १०९ ॥ दलस्थाने जाग्रत्पदे एकशृङ्गादिद्वादशमूर्तिध्यानं कार्यमित्याह—सूर्येति । एषा- मनन्तादिष्टत्रिंशद्देवानां ध्यानप्रकारा वक्ष्यमाणा ज्ञेयाः ॥ १०९ ॥ दल स्थान में (जाग्रत्पद में) सूर्य चक्र पर समारूढ़ एकशृङ्ग से लेकर पातालशायी पर्यन्त मूर्त्तियों का ध्यान करे । (अनन्त से लेकर ३६ देवताओं का ध्यान आगे चलकर कहेंगे) ॥ १०९ ॥ न्यस्यैवममृतोत्थैस्तु भोगैरभ्यर्च्य मानसैः ॥ यथावद् ध्यानयोगेन प्राग्वत् सृष्टिक्रमेण तु ॥ ११० ॥ पुनः संहृतियोगेन पातालशयनात् तु वै । यावद् गगनशाय्यन्तमर्चनीयं फलाप्तये ॥ १११ ॥ पद्मनाभाद्यष्टत्रिंशद्देवानापि सृष्टिक्रमेण संहारक्रमेण च मानसार्चनं कार्य- मित्याह—न्यस्येति द्वाभ्याम् । गगनशाय्यन्तं पद्मनाभान्तमित्यर्थः ॥ ११०-१११ ॥ इस प्रकार इन देवताओं का न्यास कर मानस भोगों से उनकी अर्चना कर पहले ध्यान करे । फिर सृष्टिक्रम से न्यास करे ॥ ११० ॥ फिर संहार क्रम से पातालशयन से आरम्भ कर गगन शय्यन्त अर्थात् पद्मनाभान्त देवताओं का फल प्राप्ति के लिये अर्चना करे ॥ ११०-१११ ॥ य उक्तः समुदायेऽस्मिन् हृद्यागे देवतागणः । यजेद् भिन्नक्रमेणैव विधिनानेन तं पुनः ॥ ११२ ॥ त्रिकं यद्वै द्विषट्कानां त्रिस्थानस्थं प्रकाशितम् । पृथक् पृथक् तदेकैकं न्यस्य न्यस्य यजेत् क्रमात् ॥ ११३ ॥ अनन्तादिद्वादशकस्य कूर्मादिद्वादशकस्य मीनादिद्वादशकस्य च प्रत्येकं प्रत्येक- मप्यर्चनं कुर्यादित्याह—य इति द्वाभ्याम् ॥ ११२-११३ ॥ इस समुदाय में अन्तर्याग में जो देवतागण कहे गए हैं । उन अनन्तादि
नवमः परिच्छेदः २२३
द्वादशक, कूर्मादि द्वादशक, मीनादि द्वादशक देवों का एक-एक का अलग से न्यास कर अर्चना करे ॥ ११२-११३ ॥ प्रतिद्वादशकस्याद्यं प्रगुक्तेन क्रमेण यत् । तन्निष्कलात्मना पूर्वमिष्ट्वा वै कर्णिकोदरे ॥ ११४ ॥ समुत्थाप्य ततो मध्यात् तमेव सकलात्मना । न्यसेदाधारभूतं च सर्वत्र कमलादधः ॥ ११५ ॥ तमेवार्घ्यादिनाऽभ्यर्च्य कमलच्छदकोटिगम् । द्वितीयं कर्णिकामध्ये तदग्रे केसरोर्ध्वगम् ॥ ११६ ॥ ध्यात्वा न्यस्य तृतीयं तु ततः पत्राष्टकेऽष्टकम् । द्वादशाख्यं हि सर्वत्र गगने पद्मनाभवत् ॥ ११७ ॥ भवोपकरणीयाभिर्देवताभिः समावृतम् । यस्त्वङ्गदेवतासंघः सर्वः स कमलाद् बहिः ॥ ११८ ॥ न्यस्यैवमर्चनं कुर्याद् दिव्यैर्भोगैस्तु पूर्ववत् । प्रत्येकार्चनप्रकारमाह—प्रतिद्वादशकस्येत्यारभ्य दिव्यैर्भोगैस्तु पूर्ववदित्यन्तम् । प्रतिद्वादशकस्याद्यं यद् अनन्तः कूर्मो मीनश्चेत्यर्थः । द्वितीयं शक्त्यात्मानं वराहं वामनं चेत्यर्थः । तृतीयं मधुसूदनं नारसिंहं त्रिविक्रमं चेत्यर्थः । अष्टकं विद्यादेवाष्टकं श्री- पत्याद्यष्टकं नराद्यष्टकं चेत्यर्थः । द्वादशाख्यम् एकार्णवशायिनं न्यग्रोधशायिनं पाताल- शायिनं चेत्यर्थः । तथा च प्रयोगः—अनन्तादिद्वादशकार्चनप्रकरणे प्रथममनन्तं स्वहृदयकमल- कर्णिकामध्ये निराकारं ध्यात्वाऽभ्यर्च्य, पुनस्तमेव तस्मात् स्थानादुत्थाप्य, हृदय- कमलाधस्ताद् आधारभूतं साकारं ध्यात्वाऽभ्यर्च्य, तमेव हृत्कमलदलाग्रेऽप्यभ्यर्च्य, कर्णिकामध्ये शक्त्यात्मानं तत्पुरतः केसरस्थाने मधुसूदनं दलाष्टके विद्याधिदेवाद्यष्टकं चाभ्यर्च्य, नादावसानगगने पद्मनाभवत् साकारं निराकारं चैकार्णवशायिनं ध्यात्वाऽ- भ्यर्च्य, लक्ष्म्यादिशक्तिकिरीटादिभूषणचक्रादिलाञ्छनानि कालादिभवोपकरणदेवताश्च कमलाद् बहिरभ्यर्चयेत् । कूर्मादिद्वादशकार्चनप्रकरणे त्वनन्तस्थाने कूर्मम्, शक्त्या- त्मस्थाने वराहम्, मधुसूदनस्थाने नृसिंहम्, विद्याधिदेवाद्यष्टकस्थाने श्रीपत्याद्यष्टकम्, एकार्णवशायिस्थाने न्यग्रोधशायिनं चार्चयेत् । मीनादिद्वादशकार्चनप्रकरणे तु कूर्म- स्थाने मीनम्, वराहस्थाने वामनम्, नृसिंहस्थाने त्रिविक्रमम्, श्रीपत्याद्यष्टकस्थाने नरा- द्यष्टकम्, न्यग्रोधशायिस्थाने पातालशायिनं चार्चयेत् ॥ ११४-११९ ॥ प्रत्येक का अर्चन कहते हैं—प्रथम द्वादशक के—आद्य, अनन्त, कूर्म एवं मीन, द्वितीय—शक्त्यात्मा, वराह एवं वामन, तृतीय द्वादशक—मधुसूदन, नारसिंह एवं त्रिविक्रम, अष्टक—विद्यादेवाष्टक, श्रीपत्याद्यष्टक एवं नराष्टक, द्वादशाख्य— एकार्णवशायी, न्यग्रोधशायी एवं पातालशायी, प्रयोग—अनन्तादिद्वादशकार्चन
२२४ सात्वतसंहिता प्रकरण में कहे गए प्रथम अनन्त की हृदय कमल कर्णिका के मध्य में निराकार का ध्यान करे और अर्चन करे । फिर वहाँ से उठ कर हृदय कमल से नीचे आधारभूत साकार का ध्यान करे और अर्चना करे । फिर हृदय कमलदलाग्र में उनकी अर्चना करे । कर्णिका के मध्य में शक्त्यात्मा के सर स्थान में मधुसूदन, दलाष्टक में विद्यादिदेवाष्टक की अर्चना करे । नादावसान गगन में साकार, निराकार एवं एकार्णवशायी विष्णु का ध्यान कर अर्चन करे । फिर लक्ष्म्यादिशक्ति, किरीटादि, भूषण, चक्रादि लाञ्छन, कालादिभवोपकरण देवता की कमल से बाहर अर्चना करे । कूर्मादिद्वादशार्चन के प्रकरण में कहे गए अनन्त के स्थान में कूर्म, शक्त्यात्म स्थान में वराह, मधुसूदन स्थान में नृसिंह, विद्यादि देवताष्टक स्थान में श्रीपत्यादि अष्टक, एकार्णवशायी स्थान में न्यग्रोधशायी की अर्चना करे । मीनादिद्वादशार्चन प्रकरण में कहे गए कूर्म स्थान में मीन, वराह स्थान में वामन, नरसिंह स्थान में त्रिविक्रम, श्रीपत्याद्यष्टक स्थान में नराद्यष्टक और न्यग्रोधशायि स्थान में पातालशायी की अर्चना करे । इस प्रकार न्यास करने का विधान है ॥ ११४-११८ ॥ मूर्त्तौ मण्डलमध्ये च बहिरग्नौ जलाशये ॥ ११९ ॥ स्वमन्त्रेणाम्बरस्थस्य मूर्तं स्रक्चन्दनादिकम् । दातव्यं कर्णिकामध्ये न्यस्तमन्त्रस्य मूर्धनि ॥ १२० ॥ प्रतिबिम्बति तद् यस्मात् तद् ब्रह्मद्वारदर्पणे । एवं मानसार्चनमुक्त्वा बिम्बादिबाह्यार्चनेऽप्येवमेव देवतान्यासक्रमः । किन्तु गगनस्थमूर्तेरर्चनार्थं पुष्पचन्दनादिकं कर्णिकामध्यस्थितमूर्तेर्मूर्द्धन्येव समर्पयेत् । यतः कर्णिकामध्यस्थितमूर्तिर्ब्रह्मरन्ध्रदर्पणे गगनस्थमूर्तिः प्रतिबिम्बतीत्याह—मूर्त्ताविति द्वाभ्याम् । मूर्त्तौ बिम्बे मण्डलमध्ये वक्ष्यमाणमण्डले, अग्नौ प्रतिष्ठितेऽग्नौ, जलाशये तीर्थमध्य इत्यर्थः । मानसिकत्वनिवृत्त्यर्थं मूर्तमिति स्रक्चन्दनादिकस्य विशेषणमुक्तम् । मूर्तं = बाह्येन्द्रियविषयमित्यर्थः ॥ ११९-१२१ ॥ मानसार्चन करने के बाद बिम्बादि बाह्य अर्चन में भी इसी प्रकार देवता न्यास का क्रम है—मानस पूजा के पश्चात् मूर्त्ति में, मण्डलमध्य में, बाहर अग्नि में, अथवा जलाशय में उन-उन के अपने मन्त्र से अम्बरस्थ मूर्त्ति के लिये स्रक, चन्दनादि कर्णिका के मध्य में स्थापित मूर्त्ति के शिर पर समर्पित करे । क्योंकि गगनस्थ मूर्त्ति नीचे वाले ब्रह्मद्वार दर्पण में प्रतिबिम्बित होती रहती है ॥ ११९-१२१ ॥ यस्य यस्य यदा यस्मिन्नाकारे रमते मनः ॥ १२१ ॥ भोगाप्तये वा मोक्षार्थं तं तं मध्येऽर्चयेत् तदा । तदुद्देशेऽर्चनं कुर्यात् तत्स्थानप्रच्युतस्य वा ॥ १२२ ॥ नानासिद्धिप्रदानाच्च सह संहारमूर्तिना । यस्य साधकस्य यस्मिन् भगवदवतारे विशेषेणाभिरुचिः, तेन स एव भगवान्
नवमः परिच्छेदः २२५ प्राधान्येन कर्णिकामध्ये तदूर्ध्वगगनस्थितार्णवशाय्याद्यन्यतममूर्तिना सह पूजनीयः, तस्य स्थाने तु पूर्वं कर्णिकामध्येऽर्चनीयत्वेन य उक्तः, स पूजनीय इत्याह—यस्येति (सार्धं?) द्वाभ्याम् । तत्स्थानप्रच्युतस्य कर्णिकामध्यादुत्थापितस्येत्यर्थः । संहारमूर्तिना एका- र्णवशायिन्यग्रोधशायिपातालशाय्यन्यतमेनेत्यर्थः ॥ १२१-१२३ ॥ दोनों मूर्ति एक ही हैं, जिस-जिस साधक का जिस-जिस आकार में मन रमण करे वह भोग की प्राप्ति के लिये, अथवा मोक्ष के लिये उसे उस कर्णिका के मध्य में स्थित मूर्ति का, ऊर्ध्व गगन स्थित, अथवा तीनों अर्णवशायी किसी एक संहार मूर्ति के साथ पूजा करनी चाहिये ॥ १२१-१२३ ॥ एवमेवाङ्गमन्त्राणामर्चनादीप्सितं लभेत् ॥ १२३ ॥ तत्रायं हि विशेषः स्याद् विन्यासे तन्निबोध मे । भूलोकाखिलसिद्धीनामाप्तये तावदुच्यते ॥ १२४ ॥ अथ भूलोक एव पातालाद्यखिललोकभोगसिद्धयर्थं श्रियादिशक्तिकिरीटादि- भूषणचक्रादिलाञ्छनसंज्ञाङ्गमन्त्रानेवार्चयेत्, तदानीं देवताविन्यासप्रकार उच्यत इ(त्युत- आ? त्या)ह—एवमिति सार्धेन ॥ १२३-१२४ ॥ इसी प्रकार अङ्गमन्त्रों की अर्चना से साधक अभीष्ट फल प्राप्त करता है । वहाँ विन्यास में जो विशेषता होती है, हे सङ्कर्षण ! आप सुनिए भूलोकादि अखिल सिद्धियों के लिये उपाय कहता हूँ ॥ १२३-१२४ ॥ प्राग्वद् द्वादशकादन्त्यादेकशृङ्गमथो यजेत् । श्र्याख्यं यदङ्गमन्त्रं तु कर्णिकायां न्यसेत् ततः ॥ १२५ ॥ अथ केसरकोटिस्थं स्मरेत् तत्पुरतोऽपरम् । पश्चात् क्रमाद् दलान्तस्थं दलाग्रस्थं द्विरष्टकम् ॥ १२६ ॥ पातालशायिनं मध्ये मन्त्रस्योपरि पूर्ववत् । ध्यायेन्निश्र्शेषपातालसिद्धीनामालयं परम् ॥ १२७ ॥ तच्छक्त्यनुगृहीतस्तु मन्त्रेशः कर्णिकागतः । समस्तसिद्धिदाने स्यादाश्रितस्याङ्गसंज्ञकः ॥ १२८ ॥ प्रथमं पाताललोकसिद्धयर्थं लक्ष्मीमन्त्रस्य प्राधान्येनार्चनक्रममाह—प्राग्वदिति चतुर्भिः । अन्त्याद् द्वादशकाद् एकशृङ्गाद्दिद्वादशकादित्यर्थः । एकशृङ्गं मीनमित्यर्थः । श्रियाख्यं लक्ष्मीसंज्ञमित्यर्थः । अपरं पुष्टिमन्त्रमित्यर्थः । पश्चात् क्रमाद्दलान्तस्थं द्विरष्टकं निद्रादिदशकं कीरीटादिचतुष्टयं गरु(डश्च? डं चक्रं) चाहत्य द्विरष्टकं बोध्यम् । दलाग्रस्थं द्विरष्टकं तु शङ्खादिशक्त्यन्तं ज्ञेयम् ॥ १२५-१२८ ॥ प्रथम एकशृङ्गादि द्वादश से लेकर लक्ष्मीसंज्ञक जितने मन्त्र हैं उनसे कर्णिका में न्यास करे ॥ १२५ ॥
२२६ सात्वतसंहिता उसके पश्चात् केशर कोटि में उसके आगे दलान्तस्थ सोलह पुष्टि मन्त्रों से न्यास करे। फिर दलाग्रस्थ शङ्खादि शक्ति पर्यन्त का न्यास करे। फिर मन्त्र के ऊपर मध्य में पूर्ववत् पातालशायी का, फिर पाताल सिद्धियों के आलयभूत पद देवता का ध्यान करे। उसकी शक्ति से अनुगृहीत कर्णिकागत अङ्गसंज्ञक मन्त्रेश समस्त सिद्धियों को देने में समर्थ हो जाता है ॥ १२६-१२८ ॥ एवमेव भुवर्लोकसिद्धीनां प्राप्तये सदा। स्मर्य ऊर्ध्वे सरश्शायी त्वनन्तः कमलादधः ॥ १२९ ॥ अथ भुवर्लोकसिद्ध्यर्थमर्चने विशेषमाह—एवमिति। सरश्शायी एकार्णवशाय इत्यर्थः ॥ १२९ ॥ अब भूलोक की सिद्धि के लिये विशेष अर्चन कहते हैं—इसी प्रकार भुव लोक की सिद्धि के लिये सदा ऊपर एकार्णवशायी अनन्त का तथा नीचे कमलादि का यजन करे ॥ १२९ ॥ यजेद् गगनसिद्धीनामशेषाणामथाप्तये। खस्थं न्यग्रोधशयनं कूर्मं कमलमूलगम् ॥ १३० ॥ सुवर्लोकादीनां सिद्ध्यर्थमर्चने विशेषमाह—यजेदिति। खस्थं कर्णिकामध्य- गतलक्ष्मीयन्त्रस्योपरि स्थितमित्यर्थः ॥ १३०॥ सुवर्लोक की सिद्ध के लिये विशेष पूजन—कर्णिका मध्यगत लक्ष्मी यन्त्र के ऊपर स्थित कमल मूल में स्थित कूर्म भगवान् का यजन करे ॥ १३० ॥ एतेषामपि सञ्चारं नानासिद्धिव्यपेक्षया। प्रधानमन्त्रवत् कुर्यात् प्राग्वत् सर्वत्र सर्वदा ॥ १३१ ॥ एवं लक्ष्मीमन्त्रवत् पुष्याद्यङ्गमन्त्राणामपि तत्तत्फलप्राप्तीच्छया प्राधान्येनार्चनं कुर्यादित्याह—एतेषामिति ॥ १३१ ॥ लक्ष्मी मन्त्र के समान पुष्पादि अङ्गमन्त्रों की भी उन उन फलों के प्राप्ति की इच्छा से प्राधान्येन अर्चन करना चाहिये ॥ १३१ ॥ एवमाद्यैस्तु विधिवद् भोगैर्नानाविधोत्थितैः । यः स्थितस्त्रिविधे सर्गे विभवः पारमेश्वरः ॥ १३२ ॥ उक्तमर्थं निगमयति—एवमिति ॥ १३२ ॥ इस प्रकार नानाविध भोगों तथा मोक्षों से युक्त होकर जो तीनों लोकों में विधिवत् स्थित है वही पारमेश्वर विभव है ॥ १३२ ॥ पौष्कराख्ये च वाराहे प्राजापत्ये महामते ।
नवमः परिच्छेदः २२७ सूक्ष्मत्वेन च निश्शेषं प्रत्येकस्मिन् हि वर्तते ॥ १३३ ॥ समाश्रित्य बृहत्त्वं च तृतीयांशेन तिष्ठति । सर्गत्रयविवरणं तत्र सूक्ष्मस्थूलभेदेनावस्थानं चाह—पौष्कराख्य इति सार्धेन । पौष्करे पाद्मकल्प इत्यर्थः । प्राजापत्ये ब्राह्मकल्प इत्यर्थः । यथा च श्रीभागवते— पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् । कल्पो यत्राऽभवद् ब्रह्मा शब्दब्रह्मेति यं विदुः ॥ तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते । यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् ॥ अयं तु कथितः कल्पो द्वितीयस्यापि भारत । वाराह इति विख्यातो यत्रासीत् सूकरो हरिः ॥ (३।११।३४-३६) इति ॥ १३३-१३४ ॥ हे महामते! वह पद्मकल्प, ब्रह्मकल्प, तथा वाराहकल्प इन तीनों सर्गों में सूक्ष्म रूप से तथा स्थूल रूप से प्रत्येक में वर्त्तमान रहता है ॥ १३३ ॥ वह बृहत्त्व का आश्रय लेकर तृतीय अंश (=स्थूल रूप) से तीनों कल्पों में रहता है ॥ १३४ ॥ यथोक्तक्रमयोगेन युक्तः सर्गत्रये तु वै ॥ १३४ ॥ परिवारं समादाय भवोपरणान्वितम् । दिक्पालकगणोपेतं समाक्रम्य तमेव हि ॥ १३५ ॥ पौष्करादिसर्गत्रयेऽपि पूर्वोक्तलक्ष्मादिपरिवारसंग्रहणमाह— यथोक्तेति ॥ १३४-१३५ ॥ वह पारमेश्वर विभव तीनों पौष्करादि सर्गों में अपने श्री आदि परिवार के साथ काल आदि भवोकरण (द्र. ९.९०-९५) एवं दिक्पालगण आदिकों को अपने वश में करके स्थित रहता है ॥ १३४-१३५ ॥ अभिधानाक्षरं पूर्वमरान्ताद्येन भूषितम् । योक्तव्यमभिधानेन पूर्वोद्दिष्टेन वर्त्मना । पूजार्थं चैव सर्वेषां क्रमेऽस्मिन् सम्प्रकाशितम् ॥ १३६ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां विभवदेवतान्तर्यागो नाम नवमः परिच्छेदः ॥ ९ ॥ — ൘ ❀ ൘ —
२२८ सात्वतसंहिता परिवाराणां बीजपिण्डयोरनुक्तत्वात् तत्तन्नामाद्याक्षरमेवानुस्वारान्वितं कृत्वा तत्तत्संज्ञामन्त्रैर्योज्यमित्याह—अभिधानेति सार्धेन । अरान्ताद्येन पूर्वोक्तवर्णचक्रे, अरान्तो विसर्गः, तदाद्येन अनुस्वारेणेत्यर्थः ॥ १३६ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये नवमः परिच्छेदः ॥ ९ ॥ — 𑁍 — यहाँ परिवारों का बीज पिण्ड नहीं कहा गया है । अतः उनके नाम के आदि अक्षर को ही अनुस्वार से युक्त कर पूर्वोद्दिष्ट मार्ग से संज्ञा मन्त्रों में जोड़ देना चाहिये । इस प्रकार विभवदेवतान्तर्याग के इस क्रम में सभी देवताओं की पूजा के लिये यह प्रकाशित किया गया है ॥ १३६ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के विभवदेवतान्तर्याग नामक नवम परिच्छेद की हिन्दी समाप्त हुई ॥ ९ ॥ — 𑁍 —
दशमः परिच्छेदः विभवदेवताबहिर्यागविधिः नारद उवाच अथ लाङ्गलिना विप्राश्चोदितः परमेश्वरः । यत् तदाकर्ण्यतामद्य चेतसा संयतेन तु ॥ १ ॥ अथ दशमो व्याख्यास्यते । पुनः सङ्कर्षणेन वासुदेवो यत्पृष्टस्तच्छृणुध्वमिति नारदो मुनीनाह—अथेति ॥ १ ॥ नारद जी ने कहा—हे मुनीश्वरो! संकर्षण द्वारा पूछे जाने पर परमेश्वर ने जो कहा था अब उसे सावधान होकर आप लोग सुनिए ॥ १ ॥ सङ्कर्षण उवाच मण्डलेऽग्नौ बहिर्नाथ जलमध्ये त्वयाऽर्चनम् । नोक्तं विभवदेवानां व्यक्तं कृत्वा तदादिश ॥ २ ॥ सङ्कर्षणो बाह्यागं पृच्छति—मण्डल इति ॥ २ ॥ सङ्कर्षण ने कहा—हे नाथ! आपने मण्डल में अग्नि के बाहर जल के मध्य में विभव देवताओं का किस प्रकार अर्चन करना चाहिये इसे नहीं कहा, इसलिये उसे स्पष्ट रूप से कहिये ॥ २ ॥ भगवानुवाच सुलक्षणे तु भूभागे समे पूर्वोक्तलक्षणे । तत्र मण्डलमालेख्यं सर्वेषामेकमर्चने ॥ ३ ॥ चतुरश्रं चतुर्द्वारं पीठाद्यवयवान्वितम् । षट्त्रिंशद्दलपद्मेन मध्यतश्चाप्यलङ्कृतम् ॥ ४ ॥ वितानध्वजसंवीतं किङ्किणीदर्पणान्वितम् । तोरणव्यजनच्छत्रचामरस्रग्विमण्डितम् ॥ ५ ॥ उक्तानुक्तमशेषं तु कृत्वा पूर्वोक्तलक्षणम् ।
२३० सात्वतसंहिता वासुदेवस्तमुपदिशन् पूर्वं षट्त्रिंशद्दलपद्मगर्भितवक्ष्यमाणपीठाद्यवयवान्वित- मण्डललेखनं यागमण्डलालङ्करणं च कार्यमित्याह— सुलक्षण इति सार्धैस्त्रिभिः ॥ ३-६ ॥ भगवान् ने कहा—पूर्वोक्त लक्षण वाले सुलक्षण एवं समतल भू भाग में ऐसा मण्डल निर्माण करना चाहिये जहाँ सबकी एक साथ अर्चना की जावे । मण्डल चौकोर एवं चार द्वारों वाला तथा पीठादि अवयवों से संयुक्त हो । भीतरी भाग छत्तिस दल वाले कमलों से अलङ्कृत हो, चारों ओर तथा मध्य में सर्वत्र अलंकृत हो, चारों ओर ध्वजाओं से घिरा हो, चारों ओर किङ्किणी, दर्पण, तोरण, व्यजन, छत्र, चामर एवं माल्य से मण्डित हो । जो कहा गया हो और जो नहीं कहा गया है, उन सभी से मण्डप पूर्ण हो ऐसा पूर्वोक्त लक्षण लक्षित मण्डल निर्माण करे ॥ ३-६ ॥ ततस्तु करयोर्न्यस्य विग्रहे बीजमैश्वरम् ॥ ६ ॥ समालम्ब्य च तादात्म्यमभिमानं सुनिश्चितम् । बद्ध्वा च वैभवीं मुद्रां स्पृशेत् सर्वाङ्गकं तया ॥ ७ ॥ समुच्चार्य धिया सर्वं मन्त्रग्रामं क्रमस्थितम् । सर्वदेवमयं देहमेवं स्मृत्वा स्वकं पुरा ॥ ८ ॥ अथ करयोर्देहे च विशाखयूपबीजन्यासम्, विशाखयूपोऽहमिति तत्तादात्म्याव- लम्बनम्, वक्ष्यमाण (१०।४१-४४) वैभवमुद्रया सर्वाङ्गस्पर्शम्, पद्मानाभाद्यष्ट- त्रिंशन्मन्त्रोच्चारणपूर्वकं स्वदेहस्य सर्वमन्त्रमयत्वापादनं चाह—तत इति सार्धद्वाभ्याम् । ऐश्वरं बीजं विशाखयूपबीजमित्यर्थः । नमिति यावत् । विशाखयूपतादात्म्याश्रितस्य पुनः पद्मानाभादिसर्वदेवमयविग्रहत्वम्— आमूर्धतोऽङ्घ्रिपर्यन्तं तदीयं गात्रमण्डलम् ॥ रत्नवद् वैभवीयैस्तु बीजैर्भाव्यमलङ्कृतम् । (९।५८-५९) इति पूर्वोक्तप्रकारेण बोध्यम् ॥ ६-८ ॥ तदनन्तर साधक अपने दोनों हाथ में तथा शरीर में विशाखयूप बीज 'नम्' से न्यास करे । 'मैं विशाखयूप हूँ'—इस प्रकार तादात्म्याभिमान कर साधक स्थिर हो जावे, फिर वैभवी मुद्रा बना कर सर्वाङ्ग का स्पर्श करे । फिर बुद्धि से क्रमपूर्वक अड़तीस बीज मन्त्रों का उच्चारण कर अपने देह को सर्वमन्त्रमय (एक- देव मय) बनावे ॥ ६-८ ॥ अन्तश्चक्रनिविष्टं तु संस्मरेद् भद्रपीठवत् । मण्डलं देवताधारं चक्रमन्त्रेण तद् यजेत् ॥ ९ ॥ मण्डले भद्रपीठवदन्तर्लीनचक्रराजस्मरण तदर्चनं चाह—अन्तरिति ॥ ९ ॥
दशमः परिच्छेदः २३१ इस प्रकार अपना शरीर सर्वदेवमय बना लेने के बाद मण्डल में भद्रपीठ के समान अन्तर्लीन चक्रराज का स्मरण करे तथा देवताधार उस मण्डल का चक्रराज के मन्त्र से उनका अर्चन करे ॥ ९ ॥ ततस्तु सर्वमन्त्राणां विन्यासं तत्र चेतसा । समाचरेद् यथायोगं पुष्पदानपुरस्सरम् ॥ १० ॥ तस्मिन् मण्डले प्रत्येकं पुष्पदानपूर्वकं मन्त्राणां न्यासमाह—तत इति ॥ १० ॥ इसके बाद सभी मन्त्रों का चित्त से ध्यान कर उसी से पुष्पदान पुरःसर यथायोग न्यास करे ॥ १० ॥ ध्रुवात्मा भगवान् मध्ये कर्णिकायामतः क्रमात् । दिक्कचक्रमभिवीक्षन्तं प्राग्दलादादितो न्यसेत् ॥ ११ ॥ पातालशायिपर्यन्तमनन्ताद्यं महामते । न्यसेत् कमलबाह्ये तु ईशाद् वह्निपदावधि ॥ १२ ॥ चतुष्टयं किरीटाद्यं मन्त्राणां पूर्वचोदितम् । उदग्दक्षिण आप्याद्ये पैठीये दिक्कचतुष्टये ॥ १३ ॥ द्वन्द्वद्वयं तु लक्ष्म्याद्यं विनिवेश्यं यथाक्रमम् । तत्रैव चेशकोणात् तु यावद् वायुपदावधि ॥ १४ ॥ द्वयं द्वयं क्षमाद्यं च मत्यन्तं सन्निवेश्य च। बहिः पीठस्य निकटे चाग्रतो वै पतत्त्रिराट् ॥ १५ ॥ चक्रात् कमलपर्यन्तं चतुष्कं शाङ्करात् पदात् । वायुकोणावधेर्धावित् पीठबाह्ये तु योजयेत् ॥ १६ ॥ सौम्ययाम्याप्यपूर्वाशावस्थितं च द्वयं द्वयम् । लाङ्गलाद्यं परश्वन्तमष्टकं तद्वदेव हि ॥ १७ ॥ याम्यसौम्याप्यपूर्वाशागतं दद्याच्चतुष्टयम् । पाशाद्यं वज्रपर्यन्तं शक्तिकोणचतुष्टये ॥ १८ ॥ आ ईशकोणनिकटात् पदात् तन्निकटे स्थितम् । प्रदक्षिणक्रमेणैव पदं यावद् द्वितीयकम् ॥ १९ ॥ कालादीनां च विन्यासः कार्यश्चानुक्रमेण तु । यज्ञान्तानां महाबुद्धे षोडशानां यथास्थितम् ॥ २० ॥ क्रमात् पूर्वोत्तरे कोणे न्यसेद् दक्षिणपश्चिमे । विद्याऽविद्याद्वयं यद् वै स्वपदस्थेऽग्निमारुते ॥ २१ ॥
चन्द्रादित्यावुदग्याम्ये द्वारयोर्विनिवेश्य च । प्रत्यग्द्वारगतं तोयं प्राग्द्वारे विन्यसेद् धराम् ॥ २२ ॥ चतुर्णामिथ कोणानामव्यक्तं मण्डलाद् बहिः । संयजेद् भवनाम्ना वै यस्मान्नान्यो भवः स्मृतः ॥ २३ ॥ ततः कामात्मतत्त्वानां दशकं सिद्धतां गतम् । भगवत्तुल्यसामर्थ्यं सर्वज्ञादिगुणैर्युतम् ॥ २४ ॥ वियुक्तं प्राकृताद् दुःखान्नियुक्तं चेश्वरेणतु । भवसन्तारकत्वेन मण्डलस्य बहिर्न्यसेत् ॥ २५ ॥ उपेन्द्रः पूर्वदिग्भागे दक्षिणे दुरतिक्रमः । महाह्रदः पश्चिमे तु वसुरेतास्तथोत्तरे ॥ २६ ॥ न्यस्यस्तेजो धराख्यस्तु पूर्वदक्षिणमध्यगः । नैर्ऋते तु महाकर्मा त्वग्राह्यः पश्चिमोत्तरे ॥ २७ ॥ पूर्वोत्तरे वर्धमानः साक्षी गगनगोचरे । आधारनिलयं नाम्ना सर्वस्याधोगतं स्मरेत् ॥ २८ ॥ तेषां बहिः स्वमन्त्रेण दिक्क्रमेण तु हेतिराट् । स्वमरीचिगणेनैव भासयन्तं निवेश्य च ॥ २९ ॥ मण्डले ध्रुवादीनां स्थानान्याह—ध्रुवात्मेति प्रक्रम्य भासयन्तं निवेश्य चेत्यन्तम् । तथा च प्रयोगः—कर्णिकामध्ये ध्रुवं प्रागादिषट्त्रिंशद्दलेषु दिङ्मण्डलमभिवी- क्षतोऽनन्तादीन् पातालशयनान्तान् षट्त्रिंशद् देवान् तद्बहिरैशान्यादिवायव्यान्तकोण- चतुष्टये किरीटश्रीवत्सकौस्तुभवनमालाः, ततः पीठे उत्तरदिशि लक्ष्मीम्, दक्षिणदिशि पुष्टिम्, पश्चिमदिशि दयाम्, पूर्वदिशि निद्राम्, ईशानकोणे क्षमां क्षान्तिं च, आग्नेय- कोणे सरस्वतीं धृतिं च, नैर्ऋतकोणे मैत्रीं रतिं च, वायव्यकोणे तुष्टिं मतिं च, तद्बहिः पीठसमीपे पुरतो गरुडम्, पीठाद् बहिरैशान्यादिवायव्यान्तकोणचतुष्टये क्रमेण चक्र- शङ्खगदापद्मानि, सौम्यदिशि पाशम्, याम्यदिश्यङ्कुशम्, वारुणदिशि मुद्गरम्, पूर्व- दिशि वज्रम्, कोणचतुष्टये शक्तिम्, ईशानकोणसमीपस्थपदादारभ्य तत्समीपस्थ- द्वितीयपदपर्यन्तमर्धशोभापूर्णशोभास्थितनीलोत्पलरक्तोत्पलाख्यषोडशपदेषु प्रादिक्षिण्येन कालादियज्ञान्तं भवोपहरणदेवताषोडशकम्, ईशानकोणे विद्याम्, नैर्ऋत- कोणेऽविद्याम्, अग्निकोणेऽग्निम्, वायुकोणे वायुम्, उत्तरद्वारे चन्द्रम्, दक्षिणद्वारे सूर्यम्, पश्चिमद्वारे तोयम्, पूर्वद्वारे वसुधां च, मण्डलाद् बहिः कोणेषु प्रकृतिम्, तद्बहिः पूर्वादिदिक्षु विदिक्षु ऊर्ध्वमधश्च उपेन्द्रादिसिद्धदशकं च, तद्बहिः सर्वदिक्षु चक्रराजं च न्यसेत् ॥ ११-२९ ॥ मण्डल में ध्रुवादि का स्थान कहते हैं—कर्णिका मध्य में ध्रुव का, पूर्वादि छत्तीस कमल दलों में दिङ् मण्डल की ओर देखते हुए अनन्त से लेकर
दशमः परिच्छेदः २३३ पातालशयनान्त छत्तीस देवताओं का, उसके बाहर ईशान से लेकर वायव्यन्त चारों कोनो में किरीट, श्रीवत्स, कौस्तुभ एवं वनमाला का, पीठ के उत्तर दिशा में लक्ष्मी का, दक्षिण दिशा में पुष्टि का, पश्चिम दिशा में दया का, पूर्व दिशा में निद्रा का, ईशानकोण में क्षमा एवं शान्ति का, आग्नेयकोण में सरस्वती एवं धृति का, नैर्ऋत्यकोण में मैत्री एवं रति का, वायव्यकोण में तुष्टि तथा मति का, उसके बाहर पीठ के समीप आगे गरुड़ का तथा पीठ के बाहर ईशान से लेकर वायव्य कोणान्त चारों कोनो में क्रमशः चक्र, शङ्ख, गदा एवं पद्म का, उत्तर दिशा में पाश का, दक्षिण दिशा में अङ्कुश का, पश्चिम दिशा में मुद्गर का, पूर्व दिशा में वज्र का, कोण चतुष्टय में शक्ति का, ईशान कोण समीपस्थ पद से लेकर उसके समीपस्थ द्वितीय पद पर्यन्त अर्ध शोभा एवं पूर्ण शोभा स्थित नीलोत्पल का, रक्तोत्पल नामक षोडश पदों में, फिर प्रदक्षिणा क्रम से कालादि यज्ञान्त भवोपकरण षोडश देवता का, ईशानकोण में विद्या का, नैर्ऋत्यकोण में अविद्या का, अग्निकोण में अग्नि का, वायुकोण में जल का, पूर्व द्वार में वसुधा का, मण्डल से बाहर कोणों में प्रकृति का, उसके बाहर पूर्वादि दिशाओं का विदिशाओं (कोणों) में ऊपर नीचे उपेन्द्रादि दश सिद्धों का और उसके बाहर सभी दिशाओं में उन चक्रराज का न्यास करे जो अपने तेज समूहों से समस्त जगत् को भासित करते हैं ॥ १९-२९ ॥ न्यस्यैवमर्चनं कुर्यान्मन्त्रमुद्रान्वितेन च। निरीक्षणादिशुद्धेन अर्घ्यस्रक्चन्दनादिना ॥ ३० ॥ यथाक्रमेणोदितानामादिदेवं यजेत् ततः। उपरिष्टात् तु सर्वेषां स्वपदस्थं तु पूर्ववत् ॥ ३१ ॥ एवं मण्डलदेवतान्यासानन्तरं तेषां यथाक्रममर्चनम्, मध्ये उपरिष्टात् पद्मनाभार्चनं च कार्यमित्याह—न्यस्येति द्वाभ्याम् । निरीक्षणादिशुद्धेनेत्यत्रादिशब्देन दहनाप्याय- नादिकं संगृह्यते ॥ ३०-३१ ॥ इस प्रकार मण्डल देवताओं का न्यास करने के बाद यथाक्रम मन्त्र एवं मुद्रादि द्वारा निरीक्षण, दहन और आप्यायन से शुद्ध कर अर्घ्य, माला एवं चन्दनादि द्वारा उनका अर्चन करे । मध्य में ऊपर पद्मनाभ का पूर्व के समान अर्चन करे ॥ ३०-३१ ॥ प्राग्वत् सुसंस्कृते कुण्डे ततः संस्कृत्य पावकम् । तन्मध्ये सर्वमन्त्राणां न्यासं कुर्याच्च यागवत् ॥ ३२ ॥ प्राक् समित्सप्तकेनैवं तर्पयेद् वै यथाक्रमम् । मन्त्रपूतं हि निश्शेषं हवनान्तं सकृत् सकृत् ॥ ३३ ॥ भवन्ति सम्मुखा मन्त्राः साधकस्याग्निमध्यगाः । सा० सं० - 19
२३४ सात्वतसंहिता सन्तर्प्याथ तथा कुर्यात् सहस्रशतसंख्यया ॥ ३४ ॥ एकैकस्य तु वै होमं तिलैराज्यसमन्वितैः । दद्यात् पूर्णाहुतिं पश्चात् सर्वेषां तर्पणे कृते ॥ ३५ ॥ पुनरप्यर्चनं कुर्यादित्य वै मण्डलान्तरे । यथाक्रमेण सर्वेषां पुष्पधूपैस्तु केवलैः ॥ ३६ ॥ सकृद् ध्यानसमेतं तु चतुर्थाप्यथवाष्टधा । क्रमात् समस्तमन्त्राणां परावर्तनमाचरेत् ॥ ३७ ॥ सुशुभेनाक्षसूत्रेण स्वकैर्वा करपर्वभिः । ततोऽर्घ्यकुसुमैर्गन्धैः पूरयित्वा कराञ्जलिम् ॥ ३८ ॥ सर्वदेवमयं मन्त्रं स्मृत्वोच्चार्य च तं क्षिपेत् । सर्वत्र सर्वदानेन क्रमेणेष्ट्वा च भक्तितः ॥ ३९ ॥ प्रदर्श्य सर्वमन्त्राणामेकां मुद्रां च वैभवीम् । प्रणवेन सहस्रांशुसन्निभां सर्वसिद्धिदाम् ॥ ४० ॥ अथैतेषां वह्निमध्ये सन्तर्पणप्रकारं पुनर्मण्डलार्चनपूर्वकजपयज्ञविधिं पुष्पाञ्जलि- समर्पणपूर्वकमुद्रादर्शनं चाह—प्राग्वत् सुसंस्कृते कुण्ड इत्यादिभिः ॥ ३२-४०॥ इसके बाद सुसंस्कृत कुण्ड में अग्नि का संस्कार कर उस अग्नि के मध्य में समस्त मन्त्रों का यज्ञ की तरह न्यास करे ॥ ३२ ॥ प्रथम सात समिधाओं से यथाक्रम अग्निदेव का तर्पण करे । फिर मन्त्र से पवित्र समस्त हवनान्त कर्म अलग कर करे ॥ ३३ ॥ अग्नि के मध्य में रहने वाले मन्त्र साधक के सम्मुख हो जाते हैं । अग्नि के सन्तर्पण के पश्चात् एक लाख की संख्या में हवन करे और घी मिश्रित तिलों से एक-एक मन्त्र द्वारा एक-एक आहुति देवे । इस प्रकार सभी देवताओं के तर्पण के अनन्तर पश्चात् पूर्णाहुति देवे फिर अन्य मण्डल में आकर केवल पुष्प धूप से यथाक्रम अर्चन करे ॥ ३४-३६ ॥ फिर उन मन्त्रों का एक बार, चार बार, अथवा आठ बार ध्यान कर उनका परावर्त्तन करे । यह आवरण आवर्तन मनोहर कवलगट्टा से अथवा हाथ के पर्वों से करे । फिर अर्घ्यपुष्प तथा गन्ध से कराञ्जलि पूर्ण कर, सर्वदेवमय मन्त्र का स्मरण कर, उच्चारण करते हुए उसे ऊपर की ओर फेंक देवे । इस प्रकार पुष्पाञ्जलि समर्पण कर सभी मन्त्रों की एक ही वैभवी मुद्रा प्रदर्शित करे । यह मुद्रा सूर्य के समान तेजस्विनी है और सर्वसिद्धिप्रदा है । इसका प्रयोग प्रणव के साथ करना चाहिये ॥ ३७-४० ॥
दशमः परिच्छेदः २३५ वैभवमुद्रालक्षणकथनम् श्लेष्य पाणितले द्वे प्राङ्नम्रं कुर्याल्लतागणम् । विविक्तमन्तरीकृत्य सहाङ्गुष्ठद्वयेन तु ॥ ४१ ॥ मणिबन्धद्वयं कुर्यात् सुलग्नमतिनिश्चलम् । करयुग्मं सगर्भं तु सन्धार्य स्वधिया चलम् ॥ ४२ ॥ ऊरुमध्यनिषण्णे तु कुर्याद् वै बाहूकूर्परे । गुप्तं कृत्वा प्रयत्नेन बन्धमस्याः समाचरेत् ॥ ४३ ॥ सर्वदा सर्वसिद्धीनामाप्तये त्वमलेक्षण । वैभवमुद्रालक्षणमाह-श्लेष्येति सार्धैस्त्रिभिः । द्वे पाणितले संश्लिष्य अङ्गुलि- गणं नम्रं कृत्वा अङ्गुष्ठद्वयेन सह विविक्तमन्तरीकृत्य मणिबन्धद्वयं सुसंलग्न (मि?म) तिनिश्चलं कृत्वा सगर्भं करयुग्मं तु स्वधिया चलं संधार्य बाहूकूर्परे ऊरु- मध्यनिषण्णे = ऊरुमध्ये निषण्णे स(ति?ती) कुर्यात् । सर्वेषां विभवदेवानां साधारणीयं मुद्रा ॥ ४१-४४ ॥ अब वैभवमुद्रा का लक्षण कहते हैं-दोनो हाथों के तल भाग को एक में सटा देवे । समस्त अङ्गुलियों को मोड़ देवे, दोनो अङ्गुष्ठों से विविक्त स्थान को बन्द कर देवे । दोनो मणिबन्धों को स्थित कर देवे, इस प्रकार सगर्भ दोनों हाथों को अपनी बुद्धि से सचल कर दोनो बाहूकूर्पर को ऊरु के मध्य में स्थापित कर देवे । यह मुद्रा बन्ध सबसे छिपाकर प्रयत्नपूर्वक करना चाहिये । यह सभी विभव देवताओं की साधारणी मुद्रा है । हे अमलेक्षण सङ्कर्षण ! सभी सिद्धियों की प्राप्ति के लिये साधक प्रतिदिन यह मुद्रा प्रदर्शित करे ॥ ४१-४४ ॥ तीर्थमध्ये स्वहृत्पद्मे बिम्बे वेद्यां स्थले तु वा ॥ ४४ ॥ वह्निगर्भे तु निर्धूमे नित्यमस्मिंश्चतुष्टये । मन्त्राणामर्चनं कुर्यात् सिद्ध्यर्थमपि मुक्तये ॥ ४५ ॥ प्रत्यहं तीर्थादिस्थानचतुष्टये भगवदर्चनं कार्यमित्याह-तीर्थेति सार्धेन । वेद्यां बिम्बं विना केवलभद्रपीठ इत्यर्थः । स्थले मण्डल इत्यर्थः ॥ ४४-४५ ॥ तीर्थ के मध्य में, अपने हृत्पद्म में, बिम्ब में, बिम्ब रहित वेदी में (केवल भद्रपीठ में) इन चारों के मण्डल में तथा निर्धूम वह्नि गर्भ में सिद्धि के लिये तथा मुक्ति के लिये नित्य मन्त्र भगवान् का अर्चन करे ॥ ४४-४५ ॥ सजलाञ्जलिपूरैस्तु तीर्थेऽथ हृदयाम्बुजे । भावनामृतजैर्भोगैर्मूर्तेरर्घ्यादिकैर्बहिः ॥ ४६ ॥ समित्सप्तकपूर्वैस्तु साज्यैर्वह्निगतं तिलैः ।
२३६ सात्वतसंहिता तत्तत्स्थानोचितार्चनद्रव्यभेदानाह—सजलेति सार्धेन । एवं सजलाञ्जलिभि- स्तीर्थमध्ये भगवदर्चनं जयाख्येऽपि विशदमुपपादितम्— आधारमासनं ध्यात्वा जलमध्येऽच्युतस्य च । मन्त्रग्रामसमोपेतमाहूय विनिवेश्य तम् ॥ तर्पयेदुदकेनैवं विष्वक्सेनावसानकम् । स्वेन स्वेन तु मन्त्रेण पाणिभ्यामग्रतः क्रमात् ॥ (९।५५-५६) इत्यादिभिः । एवं पारमेश्वरेऽपि करशुद्धिसमोपेतमित्यादिभिरष्टभिः श्लोकै- र्जलमध्यार्चनक्रमो विस्तरेणोक्तः । वस्तुतस्तु पारमेश्वरोक्तरीत्या जलमध्येऽर्चनात् पूर्वमेव करशुद्धिप्राणायामभूतशुद्धिमन्त्रन्यासभगवत्तादात्म्यावलम्बनानुष्ठानमुचितम् । बिम्बार्चनप्रकरणे मानसार्चनात् पूर्वं तदनुष्ठानोक्तिस्त्वौदकस्नानाद्यशक्त्या तीर्थमध्ये भगवदर्चनमकृतवद्विषयेति बोध्यम् । ननु “नित्यमस्मिंश्चतुष्टये । मन्त्राणामर्चनं कुर्यात्” (१०।४५) इत्युक्त्या जलमध्येऽर्चनं कृतवतैव मानसार्चनादिकं कार्यमिति चेन्न, यावज्जीवं यथाशक्ति संस्थितो यत्र कुत्रचित् । स्थानेषु हृदयाद्येषु कुर्यान्मन्त्रगणार्चनम् ॥ द्रव्यैः पुष्पाम्बुपूर्वैस्तु तदभावात् तु वै हृदि । मानसीं पूर्ववत् पूजां निर्वपेन्न्यासपूर्विकाम् ॥ (१७।१२६-१२७) इत्यशक्तानां हृदयादिस्थानेष्वन्यतममात्रार्चनस्यापि वक्ष्यमाणत्वात् । किञ्च, पारमेश्वरे तीर्थमध्यार्चनं मानसार्चनं च होमान्तमुक्तम् । सात्वतनिष्ठैस्तु जपयज्ञान्तमेव कार्यम् । यतोऽत्र सप्तदशे परिच्छेदे— ध्यात्वाऽथ भावनाजातैर्भोगैः परमपावनैः ॥ पूजयित्वा जपान्तं चाप्यवतार्य बहिर्यजेत् । (१७।४२-४३) इति जपान्तमेव वक्ष्यति ॥ ४६-४७ ॥ तीर्थ और हृत्कमल में पूर्ण जलाञ्जलि द्वारा अर्चन करे और भावनामृत से उत्पन्न भोगों से अथवा मूर्ति एवं अर्घ्यादिकों से बाहर अर्चना करे ॥ ४६-४७ ॥ पूजयित्वा यथान्यायं प्रत्येकस्मिन् पदे क्रमात् ॥ ४७ ॥ संन्यासं सञ्चयं वापि कृत्वा सम्यक् कृतस्य वै । मन्त्ररूपानुकारिण्या मुद्रणीयं च मुद्रया ॥ ४८ ॥ एवं तीर्थमध्यादिपदेषु क्रमेण भगवन्तमभ्यर्च्य तत्तदर्चनानन्तरं निष्कामश्चेत् कृतस्य कर्मणः परित्यागं कुर्यात्, सकामश्चेत् तदार्चनं कुर्यात् । उभयत्रापि पूर्वोक्त- मुद्राबन्धं कुर्यादित्याह—पूजयित्वेति सार्धेन । ननु फलान्तरसम्पादककर्मणां निष्कामत्याज्यत्वमुचितम्, प्राधान्येन मोक्ष- सम्पादकभगवदाराधनकर्मणोऽपि त्याज्यत्वं कथमुक्तमिति चेन्न, सिद्धोपायनिष्ठै- र्भगवदाराधनकर्मणोऽपि स्वयं प्रयोजनतयाऽनुष्ठेयत्वात् ॥ ४७-४८ ॥
दशमः परिच्छेदः २३७ इस प्रकार क्रमशः प्रत्येक पद में समिधाओं से घृत युक्त तिलों से होम करे और यथोक्त पूजन करे । फिर अपने किये हुए कर्म का त्याग करे अथवा उसका सञ्चय करे । फिर मन्त्र रूप का अनुकरणवाली मुद्रा से उसे मुद्रित कर देवे ॥ ४७-४८ ॥ फलार्थं प्रसवं येन नैति संन्यासकारिणाम् । फलपर्यवसानं च कालमागमचोदितम् ॥ ४९ ॥ हर्तुं नो युज्यते येन सिद्धाद्यैस्तु फलार्थिनाम् । ननु संचितकर्मणामुपरि मुद्राबन्धः समुचितः । संन्यस्तकर्मणामुपरि मुद्राबन्धेन किं प्रयोजनमित्याशङ्कायामुभयत्रापि सार्थक्यमाह—फलार्थमिति सार्धेन । येन मुद्रा- बन्धेन हेतुना संन्यासकारिणां कर्मत्यागिनां फलार्थं प्रसवं पुष्पमेव नैति = नोत्पद्यत इत्यर्थः । फलार्थिनां कर्मसंचितवतां तु शास्त्रोक्तफलानुभवकालपर्यन्तं येन मुद्राबन्धेन हेतुना सिद्धाद्यैरन्यैर्हर्तुं नो युज्यते । यथा जतुमुद्रितधनग्रन्थेर्धनमनपहार्यं भवति, तथा कर्माप्यन्यैरनपहार्यं भवतीति भावः ॥ ४९-५० ॥ तीर्थ के मध्य आदि स्थानों में भगवान् की अर्चना के पश्चात् यदि साधक निष्काम हो तो कर्म का भगवान् को समर्पण कर देवे और यदि सकाम हो तब उसका अर्जन करे । इन दोनों विधियों में पूर्वोक्त मुद्राबन्ध अवश्य करे । क्योंकि सन्यास लेने वाले साधक को कर्म में मुद्राबन्ध कर देने से उसमें फल देने के लिये पुष्प ही नही आता । किन्तु जो कर्म का फल चाहते हैं या उसका अर्जन करना चाहते हैं उन्हें शास्त्रोक्त फलानुभव काल पर्यन्त मुद्रा बन्ध से कोई सिद्ध आदि जन भी उसकी चोरी नहीं कर सकता ॥ ४९-५० ॥ कालानुकालमुद्राणां यो बन्धः परिचोदितः ॥ ५० ॥ उक्तप्रयोजनादन्यः स विघ्नविनिवृत्तये । एवं पूजानन्तरकालीनमुद्राया उक्तं प्रयोजनं संभवति, पूजामध्यकालेषूक्तानां कर्मणां किं प्रयोजनमित्याकाङ्क्षायां विघ्ननिवृत्तिरूपं फलमाह—कालेति ॥ ५१ ॥ उक्त प्रयोजन से अतिरिक्त समय-समय पर मुद्रा बन्ध का फल यह होता है कि वह विघ्न की विनिवृत्ति करता है ॥ ५०-५१ ॥ मुदं कर्मात्मतत्त्वानां ददात्यमलयाजिनाम् ॥ ५१ ॥ द्रावयित्री च दोषाणां बाह्याभ्यन्तरचारिणाम् । तेन मुद्रा समाख्याता कृतस्यापि च मुद्रणात् ॥ ५२ ॥ एतदुभयप्रयोजनानुसारेण मुद्राशब्दनिर्वचनमाह—मुदमिति सार्धेन । अमल- याजिनां शुद्धयाजिनामित्यर्थः । कर्मात्मतत्त्वानां यजनादिकर्मनिष्ठचेतनानामित्यर्थः । दोषाणामिति कर्मणि षष्ठी । एवं च मुद्राशब्दे मुदित्यत्र ददातीति शेषः । द्रेत्यत्र दोषा-