सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
१९८ सात्वतसंहिता संयुक्त है और वह प्रसन्नचित्त वाला है । वह लीला करने के लिये ही समस्त अस्त्रों को धारण करता है । उसका मुख सौम्य तथा आकुलता से रहित है । वह मात्र अपनी बुद्धि से समस्त मुमुक्षुओं के पापों को नष्ट करता रहता है ॥ ७-९ ॥ उसका स्वरूप स्वप्नसुषुप्ति पद में सुव्यक्त रहता है तथा तुर्य पद में शान्त रहता है । इस प्रकार एक होते हुए भी वह अनन्त रूप वाला है । उसका तेजोमय जो रूप है वही वैभव शान्तसंज्ञक है और वही समाधि निरत भक्तों में सन्मार्ग प्रकाशित करता है । उसके सभी वैभवीय रूप अपने उपासकों को सब प्रकार का फल प्रदान करते हैं ॥ १०-११ ॥ आमोक्षान्निर्विचारेण एकैकस्य महामते । आराधनार्थं विहितो वाचको हि चतुर्विधः ॥ १२ ॥ संज्ञानानापदमयः पिण्डाख्यो बीजलक्षणः । एभ्यो मध्यात् त्वथैकेन वाच्यमामन्त्र्य भक्तितः ॥ १३ ॥ अथ संज्ञापदपिण्डबीजभेदेन मन्त्राणां चातुर्विध्यं तेष्वेकतमेन भगवदावाहनाद्य- र्चनं चाह—एकैकस्य महामते इत्यादिना सार्धेन । वाच्यं भगवन्तमामन्त्र्य समावाह्य, अर्चयेदिति शेषः ॥ १२-१३ ॥ हे महामते ! उसके एक-एक स्वरूप मोक्ष पर्यन्त आराधन के लिये विहित हैं, वह उसके वाचक संज्ञा, पद, पिण्ड और बीज भेद से चार प्रकार के कहे गये हैं । अतः साधक बीज एवं पिण्ड इन दोनों मन्त्रों में से एक, अथवा संज्ञा एवं पद इन दोनों के मध्य में से एक, अथवा दोनों प्रकार के मन्त्रों में उभयात्मना दोनों मन्त्रों से अभिन्न एक भगवान् का अर्चन करे ॥ १२-१३ ॥ यत्रैकपिण्डवाक्योत्थमन्त्रेणाथोभयात्मना । अभिन्नलक्षणो वाच्य एक एवोपचर्यते ॥ १४ ॥ तत्र वै विधिनानेन कुर्यात्ताभ्यां हि कल्पनाम् । कृत्वादौ नाममन्त्रस्य बीजपिण्डाक्षरं तु वा ॥ १५ ॥ नयेत् तेनाभिमुख्यं च वाच्यमाद्यन्तकेन वा । सन्तन्त्य पदमन्त्रं तु विधिनानेन वै ततः ॥ १६ ॥ कुर्यात् प्रणवपीठस्थं नमस्कारध्वजान्वितम् । आभ्यां शान्तस्वरूपत्वादेकत्वमत एव हि ॥ १७ ॥ संज्ञाख्यं पदमन्त्रं च विद्धि संसिद्धिलक्षणम् । बीजपिण्डमन्त्रयोरन्यतरेण संज्ञापदमन्त्रयोरन्यतरेण चोभयेनाप्यभिन्नरूपस्यैक- स्यैव भगवतोऽर्चनं यत्र कार्यम्, तत्र तन्मन्त्रद्वयस्यापि संमेलनप्रकारम्, तदाद्यन्तयोः प्रणवनमःसंयोजनमन्त्रं चाह—यत्रेति सार्धैश्चतुर्भिः । आद्यन्तकेन वा आदिबीजमन्ते
नवमः परिच्छेदः १९९ यस्य तत् तथोक्तेन, अन्तेऽपि बीजसहितेनेत्यर्थः । यद्वा अन्त एवं बीजसहितेनेत्यर्थः । उभयथाऽप्युक्तं लक्ष्मीतन्त्रे— आदौ मध्ये तथान्ते च त्रिषु वान्यतरत्र वा ॥ येषां पिण्डोऽथवा बीजं ते मन्त्राः सार्वकालिकाः ।—(२१।२२-२३) इति ॥ १४-१८ ॥ जहाँ पिण्ड मन्त्र से उत्पन्न एक ही बीज से वहाँ उभयात्मना योजना करे । मन्त्र के आदि में बीज जोड़ देवे, अथवा मन्त्र के अन्त में बीज जोड़ देवे, कोई अन्तर नहीं आएगा क्योंकि दोनों ही अभिन्न हैं । इस प्रकार दोनों प्रकारों से मन्त्र की कल्पना कर अर्चन करे । किन्तु नाम मन्त्र के आदि में ही पिण्डाक्षर अथवा बीज का संयोजन करे ॥ १४-१५ ॥ इसी प्रकार पद मन्त्र में भी आदि में बीजाक्षर अथवा पिण्डाक्षर की योजना करे । फिर प्रणव पीठ पर नमस्कार युक्त ध्वज लगावे । दोनों ही शान्त स्वरूप हैं, अतः एक ही हैं । संज्ञा मन्त्र और पद मन्त्र संसिद्धि लक्षण वाले हैं ॥ १६-१८ ॥ स्वरोत्थं व्यञ्जनोत्थं वा बीजमेकाक्षरं स्मृतम् ॥ १८ ॥ स्वरव्यञ्जनसंयोगाद् बह्वर्णः पिण्डमन्त्रराट् । बीजस्वरूपं पिण्डस्वरूपं चाह—स्वरोत्थमिति । स्वरोत्थम् अकारादिस्वरेष्व- न्यतमेन द्वाभ्यां बहुभिर्वा, उत्थम् = उत्पन्नमित्यर्थः । तथा चोपबृंहितं लोकमात्रा— एकस्वरं द्विस्वरं वा स्वरव्यञ्जनयोर्द्वयम् ॥ बीजं बहुस्वरं वापि विज्ञेयं बहुधेश्वर । (लक्ष्मी० २१।११-१२) इति ॥ १८-१९ ॥ स्वर से उत्पन्न एक अक्षर तथा व्यञ्जन से उत्पन्न एक अक्षर बीज कहे जाते हैं । एक में मिले हुए स्वर और व्यञ्जन से जो बहुत वर्ण बन जाते हैं, वह पिण्ड मन्त्रराट् है ॥ १८-१९ ॥ द्वाभ्यामाद्यात् तथान्ताच्च स्वरवर्गान्महामते ॥ १९ ॥ स्वरूपेण हि मन्त्रत्वमन्येषां सह बिन्दुना । अकारादिषोडशस्वरेष्वाद्यस्वरद्वयस्यान्त्यस्वरद्वयस्य च स्वरूपेणैव मन्त्रत्वम्, अन्येषां स्वराणामनुस्वारसहितत्वे मन्त्रत्वमित्याह—द्वाभ्यामिति । आद्यद्वाभ्याम् अका- राकाराभ्याम्, अन्त्यद्वाभ्याम् अनुस्वारविसर्गाभ्यामित्यर्थः । इदं बीजचतुष्टयं पूर्व स्वप्नव्यूहमन्त्रचतुष्के च प्रतिपादितं ज्ञेयम् ॥ १९-२० ॥ स्वर वर्ण के आदि के तथा अन्त के दो-दो अक्षर अनुस्वार युक्त हों तो उनमें स्वाभाविक मन्त्रता सिद्ध है ॥ १९-२० ॥ स्वरेणैकेन युक्तस्य स्वरयुग्मान्वितस्य च ॥ २० ॥ सानुस्वारस्य बीजत्वं व्यञ्जनस्यापि लाङ्गलिन् ।
२०० सात्वतसंहिता ककारादिव्यञ्जनस्यापि बिन्दुसहितत्वेनैव मन्त्रत्वमाह—स्वरेणेति ॥ २०-२१ ॥ अनुस्वार सहित एक स्वर से युक्त व्यञ्जन अथवा अनुस्वार सहित दो स्वर से युक्त ककारादि व्यञ्जन की भी बीज संज्ञा होती है ॥ २१ ॥ य ओंकाराख्यशब्दस्य विवर्तो दीधितिप्रभः ॥ २१ ॥ चिल्लक्षणस्त्वनाकारो विद्धि तद्वाचकं त्रिधा । क्वचित् पिण्डं क्वचिद्बीजं क्वचिच्छब्दमनाहतम् ॥ २२ ॥ तस्य चोद्गीर्यमाणस्य परिणामः स्फुटो हि यः । बह्वक्षरो बहुपदः स्तुतिसम्बोधलक्षणः ॥ २३ ॥ बीजपिण्डसंज्ञापदमन्त्राश्चत्वारोऽपि प्रणवस्य परिणामाः । तत्राद्यास्त्रयः सूक्ष्म- परिणामाः, अन्त्यः स्थूलपरिणाम इत्याह—य ओंकाराख्यशब्दस्येति सार्द्धद्वाभ्याम् । आकारभेद इति यावत्, दीधितिप्रभः केवलतेजोरूप इत्यर्थः । चिल्लक्षणः = चिद्रूपः । अनाकारो गुणलक्ष्य इत्यर्थः । एवमेवोपबृंहितं लक्ष्मीतन्त्रेऽपि— शब्दब्रह्मविवर्तोऽयं किरणायुतसंकुलः ॥ चिल्लक्षणः सद्गुणात्मा तस्य भेदश्चतुर्विधः । क्वचिद्बीजं क्वचित्पिण्डं क्वचित्संज्ञा क्वचित्पदम् ॥ तुर्यं सुषुप्तिः स्वप्नं च जाग्रद्व्यूहादयः क्रमात् ॥ (२१।९-११) एवं च मन्त्रप्रतिपाद्यस्य भगवतः पूर्वं परसूक्ष्म(स्य?)स्थूलभेदेन त्रैविध्यम्, तत्र सूक्ष्मस्य तुर्यसुषुप्तिस्वप्नभेदेन त्रैविध्यं च यथा प्रतिपादितम्, तद्वदिहापि प्रणवस्य परत्वम्, बीजपिण्डसंज्ञामन्त्राणां तुर्यसुषुप्तिस्वप्नक्रमेण सूक्ष्मत्वम्, पदमन्त्रस्य स्थूलत्वं चोक्तं भवतीति ज्ञेयम् ॥ २१-२३ ॥ ॐकार शब्द का विवर्त्त सूर्य की किरणों के समान अनेक है अर्थात् ओंकार पर है तथा बीज, पिण्ड एवं संज्ञा मन्त्र क्रमशः तुर्य, सुषुप्ति और स्वप्न के क्रम से सूक्ष्म है । पदमन्त्र वैखरी होने से स्थूल है ॥ २१-२२ ॥ उसी ॐकार के उच्चारण करने से परिणाम स्पष्ट जाना जाता है । वह कभी स्तुति सम्बोधन लक्षण वाला तथा बहुत अक्षरों वाला होता है और कहीं बहुत पदों वाला बन जाता है ॥ २३ ॥ अविनाशी स ओंकारो बीजादीनां महर्द्धिदः । प्राग् दद्यात् प्रणवेनातः सत्याख्येनासनं महत् ॥ २४ ॥ तस्माद् वै सत्यभिन्नं तु बीजं तदुपरि न्यसेत् । स्वविवर्तेन बीजस्य मूर्त्युत्थानं प्रकल्पयेत् ॥ २५ ॥ प्राप्तेज्यावसरे नित्यं सम्पन्ने यजने सति । तप्तोपले जलं यद्वत् तद्वत् विप्रलयं स्मरेत् ॥ २६ ॥
नवमः परिच्छेदः २०१ एवं प्रणवस्य नित्योदित्वात् सर्वमन्त्राणामप्याधारत्वेनादौ निवेशनम्, तदुपरि तद्विवृत्तस्य बीजस्य न्यासम्, प्रत्यहमाराधनकाले बीजात् तत्परिणामाकारेण संज्ञापद- मन्त्रयोरन्यतरस्योत्थानम्, समाप्ते यजने पुनस्तत्रैव लयं चाह—अविनाशीति त्रिभिः । बीजस्य क्षेत्रज्ञरूपत्वात् तदुपरि स्थितानां वर्णानां क्षेत्ररूपत्वाच्च मूर्त्युत्थानमुक्तम् । विप्रलयं स्मरेदित्यनेन मूर्तिरूपस्य मन्त्रस्य बीजे उपसंहारः, बीजस्य तत्कारणे प्रणवे चोपसंहारो बोध्यः । तथा च जयाख्ये— भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम् ॥ मुख्यमन्त्रशरीरं तु सम्प्रविष्टांश्च संस्मरेत् । ज्वाला ज्वालान्तरे यद्वत् समुद्रस्येव निम्नगाः ॥ तं मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज । प्रविष्टं भावयेत् सूक्ष्मे बुद्धयक्षे ह्युभयात्मके ॥ परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् । तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ॥ सन्धिमार्गेण हृत्पद्मे सम्प्रविष्टं तु भावयेत् । (१५।२३३-२३७) इति ॥ २४-२६ ॥ वह ॐकार अविनाशी है और बीजों को महान् समृद्धि देने वाला है । अतः साधक सर्वप्रथम सत्य नामक प्रणव से आसन प्रदान करे ॥ २४ ॥ इस प्रकार प्रणव के नित्योदित होने के कारण तथा सभी मन्त्रों का आधार होने के कारण पहले प्रणव का आसन सन्निविष्ट करे । उसके बाद उसके विवर्त्तभूत बीज मन्त्र को आसन देवे । प्रतिदिन आराधन काल में बीज से उसके परिणाम स्वरूप संज्ञामन्त्र, अथवा पदमन्त्र में किसी एक का उत्थान करे । फिर यजन समाप्त होने पर उसी में लय करे । इसलिये वह अविनाशी है । याग का अवसर प्राप्त होने पर पुनः उसकी समाप्ति हो जाने पर मन्त्र उस ॐकार में इस प्रकार सन्निहित हो जाते हैं, जैसे तप्त पत्थर पर जल डालने से जल उसमें लीन हो जाते हैं ॥ २५-२६ ॥ भानुप्रसरसंकोचतुल्यमेतद् महामते । क्रियावशात्तु किन्वत्र भेदमात्रोपलक्षणम् ॥ २७ ॥ (पृथिवीभिन्नस्य?) संज्ञापदमन्त्रयोरन्यतरस्य पूजाकाले बीजात् प्रसरणं तत्समाप्तौ तत्र संकोचश्च कथमुपपद्यत इति शङ्कां किरणसादृश्येन परिहरति— भानुप्रसरेति ॥ २७ ॥ संज्ञा एवं पदमन्त्र में से कोई एक पूजाकाल में कैसे बीज से फैल जाते हैं और कैसे संकुचित हो जाते हैं? इसे किरणों के सादृश्य से कहते हैं—जिस प्रकार सूर्य की किरणें सूर्य से ही विकसित हो कर उसी में लीन हो जाती हैं । यह भेद मात्र उपलक्षण है जो क्रियावश किया जाता है ॥ २७ ॥ सा० सं० - 17
२०२ सात्वतसंहिता न यत्र बीजं पिण्डं वा तत्र वै प्रणवादनु । प्राग्वर्णं पदमन्त्रस्य यत् तदालोकवाचकम् ॥ २८ ॥ तच्छिष्टं विग्रहं वर्णैस्तस्मादुत्थाप्य वृक्षवत् । बीजेन पिण्डेन वा विरहिते मन्त्रे प्रथमाक्षरस्यैव बीजत्वम्, तदवशिष्टानां वर्णानां तद्विग्रहत्वेन तस्मादुत्पादनं चाह— न यत्रेति सार्धेन । उत्थाप्येत्यत्राऽर्चयेदिति शेषः । एवमेवोपबृंहितं हरिवल्लभायापि— बीजं बीजवतां जीवः शिष्टं क्षेत्रं प्रकीर्तितम् ॥ निर्बीजानामादि जीवः क्षेत्रं तु परिशेषितम् । इति । (लक्ष्मी० २१ । १७-१८) आदि प्रथमवर्णमित्यर्थः ॥ २८-२९ ॥ जहाँ बीज अथवा पिण्ड न हो वहाँ प्रणव के बाद 'पद वर्ण' का पहला अक्षर ही बीज का वाचक हो जाता है उससे शेष वर्णाक्षर रूप विग्रह को उसी बीज से वृक्ष की तरह उत्पन्न कर लेवे फिर उसकी अर्चा करे ॥ २८-२९ ॥ केवलं यत्र वै बीजं पिण्डं वा पदवर्जितम् ॥ २९ ॥ तत्राकाराख्यवर्णस्य क्षेत्रज्ञत्वं विधीयते । क्षेत्रत्वमवशिष्टानां वर्णानां पिण्डरूपिणाम् ॥ ३० ॥ संज्ञापदमन्त्ररहिते बीजे पिण्डे वाऽकारस्य बीजत्वम्, तदवशिष्टानां वर्णानां विग्रहत्वं चाह—केवलमिति सार्धेन । एवमेवोक्तं कमलवासिन्यापि— बीजानां चैव पिण्डानामस्तु क्षेत्रज्ञ उच्यते ॥ शिष्टं तु क्षेत्रमुद्दिष्टम्........... (लक्ष्मी० २१ । १८-१९) इति । बीजानां पिण्डानां पदवर्जितकेवलबीजपिण्डानामित्यर्थः । अस्तु अकारस्त्वि- त्यर्थः ॥ २९-३०॥ केवलस्य हि बीजस्य स्वस्थितिर्ब्रह्मवर्णता । स्वभावप्रच्युतिर्बीजं बीजोच्चारस्तथाकृतिः ॥ ३१ ॥ बीजवत् पिण्डमन्त्राणां परिज्ञेयः सदोदयः । अकारेणापि रहितं बीजपिण्डविषयमाह—केवलस्येति सार्धेन । केवलस्य बीजस्य स्वस्थितिरेव ब्रह्मवर्णता स्वस्य स्थूलरूपा सूक्ष्मरूपा च स्थितिरेव ब्रह्मता वर्णता च । ब्रह्मता स्थूलता, मूर्तत्वमिति यावत् । वर्णता बीजत्वमित्यर्थः । क्षेत्रत्वं क्षेत्रज्ञत्वमप्यवस्थाभेदेनेकनिष्ठमिति भावः । तथाहि—स्वभावप्रच्युतिः स्थूलता- विरहः, मध्यमावस्थेति यावत् । सैव बीजं जीव इत्यर्थः । बीजोच्चारो बीजस्य स्थूल- रूपेण स्फुटोच्चारणमेव आकृतिः, क्षेत्रमित्यर्थः । एवमेव पिण्डमन्त्राणामप्युदयः परि- ज्ञेयः, क्षेत्रक्षेत्रज्ञभावो बोध्य इत्यर्थः । लक्ष्मीतन्त्रे त्वेवं क्षेत्रक्षेत्रज्ञभाव एकमात्रबीज- विषये प्रतिपादितः । अकाररहितबीजविषये तु स्वरस्यैव क्षेत्रज्ञत्वमुक्तम् । तथाहि—
नवमः परिच्छेदः २०३ ... ... ... ... ... ... ...अकाररहिते पुनः । क्षेत्रज्ञः स्वर उद्दिष्टः केवले च स्वरे पुनः ॥ जीवः स्यात् प्रथमा मात्रा द्वितीयादि तनुर्भवेत् । एकमात्रे तु जीवः स्यात् संस्कारो भूतलक्षणम् ॥ उच्चार्यमाणं क्षेत्रं स्यान्त्रिःस्वरे पिण्डके पुनः । प्रथमो जीव उद्दिष्टः शिष्टं क्षेत्रं प्रचक्षते ॥ —(२९।१९-२१) इति । संस्कारः शब्दस्य मध्यमावस्थेत्यर्थः । उक्तं खलु तत्रैव— ततः परो य उन्मेषस्तृतीयः शक्तिसंभवः । मध्यमा सा दशा तत्र संस्कारयति संगतिम् ॥ वाच्यवाचकभेदस्तु तदा संस्कारतामयः ॥ (१८।२५-२६) इति । भूतलक्षणं स्थूलरूपम्, उच्चार्यमाणं वैखर्यवस्थापन्नमित्यर्थः । तथा चोक्तं तत्रैव —‘‘वैखरी नाम सावस्था वर्णवाक् संस्कृतोदया (१८।२७) इति ॥ ३१-३२ ॥ जहाँ केवल बीज हो, अथवा जहाँ केवल पिण्ड हो, पद न हो, वहाँ केवल अकार वर्ण को बीज समझे । उससे शेष वर्ण को विग्रह समझे ॥ २९-३० ! जहाँ अकार भी न हो वहाँ केवल बीज की स्वस्थिति ब्रह्मवर्णता तथा स्वभाव प्रच्युति बीज समझनी चाहिये । बीज का स्पष्ट रूप (बैखरी रूप) से उच्चारण करना क्षेत्र है । इसी प्रकार क्षेत्र-क्षेत्रज्ञ भाव समझना चाहिये । बीज के समान पिण्ड मन्त्रों का भी क्षेत्र-क्षेत्रज्ञ भाव समझना चाहिये । जितने भी बीज लक्षण वैष्णव मन्त्र हैं उनमें महान् शक्ति है ॥ ३१-३२ ॥ यद्बीजलक्षणं मन्त्रं सामर्थ्यं वैष्णवं महत् ॥ ३२ ॥ असंख्येयमसंख्यानां वाच्यानां भिन्नरूपिणाम् । तद्यथावत् परिज्ञानाज्जपाद् ध्यानात् समर्चनात् ॥ ३३ ॥ हवनात् तन्मयत्वाच्च निर्बीजं पदमृच्छति । सहाभिमतसिद्धिः स्यात् साधकानां सदैव हि ॥ ३४ ॥ बीजमन्त्रफलमाह—यदिति सार्द्धद्वाभ्याम् । वैष्णवं सामर्थ्यं = भगवत्सामर्थ्य- रूपमित्यर्थः । असंख्येयं = मन्त्रप्रतिपाद्यस्य नानारूपतयाऽसंख्यातत्वात् तत्प्रतिपादक- मपि तथा नानाविधाकारमित्यर्थः । तद्यथावत् परिज्ञानात् तस्य बीजस्य सप्रकार- ज्ञानादित्यर्थः । निर्बीजं पदम् = अनाद्यन्तं परमं धामेत्यर्थः । ऋच्छति = प्राप्नोति, साधक इति शेषः । सहाभिमतसिद्धिः स्यादिति तेन मोक्षरूपफलेन सहाभिमतार्थ- सिद्धेरुक्तत्वान्मोक्षस्य प्राधान्यमन्येषामानुषङ्गिकत्वमुक्तं भवति ॥ ३२-३४ ॥ जिस प्रकार मन्त्र से प्रतिपाद्य के अनेक रूप होने से वह असंख्यात है उसी प्रकार उसका प्रतिपादक भी अनेक रूप होने से असंख्यात है । उस बीज के
२०४ सात्वतसंहिता यथावत् परिज्ञान से, ध्यान से, अर्चन से, हवन से एवं तन्मयता से साधक भी निर्बीज (अनाद्यन्त परम धाम) प्राप्त कर लेता है। ऐसा करते रहने से साधक के अभिमत की सिद्धि हो जाती है ॥ ३३-३४ ॥ पिण्डादिभगवन्मन्त्रमूर्तीनामेवमेव हि । परिज्ञानाद् भवेत् किन्तु पिण्डात् तत्स्थैर्यमुत्तमम् ॥ ३५ ॥ नानात्वं नाममन्त्राच्च नानालोकान्तरोत्थितम् । भवेत् सर्वपदप्राप्तिः परिज्ञानात् पदाभिधात् ॥ ३६ ॥ पिण्डसंज्ञापदमन्त्राणामप्येवमेव चतुर्विधपुरुषार्थप्रदत्वमस्ति, किन्तु तत्र मोक्षेतर- फलस्थैर्यादिकं भवेदित्याह—पिण्डादीति सार्द्धद्वाभ्याम् । तत् स्थैर्यं मोक्षेतरभि- मतार्थस्थैर्यमित्यर्थः । नानात्वं तेषामेव नानाविधत्वमित्यर्थः ॥ ३५-३६ ॥ पिण्ड, संज्ञा, पद, मन्त्रों में भी यद्यपि चतुर्विध पुरुषार्थ प्रदत्व है किन्तु उसमें मोक्षेतर फल देने का निश्चय है। मोक्ष के विषय में कोई निश्चय नहीं क्योंकि मोक्षफल प्राप्ति के लिये दृढ़ निश्चय की आवश्यकता होती है ॥ ३५-३६ ॥ सबीजं वा सपिण्डं वा मन्त्राणां यत्परं द्वयम् । विदधाति फलं स्वं स्वं किन्त्वाद्यं भावयेत् परम् ॥ ३७ ॥ मन्त्रक्षेत्रज्ञरूपत्वाद् यस्मात् सर्वेश्वरोऽच्युतः । व्याप्यव्यापकरूपेण वर्ततेऽनुग्रहेच्छया ॥ ३८ ॥ बीजपिण्डाभ्यां सह संज्ञापदमन्त्रयोः संयोजनमुक्तम् । तत्र फलप्रदत्वं पूर्वस्य वा परस्य वोभयोर्वेत्याकाङ्क्षायां परस्यैव स्वफलप्रदत्वम्, पूर्वस्य तु क्षेत्रज्ञरूपेण भावनामात्रं चाह—सबीजमिति सपादेन ॥ ३७-३८ ॥ बीज, पिण्ड तथा संज्ञा पद इनका संयोजन पहले कह दिया गया है। किन्तु पूर्वद्वय की अपेक्षा संज्ञा पद (द्विक) मन्त्र में फल देने की शक्ति है। इतर द्वय क्षेत्रज्ञ रूप से भावना मात्र है ॥ ३६-३७ ॥ यद्यपि सर्वेश्वर अच्युत क्षेत्र एवं क्षेत्रज्ञ दोनों रूप से स्थित हैं तथापि भक्तों पर अनुग्रह करने के लिये वे व्याप्य-व्यापक (= क्षेत्र-क्षेत्रज्ञ) रूप भी धारण करते हैं ॥ ३८ ॥ व्याप्यरूपेण भूलोकाद् भोगादारभ्य चाखिलात् । षाड्गुण्यमहिमान्तं च ददाति फलमुत्तमम् ॥ ३९ ॥ स्वपदं भोगखिन्नस्य दिव्यदेहस्य कर्मिणः । क्षेत्रज्ञबीजपिण्डात्मा निरावरणलक्षणः ॥ ४० ॥ ज्ञानं यदमलं शुद्धं संयच्छत्यात्मलाभदम् ।
नवमः परिच्छेदः २०५ पुनरिममेवार्थं सहेतुकं द्रढयन् क्षेत्रक्षेत्रज्ञयोरुभयोरपि भगवद्रूपत्वात् क्षेत्रस्यैव भोगमोक्षप्रदत्वं क्षेत्रज्ञभूतस्य बीजपिण्डान्यतरस्य तु मोक्षसाधकज्ञानप्रदत्वं चाह— यस्मादिति सपादैस्त्रिभिः । व्याप्यव्यापकरूपेण = क्षेत्रक्षेत्रज्ञरूपेणेत्यर्थः । निरावरण- लक्षणो व्यापकरूप इत्यर्थः ॥ ३८-४१ ॥ वह सर्वेश्वर भगवान् व्याप्य रूप से समस्त भूलोक से ‘भोग से आरम्भ कर षाड्गुण्य महिमा पर्यन्त समस्त उत्तम फल प्रदान करते हैं । भोग से खिन्न दिव्य देह वाले संसारी मनुष्यों के लिये वह क्षेत्रज्ञ, बीज, पिण्डात्मा एवं निरावरण लक्षण अर्थात् व्यापक स्वरूप वाले अपना पद प्रदान कर देते हैं और आत्म कल्याण करने वाले निर्मल विशुद्ध ज्ञान को भी देते हैं ॥ ३०-४१ ॥ शक्तिव्यक्तिमयत्वं च जाग्रद्वृत्तेः पदात्मनः ॥ ४१ ॥ एवं संज्ञात्मनः स्वप्नवृत्तेरेकत्वमस्ति च । सुषुप्तिवृत्तेः पिण्डाख्यमन्त्रस्यैव महामते ॥ ४२ ॥ बीजात्मनस्तुर्यवृत्तेः शक्तिव्यक्तिवमस्ति वै । जाग्रत्स्वप्नसुषुप्तितुर्यावस्थानां पदसंज्ञापिण्डबीजानां च क्रमेण परस्परं शक्ति- व्यक्तित्वमाह—शक्तीति द्वाभ्याम् ॥ ४१-४३ ॥ व्यक्तिर्ज्ञानफलोपेता नियता यद्यपि स्मृता ॥ ४३ ॥ भगवन्मन्त्रमूर्तीनां तथापि परमात्मनः । आद्यस्य चातुरात्म्यस्य केवलस्याथवा विभोः ॥ ४४ ॥ चतुष्प्रकारं यन्मन्त्रं विद्धि तन्मोक्षभूतिदम् । अतोऽन्यथा यदुद्दिष्टममिश्रं मिश्रमेव हि ॥ ४५ ॥ फलं भाववशाच्चैव तत्तथा विद्धि नान्यथा । यद्यपि बीजादिभगवन्मन्त्रव्यक्तेर्ज्ञानप्रदत्वं भोगमोक्षफलप्रदत्वं च नियमेनोक्तम्, तथापि तत्सुषुप्तिव्यूहादिमन्त्रव्यक्तिविषयम्, परमन्त्राणां तु चतुर्विधानामपि मोक्षप्रदत्व- मेवेत्याह—व्यक्तिरिति त्रिभिः । आद्यस्य चातुरात्म्यस्य = तुर्यव्यूहस्येत्यर्थः । केवलस्य विभोः = परात्परस्येत्यर्थः । अतोऽन्यथा यदुद्दिष्टं = सुषुप्तिव्यूहादि- क्रमेणोक्तं मन्त्रजातमित्यर्थः । अमिश्रं फलं केवलमोक्षमित्यर्थः । मिश्रं फलं भोग- सहितं मोक्षमित्यर्थः । भाववशात् तत्तदभिसन्ध्यनुसारेणेत्यर्थः । ददातीति शेषः । एवं च द्वितीयपरिच्छेदोक्तस्य परमन्त्रस्य पदमन्त्रत्वेऽपि मुख्यतो मोक्षप्रदत्वात्, अत एव तन्मन्त्रस्य योगिभिरूपास्यत्वेन पूर्वमुक्तत्वाच्चेदानीं संज्ञापदमन्त्रसामान्यस्य भोगप्रदातृ- त्वोक्तिर्विरुद्ध्येतेत्यभिप्रायेणैवं विषयव्यवस्था कृतेति बोध्यम् ॥ ४३-४६ ॥ जाग्रत्, स्वप्न, सुषुप्ति एवं तूर्य अवस्था वाले पद, संज्ञा, बीज एवं पिण्ड मन्त्रों में क्रम से परस्पर शक्ति की व्यक्ति होती है । इस प्रकार संज्ञा वाले मन्त्र और
२०६ सात्वतसंहिता स्वप्न वृत्ति में एकता है। हे महामते ! इसी प्रकार सुषुप्ति वृत्ति और पिण्डात्म मन्त्र में एकता है। बीज मन्त्र और तुर्यवृत्ति में भी शक्ति का व्यक्तित्व है ॥ ४१-४३ ॥ यद्यपि बीजादि भगवन् मन्त्र में ज्ञान प्रदत्व, भोग-मोक्ष फलप्रदत्व नियम- पूर्वक कहा गया है तथापि सुषुप्ति आदि अवस्था व्यूहादि मन्त्रव्यक्ति के विषय हैं। आद्य चातुरात्म्य (तुर्य व्यूह) केवल विभु (परात्पर) इनके जो चार प्रकार के मन्त्र हैं वे मोक्ष और भूति दोनों प्रदान करते हैं। इसके अतिरिक्त सुषुप्तिव्यूहादि क्रम से कहे गये जो मन्त्र समूह हैं वे भावना के अनुसार अमिश्र (केवल मोक्ष) और मिश्र भोग सहित मोक्ष देने वाले हैं ॥ ४३-४५ ॥ ज्ञात्वैवमर्चयेत् पश्चान्नानामन्त्रैर्महामते ॥ ४६ ॥ गौणमुख्यादिगुह्यैस्तु प्रादुर्भावगणं विभोः । एवं तत्तन्मन्त्रफलभेदादिज्ञानपूर्वकं भगवदर्चनं कुर्यादित्याह—ज्ञात्वेति । प्रादु- र्भावगणं वक्ष्यमाणपद्मनाभाद्यवतारसमूहमित्यर्थः ॥ ४६-४७ ॥ अतः, हे महामते ! गौण मुख्यादि गुह्य स्वरूपों से, वक्ष्यमाण पद्मनाभादि अवतार समूहों का तथा तत्तन्मन्त्र फल भेदादि का ज्ञान कर अनेक प्रकार के मन्त्रों से महाज्योति स्वरूप उस चातुरात्मा की पूजा करे ॥ ४६-४७ ॥ महाज्योतिस्वरूपस्य सह वै चतुरात्मना ॥ ४७ ॥ प्राग् जाग्रत्पदसंस्थस्य लेशेनोक्तं तदर्चनम् । इदानीं सविशेषेण मन्त्रध्यानक्रियान्वितम् ॥ ४८ ॥ प्रवक्ष्यामि समासेन शृणुष्वायतलोचन । परेण भगवता सह जाग्रद्व्यूहस्यार्चनं पूर्वं संग्रहेणोक्तम्, इदानीं सविशेषं वक्ष्यामीत्याह—महाज्योतिरिरिति द्वाभ्याम् । महाज्योतिस्वरूपस्य परस्येत्यर्थः । चतु- रात्मना सह वासुदेवादिचातुरात्म्येन सहेत्यर्थः । “स्वमूर्तिभिरमूर्ताभिरच्युताद्याभिर- न्वितः” (२।७२) इति तत्रापि चातुरात्म्यमुक्तं हि । जाग्रत्पदसंस्थस्य जाग्रद्व्यूह- स्येत्यर्थः । प्राक् पूर्वम्, तदर्चनं तथाविधमर्चनम्, लेशेनोक्तं द्वितीयपरिच्छेदे मानसा- र्चनम्, षष्ठपरिच्छेदे बाह्यार्चनं चोक्तमित्यर्थः ॥ ४७-४९ ॥ पहले जाग्रत्पदस्थ की पूजा के विषय में लेश मात्र अर्चन कहा गया है। अब यहाँ मन्त्र, ध्यान एवं क्रियापूर्वक विशेष रूप से तथा समास रूप से भी कहते हैं—हे आयतलोचन उसे आप सुनिये ॥ ४८-४९ ॥ (द्र. द्वितीय परिच्छेद एवं षष्ठ परिच्छेद) भगवतः प्रादुर्भावरीतिकथनम् विशाखयूपो भगवान् स्वयं विश्वसिसृक्षया ॥ ४९ ॥ अध्यक्षेण स्वरूपेण समुदेत्येक एव हि ।
नवमः परिच्छेदः २०७ महिमानं तु निश्शेषं शुद्धसंवित्पुरस्सरम् ॥ ५० ॥ आदायाद्यपदस्थस्य चातुरात्म्यस्य वै विभोः । आदौ सकलविभवदेवानामाधिपतेर्विशाखयूपसंज्ञस्य भगवतः प्रादुर्भावरीतिमाह —विशाखयूप इति द्वाभ्याम् । आद्यपदस्थस्य चातुरात्म्यस्य (च?) तुर्यव्यूहस्य । शुद्धसंवित्पुरस्सरं महिमानमादाय व्यूहविभवावतारसाधनोपकरणं संगृह्येत्यर्थः । एव- मेवोपबृंहितं जगज्जनन्यपि— तुर्याद्यस्वप्नपर्यन्ते चातुरात्म्यादिके हि यत् ॥ तत्तदैश्वर्यसम्पन्ने षाड्गुण्यं सुव्यवस्थितम् । तदादायाखिलं दिव्यं शुद्धसंवित्पुरस्सरम् ॥ विभजत्यात्मनात्मानं वासुदेवादिपूर्वकः । (लक्ष्मी० ११।१५-१७) इति ॥ ४९-५१ ॥ विशाखयूप भगवान्, जो समस्त विभवदेवों के अधिपति हैं, विश्व सिसृक्षा के लिये अध्यक्ष स्वरूप में अकेले अग्र पदस्थ चातुराम्य विभु के शुद्ध संवित् पुरः सर महिमा तथा व्यूह विभवावतार के समस्त उपकरणों को अपने साथ लेकर उदित होते हैं ॥ ४९-५१ ॥ तदुपकरणानां विवरणम् तथा चाधारभूयिष्ठदेवानां चेष्टितं हि यत् ॥ ५१ ॥ सितादयः कान्तयोऽथ श्र्यादिकं च महामते । सलाञ्छनं वैभवीयं सायुधं बीजमेव तु ॥ ५२ ॥ ज्ञानाद्यं गुणषट्कं च तदुक्ताः शक्तयोऽखिलाः । अणिमाद्यष्टकं चैव स्थित्युत्पत्तिलयोदयाः ॥ ५३ ॥ शक्तिः सा चातुरात्मीया त्वैश्वरीत्यभिधीयते । तदुपकरणानां विवरणमाह—तथा चेति त्रिभिः । श्र्यादिकं श्रीदेव्यादिकं शक्ति- जालमित्यर्थः । एषां सर्वेषामपि षाड्गुण्यमयत्वमुक्तं लक्ष्मीतन्त्रे— परादिविभवान्तानां सर्वेषां देवतात्मनाम् । शुद्धषाड्गुण्यरूपाणि वपूंषि त्रिदशेश्वर ॥ यावन्त्यस्त्राणि देवानां चक्रशङ्खादिकानि वै । भूषणानि विचित्राणि वासांसि विविधानि च ॥ ध्वजाश्च विविधाकाराः कान्तयश्च सितादिकाः । वाहनानि विचित्राणि सत्याद्यानि सुरेश्वर ॥ शक्तयो भोगदाश्चैव विविधाकारसंस्थिताः । आन्तःकरणिको वर्गस्तदीया वृत्तयोऽखिलाः ॥ यच्च यच्चोपकरणं सामान्यं पुरुषान्तरैः ।
२०८ सात्वतसंहिता षाड्गुण्यनिर्मितं विद्धि तत्सर्वं बलसूदन ॥—(१९।३२-३६) इति ॥ ५१-५४ ॥ अब महात्मा विशाखयूप के समस्त उपकरणों को कहते हैं—वे भगवान् विशाखयूप उन आद्य पदस्थ चातुराम्य के तथा आधार में रहने वाले सभी देवताओं की सेवा के साथ उदीयमान हुए हैं। उनके साथ श्री आदि शक्तियों का समूह, लाञ्छन सहित तथा सायुध सितादि कान्तियाँ बीज एवं ज्ञानादि षाड्गुण्य तथा उनमें रहने वाली समस्त शक्तियाँ, अणिमादि समस्त सिद्धियाँ तथा स्थिति, उत्पत्ति, लय तथा उदय नाम वाली चातुरात्मीया शक्तियाँ, जिसे ईश्वरी शक्ति कहा जाता है, ये सभी उनके उपकरण थे ॥ ५१-५४ ॥ यथार्ककिरणव्रातं त्यक्त्वा तेजःकणो महान् ॥ ५४ ॥ स्वकारणं विना सर्वमापूरयति गोचरम् । स्वातन्त्र्यात् परिपूर्णत्वात् तद्वत् स परमेश्वरः ॥ ५५ ॥ विहाय वासुदेवाद्यं मूर्तिशाखाचतुष्टयम् । वैभवीयस्य यूथस्य पतित्वेनावतिष्ठते ॥ ५६ ॥ सम्भूतिस्थितिसंहारभोगकैवल्यलक्षणम् । प्रेरयन् वै धिया चक्रं पञ्चारमिदमुत्तमम् ॥ ५७ ॥ सूर्यतेजःकणदृष्टान्तपूर्वकं तस्य विशाखयूपस्यैव विभवदेवताधिपत्यमाह— यथे-त्यादिभिः सार्धैः (षड्भिः?त्रिभिः) । एवमेवोपबृंहितं लोकमात्रापि— पुनर्विभववेलायां विना मूर्तिचतुष्टयम् ॥ विशाखयूप एवैष विभवान् भावयत्युत । इति । —(लक्ष्मी० १९।१७-१८) ननु भवता प्रथमपरिच्छेदव्याख्यानप्रकरणे विभवदेवानामनिरुद्धोत्पन्नत्वमुक्तम्, इदानीं विशाखयूपस्य तत्कारणत्वमुच्यते । कथमुभयोरविरोध इति चेत्, सत्यम् । उभयोरभेदेनाविरोधो बोध्यः ॥ ५४-५७ ॥ जिस प्रकार सूर्य की किरणों के समूह को छोड़कर महान् तेजःकण अपने कारण के बिना भी सभी गोचर जगत् को अपने वैभव से पूर्ण कर देता है, उसी प्रकार वह विशाखयूप भगवान् भी वासुदेवादि मूर्त्ति शाखा चतुष्टय को छोड़कर स्वतन्त्र एवं परिपूर्ण होने से वैभवीय यूप के अधिपति होकर स्थित हो जाते हैं। वे अपनी बुद्धि से, जगत् की संभूति, स्थिति, संहार, भोग एवं कैवल्य प्रदान करने वाले इस उत्तम चक्र को प्रेरित करते हैं ॥ ५४-५७ ॥ स्मर्त्तव्यः स्वपदस्थः स स्वबीजेनामलात्मना । आमूर्धतोऽङ्घ्रिपर्यन्तं तदीयं गात्रमण्डलम् ॥ ५८ ॥
नवमः परिच्छेदः २०९ रत्नवद् वैभवीयैस्तु बीजैर्भाव्यमलङ्कृतम् । क्रमादुच्चार्यमाणैस्तैरमृतौघेन पूर्ववत् ॥ ५९ ॥ पूजनात् परमेशत्वमचिरादेव गच्छति । विशाखयूपस्य तद्बीजेन स्वपदे ध्यानम्, पद्मनाभादिबीजैस्तदीयगात्रालङ्करण- ध्यानम्, तदर्चनफलं चाह—स्मर्त्तव्य इति सार्धद्वाभ्याम् ॥ ५८-६०॥ अतः उन विशाखयूप का उनके अमलात्मा बीज से ध्यान करे । पद्मनाभादि बीज से अलङ्कृत तथा वैभवीय रत्न बीज से जड़ित शिर से लेकर पाद पर्यन्त उनके गात्र का ध्यान करे । उन अमृत समूह बीजों का उच्चारण करने मात्र से तथा पूजन करने से वह साधक थोड़े ही दिनों में परमेश्वर को प्राप्त कर लेता है ॥ ५८-६० ॥ शृणु तद्बीजनिचयं सावधानेन चेतसा ॥ ६० ॥ तत्प्रसादात् परां सिद्धिं प्रयान्ति भगवन्मयाः । शुचौ देशे मनोज्ञे च सुलिप्ते पुष्पभूषिते ॥ ६१ ॥ चन्दनक्षोदसंयुक्ते सुधूपेनाधिवासिते । विलिख्य मातृकाचक्रं भेदेनानेन वै पुनः ॥ ६२ ॥ येन सन्दृष्टमात्रेण शतधा याति कल्मषम् । प्रागादौ पञ्चवर्गान्तं मध्यान्तं मध्यतो लिखेत् ॥ ६३ ॥ यादयो नव नाभिस्था आदयः षोडशारगाः । कादयो नेमिगाः सर्वे पूर्वचक्रे यदक्षगम् ॥ ६४ ॥ तदस्मिन् प्रधिभूतं तु पूजयेद् विधिना ततः । शब्दब्रह्ममयं चक्रमर्घ्यपुष्पादिकैः क्रमात् ॥ ६५ ॥ विभवदेवबीजोद्धरणार्थं वर्णचक्ररचनां तदर्चनं चाह—शृण्विति सार्धैः पञ्चभिः । वर्गान्ता ङकारञकार णकारनकारमकारा इत्यर्थः । यादयो नव यका- रादिक्षकारान्ताः । पूर्वचक्रे द्वितीयपरिच्छेदोक्ते चक्रे । अक्षगं यद्वर्णं प्रणव इत्यर्थः ॥ ६०-६५ ॥ हे सङ्कर्षण ! अब उन बीज समूहों को सावधान चित्त होकर सुनिए, जिसके वृक्ष से वैष्णव साधक भगवन्मय शीघ्र सिद्धि प्राप्त कर लेते हैं । किसी पवित्र प्रदेश में जो मनोज्ञ हो, उपलिप्त हो, पुष्पों से भूषित हो, चन्दन के जल से उक्षिप्त हो, सुन्दर धूप से धूपित हो इस प्रकार के स्थान पर भेद सहित मातृका चक्र लिखे । जिसके दर्शन मात्र से पाप खण्ड-खण्ड हो जाते हैं ॥ ६०-६१ ॥ वर्गान्त ङकार, ञकार, णकार, नकार और मकार इन पाँचों वर्गान्तों को पूर्व में लिखे । मध्य में मध्यान्त वर्णों को लिखे । नाभि पर यकारादि नव वर्ण लिखे । अकारादि सोलह स्वर वर्ण अरे पर लिखे । सभी ककारादि वर्णों को नेमि पर लिखे
२१० सात्वतसंहिता और 'पूर्व चक्र से अक्ष पर रहने वाले ॐ वर्ण को प्रधि पर लिखे। फिर शब्द ब्रह्ममय उस चक्र को अर्घ्य पुष्पादिकों से सविधि पूजन करे ॥ ६१-६५ ॥ बीजोद्धारक्रमविधानम् तन्मध्यादुद्धरेदादौ सर्वेषां कारणं हि यत् । उदक्स्थमक्षरं चाक्षादरान्ताद्येन भूषितम् ॥ ६६ ॥ विद्धि सर्वेश्वरस्येदं बीजं निर्बीजकारणम् । एतदेवाब्जनाभस्य विसर्गसहितं स्मृतम् ॥ ६७ ॥ नेमिवर्गाद् द्वितीयं वै ततोऽरात् षष्ठमक्षरम् । अष्टमं नाभिदेशाच्च तत्संख्यं नेमिमण्डलात् ॥ ६८ ॥ नेमिपूर्वमतो नाभेः सप्तमं पञ्चमारगम् । अराच्चतुर्दशं त्वक्षात् पश्चिमाशागतं हि यत् ॥ ६९ ॥ नेमेरेकादशं चाथ षोडशं च त्रयोदशम् । पञ्चमं नाभिदेशाच्च नेमेरेकोनविंशकम् ॥ ७० ॥ तदन्तं सप्तमं चैव नवमं हि महामते । नाभेस्तृतीयं तदनु नेमेस्तत्संख्यमेव च ॥ ७१ ॥ द्वादशं च बहिष्ठेभ्यो दशमं षोडशात् परम् । नाभिपूर्वं ततो वर्णं नेमेः पञ्चदशं हि यत् ॥ ७२ ॥ तुर्यसंख्यमराद्बीजं ततो नाभिचतुर्थकम् । षष्ठं नेमेरुतूर्थं च मध्यमक्षात् तथा हरेत् ॥ ७३ ॥ तत्रैव पूर्वदिक्स्थं यद् बाह्याद्वै पञ्चमं ततः । अक्षाद् दक्षिणदिक्संस्थं नेमेरष्टादशं ततः ॥ ७४ ॥ द्वितीयं नाभिदेशाच्च तदन्ते सप्तमारगम् । चतुर्दशमतो नेमेः षष्ठं नाभेरथाहरेत् ॥ ७५ ॥ सर्वे कारणवन्मूर्ध्ना योजनीयाः समासतः । प्रणवाद्या नमोन्ताश्च तेजसातीव निर्भराः ॥ ७६ ॥ बीजोद्धारक्रममाह—'तन्मध्यादित्यारभ्य' तेजसाऽतीव निर्भरा इत्यन्तम् । अक्षाद् उदक्स्थमक्षरं नकारमुद्धृत्य, अरान्ताद्येनानुस्वारेण भूषितं कुर्यात् । तथा च नमिति प्रयोगः । इदं सर्वेश्वरस्य विशाखयूपस्य बीजम् । एतदेव विसर्गसहितं चेद् अब्जनाभस्य बीजं भवति । ध्रुवबीजं तु नेमिवर्गाद् द्वितीयं खकारः । अनन्तबीजं तु अरात् षष्ठमक्षरम् ऊकारः । एवं क्रमेण अष्टमनाभेरथाहरेदिति पातालशयन- बीजान्तमर्थो बोध्यः ।
नवमः परिच्छेदः २११ सर्वे बीजाः कारणवत् पूर्वोक्तविशाखयूपवत्, मूर्ध्ना अनुस्वारेण योजनीयाः । प्रणवाद्या नमोन्ताश्च ज्ञेयाः । तथा चैषां प्रयोगः— ॐ नं नमः, ॐ खं नमः, ॐ ऊं नमः, ॐ हं नमः, ॐ टं नमः, ॐ कं नमः, ॐ सं नमः, ॐ उं नमः, ॐ औं नमः, ॐ णं नमः, ॐ डं नमः, ॐ यं नमः, ॐ तं नमः, ॐ शं नमः, ॐ नं नमः, ॐ अं नमः, ॐ जं नमः, ॐ टं नमः, ॐ लं नमः, ॐ गं नमः, ॐ ढं नमः, ॐ ठं नमः, ॐ पं नमः, ॐ यं नमः, ॐ दं नमः, ॐ रं नमः, ॐ वं नमः, ॐ लं नमः, ॐ धं नमः, ॐ मं नमः, ॐ ङं नमः, ॐ चं नमः, ॐ अं नमः, ॐ फं नमः, ॐ रं नमः, ॐ ऋं नमः, ॐ थं नमः, ॐ षं नमः । इत्यष्टत्रिंशद् बीजानि ॥ ६६-७६ ॥ अब बीजोद्धार का क्रम कहते हैं—तन्मध्यात् ...... तेजसाऽतीव दुर्भराः (९.६६-७६) अक्षात् उदवस्थमक्षरं अर्थात् नकार । इन्हें अनुस्वार से भूषित करे नं यह सर्वेश्वर विशाख का बीज हुआ । इसी को जब विसर्ग सहित कर दिया जाय तब अब्जनाभ का बीज हो जायगा । ध्रुव बीज नेमि वर्ग से द्वितीय (खकार) है । (ॐ खं नमः) अनन्तबीज अर से षष्ठाक्षर अकार ॐ अं नमः । इसी क्रम से पातालशयन बीजान्त बीजों का आहरण करे । इन सभी बीजाक्षरों को (पूर्वोक्त विशाखयूप के समान) मूर्ध्ना अनुस्वार से युक्त करना चाहिये । मन्त्र का स्वरूप इस प्रकार है—ॐ नं नमः (१), ॐ खं नमः (२), ॐ ऊं नमः (३), ॐ हं नमः (४), ॐ टं नमः (५), ॐ कं नमः (६), ॐ सं नमः (७), ॐ उं नमः (८), ॐ औं नमः (९), ॐ णं नमः (१०), ॐ डं नमः (११), ॐ यं नमः (१२), ॐ तं नमः (१३), ॐ शं नमः (१४), ॐ नं नमः (१५), ॐ अं नमः (१६), ॐ जं नमः (१७), ॐ टं नमः (१८), ॐ लं नमः (१९), ॐ गं नमः (२०), ॐ ढं नमः (२१), ॐ ठं नमः (२२), ॐ पं नमः (२३), ॐ यं नमः (२४), ॐ दं नमः (२५), ॐ रं नमः (२६), ॐ वं नमः (२७), ॐ लं नमः (२८), ॐ धं नमः (२९), ॐ मं नमः (३०), ॐ ङं नमः (३१), ॐ चं नमः (३२), ॐ अं नमः (३३), ॐ फं नमः (३४), ॐ रं नमः (३५), ॐ ऋं नमः (३६), ॐ थं नमः (३७), ॐ षं नमः (३८) । ये ३८ बीजाक्षर हैं ॥ ६६-७६ ॥ पद्मनाभादयो देवा वाच्यास्तेषां क्रमेण तु । पद्मनाभो ध्रुवोऽनन्तः शक्त्यात्मा मधुसूदनः ॥ ७७ ॥ विद्याधिदेवः कपिलो विश्वरूपो विहङ्गमः । क्रोडात्मा वडवावक्त्रो धर्मो वागीश्वरस्तथा ॥ ७८ ॥ देव एकार्णवशियः कूर्मः पातालधारकः । वाराहो नरसिंहश्चाप्यमृताहरणस्तु वै ॥ ७९ ॥
२१२ सात्वतसंहिता श्रीपतिर्दिव्यदेहोऽथ कान्तात्माऽमृतधारकः । राहुजित् कालनेमिघ्नः पारिजातहरो महान् ॥ ८० ॥ लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः । न्यग्रोधशायी भगवानेकशृङ्गतनुस्ततः ॥ ८१ ॥ देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः । नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ ८२ ॥ ज्वलत्परशुधृग् रामो रामश्चान्यो धनुर्धरः । वेदविद् भगवान् कल्की पातालशयनः प्रभुः ॥ ८३ ॥ प्रादुर्भावगणो मुख्य इत्युक्तस्ते समासतः । एषां वाच्यान् पद्मनाभाद्यष्टत्रिंशद्देवान् क्रमेणाह—‘पद्मनाभादय’ इति प्रक्रम्य ‘इत्युक्तस्ते समासतः’ इत्यन्तम् । देव इति पदमेकार्णवशायस्य विशेषणम् । पाताल- धारक इति कूर्मविशेषणम् । दिव्यदेह इति श्रीपतिविशेषणम् । अमृतधारक इति कान्तात्मनो विशेषणम् । महानिति पारिजातहरस्य विशेषणम् । शान्तात्मेति लोक- नाथस्य विशेषणम् । महाप्रभूरिति दत्तात्रेयस्य विशेषणम् । भगवानिति न्यग्रोधशायिनो विशेषणम् । देव इति वामनस्य, सर्वव्यापीति त्रिविक्रमस्य च विशेषणम् । ज्वल- त्परशुधृगिति रामस्य, धनुर्धर इत्यन्यस्य रामस्य च विशेषणम् । भगवानिति कल्किनः, प्रभुरिति पातालशयनस्य च विशेषणम् । एवं विशेषणविशेष्यमबुद्ध्वा पार- मेश्वरव्याख्याने विमानार्चनप्रकरणे एकशृङ्गतन्वादिषु द्वादशमूर्तिषु, कूर्मादिषु द्वादश- मूर्तिषु च जागरूकास्त्वप्येकशृङ्गादिपातालशयनान्तमेकादश मूर्तयः, कूर्मादिन्यग्रोध- शाय्यन्तमेकादश मूर्तय इति च लिखितम् । अतः सावधानं बोद्धव्यम् । एवं चात्र पद्मनाभादिपातालशयनान्ता अष्टत्रिंशद्विभवदेवा ज्ञेयाः । तथा च लक्ष्मीतन्त्रे—‘‘पद्मनाभो ध्रुवोऽनन्तः’’ (१९।१९) इति प्रक्रम्य ‘‘त्रिंशाच्चाष्टाविमे देवाः पद्मनाभादयो मताः’’ (१९।२५) इत्युक्तम् । अहिर्बुध्न्यसंहितायां तु पञ्चमे- ऽध्याये एवमेव विभवदेवानुक्त्वा ‘‘त्रिंशच्च नव चैवैते पद्मनाभादयो मताः’’ (५।५७) इत्युक्तम्, नैतावता परस्परविरोधः शङ्कनीयः । पद्मनाभादयोऽष्टत्रिंशद्देवाः, तेषा- मधिपतिर्विशाखायूपस्त्वेकः । तेन सहैकोनचत्वारिंशद्देवा इत्यभिप्रायेण ‘‘त्रिंशच्च नव चैवैते’’ (५।५७) इत्युक्तमिति बोध्यम् । यतो विशाखयूपस्य विभवदेवाधिपत्यं पूर्वमेवोक्तम्—‘‘वैभवीयस्य यूथस्य पतित्वेनावतिष्ठते’’ (९।५६) इति । अत एवात्र विशाखयूपपुरस्सरमेकोनचत्वारिंशद्बीजान्युकानि । किञ्च, ध्यानप्रकरणेऽपि— त्रयाणां मुख्यपूर्वाणां ध्रुवान्तानां पुरोदितम् । शेषादीनामशेषाणामिदानीमवधारय ॥ ध्यानं पातालनिलयपर्यन्तानां यथास्थितम् । (१२।३-४) इति विशाखयूपस्यापि विभवदेवैः साहचर्यं वक्ष्यति । ननु—‘‘पद्मनाभो ध्रुवो- ऽनन्तः’’ (५।५०) इति प्रक्रम्य, ‘‘त्रिंशच्च नव चैवैते पद्मनाभादयो मताः’’
नवमः परिच्छेदः २१३ (५।५७) इति पद्मनाभादीनामेवैकोनचत्वारिंशत्संख्याकत्वेनोक्तत्वादनुक्तविशाखयूप- स्य संख्यापूरणार्थं तत्र संयोजनमनुचितम् । तथा गत्यभावे तद्योजनं कार्यम् । अस्ति च गत्यन्तरम् । तथाहि— “श्रीपतिर्भगवान् देवः” (अहि० ५।५३) इत्यत्र देवशब्देन पौष्करोक्तमन्दरोत्पाटकृद्देवो ग्राह्यः, उभयत्राप्येकरूपदेवशब्दप्रयोगात्, प्रकरणाच्च । पौष्करे हि— मन्दरोत्पाटकृद् देवस्त्वमृताहरणस्तथा । सुधाकलशधृक् चैव वनिताकृतिविग्रहः ॥ भूयो रूपान्तरं चैव राहोश्चिच्छेद मस्तकम् । एवं चतुर्धा भगवान् एष एव महामते ॥ प्रादुर्भावान्तरोपेताः प्रादुर्भावोत्तमोत्तमः । (३६।२१५-२१७) इति मन्दरोत्पाटकृदवतारस्य पार्थक्येन निर्देशः कृत इति चेन्न, अहिर्बुध्न्ये— ‘‘पद्मनाभो ध्रुवोऽनन्तः’’ (५।५०) इति प्रक्रम्य सात्वतोक्तानुपूर्व्या एव पठितत्वात्, ‘‘सात्वते शासने सर्वं तत्तदुक्तं महामते’’ (५।५९) इति पद्मनाभादिलक्षणानां सात्वते द्रष्टव्यत्वेनोक्तत्वाच्चाहिर्बुध्न्यस्थवाक्यानामपि सात्वतानुसारेणैव व्याख्येयत्वात् । सात्वते हि मन्दरोत्पाटकृद् देवो न पृथग् निर्दिष्टः । तस्मात्— आप्तकामः स भगवान् स्वव्यापारवशेन तु ॥ स्वां शक्तिमवलम्ब्यास्ते पद्मनाभात्मना पुनः । (९।९७-९८) इ(ति पूर्वो?त्यु)क्तेः पद्मनाभविशाखयूपयोरभेदात्, अत एवेश्वरपारमेश्वर्यो- रङ्कुरार्पणप्रकरणे—‘‘अब्जनाभं परं चैव पद्मनाभं ध्रुवं तथा’’ (ई० सं० १०।१७४, पा० सं० १५।१५९) इति विशाखयूपस्यापि पद्मनाभशब्देनैव व्यवहृतत्वाच्च, अहि- र्बुध्न्ये—‘‘पद्मनाभो ध्रुवोऽनन्तः’’ (५।५०) इत्यत्र पद्मनाभशब्देनैव विशाखयूपोऽपि संगृहीत इति सूक्ष्मदृष्ट्या बोध्यम् । नन्वहिर्बुध्न्यवाक्यस्यैवं कथञ्चिद् गतिरुक्ता, पद्मनाभादिकाः सर्वे वैभवीयास्तथैव च । षट्त्रिंशत्संख्यासंख्याताः प्राधान्येन गणेश्वर ॥ षट्त्रिंशद्भेदभिन्नास्तु पद्मनाभादिकाः सुराः । अनिरुद्धात् समुत्पन्ना दीपाद्दीप इवेश्वराः ॥ (तत्त्व०, पृ० १३४) इति विष्वाक्सेनसंहितावाक्यस्य का गतिरिति चेत्, तद्गतिकल्पनं तु श्रीमद्रम्य- जामातृमुनिभिरेव तत्त्वत्रयव्याख्याने कृतम् । तथाहि—अहिर्बुध्न्यसंहितोक्तैकोनचत्वा- रिंशद्विभवदेवेषु कपिलदत्तात्रेयजामदग्न्यानां गौणप्रादुर्भावतया मुमुक्षुभिरनर्चितत्वात् तान् विहाय मुमुक्षुभिरर्च्यः पद्मनाभादयो मुख्यप्रादुर्भावाः षट्त्रिंशदिति विष्वाक्सेन- संहितायामुक्तमिति । नन्वेवं गतिकल्पनमज्ञानमूलकम्, यतः—‘‘पद्मनाभो ध्रुवोऽनन्तः’’ (५।५०) इत्यहिर्बुध्न्योक्तानुपूर्व्यां स्थितस्य वेदविच्छब्दस्य वेदव्यासोऽर्थ इति रम्यजामातृमुनिभिर्न ज्ञातम्, तस्य वेदव्यासपरत्वनिर्णायकसहस्रनामभाष्यवाक्यमपि नाधीतमिति चेत्, किमरे मूढाग्रगण्य! तेषामाचार्याणामाशयमविदित्वा दूषयसि—
२१४ सात्वतसंहिता कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यो भुवि मैत्रेय महाभारतकृद् भवेत् ॥ (विष्णु० ३।४।५) इत्युक्तमहामहिम्नि सूत्रकृति श्रीकृष्णद्वैपायने साक्षाद् भगवदवतारत्वमेव तेषा- मभिमतम् । नुन तर्हि व्यासस्यावेशावतारत्वं मुमुक्षुभिरनुपास्यत्वं च तैरेव कथमुक्तमिति चेत्, सत्यम् । न तत् कृष्णद्वैपायनविषयम्, अपि तु विष्णुपुराणोक्ताष्टाविंशतिसंख्याक- व्यासान्तरविषयम् । ननु च सहस्रनामभाष्ये—‘तत्र प्रादुर्भावाः केचित् साक्षात्, यथा मत्स्यकूर्मादयः। अन्ये तु ऋष्यादिविशिष्टपुरुषाधिष्ठानेन, यथा भार्गवरामकृष्णद्वैपायनादयः’ (पृ० १८२) इति कृष्णद्वैपायनस्यैवावेशावतारत्वमुक्तम्, तस्य का गतिरित चेत्, तच्च कल्पभेदेनावतीर्णद्वैपायनविषयं बोध्यम्, अन्यथा आचार्योक्तिविरोधात् । यथा तत्त्व- त्रयव्याख्याने बुद्धस्य साक्षादवतारत्वमाचार्यहृदये प्रतिपादितम् । विष्वक्सेनंसंहितादिषु तस्यावेशावतारत्वमुक्तम् । उभयोर्विरोधः कल्पभेदेन परिहरणीय इति व्याख्यातम्, तद्वदिहापीति सन्तोष्टव्यमायुष्मता । ननु ‘‘प्रादुर्भावगणो मुख्यः’’ (९।८४) इति पद्मनाभाद्यष्टत्रिंशद्देवानामपि मुख्यप्रादुर्भावत्वमुक्तम्, तदन्तःपातिकपिलादीनां गौणत्वं कथं वक्तुं शक्यमिति चेत्, ब्रूमः—अत्र ‘‘प्रादुर्भावगणो मुख्य’’ (९।८४) इत्यत्र स्थितो मुख्यशब्दो विष्वक्सेन- संहितोक्तो मुख्यशब्दश्च न समानार्थकः, यतो विष्वक्सेनंसंहितायाम्— प्रादुर्भावो द्विधा प्रोक्तो गौणमुख्यविभेदतः । मदिच्छया हि गौणत्वं मनुष्यत्वमिवेच्छया ॥ सूकरत्वं च मत्स्यत्वं नारसिंहत्वमेव च । यथा वा दण्डकारण्यॆ कुब्जाम्रत्वं ममेच्छया ॥ यथा वाजिमुखत्वं च मम संकल्पतो भवेत् । सेनापते ममेच्छातो गौणत्वं न च कर्मणा ॥ प्रादुर्भावास्तु मुख्या ये मदंशत्वाद् विशेषतः । अजहत्स्वभावविभवदिव्याः प्राकृतविग्रहाः ॥ दीपाद् दीप इवोत्पन्ना जगतो रक्षणाय ते । अर्च्या एव हि सेनेश अनर्च्यदितरान् विदुः ॥ अनर्च्यानपि वक्ष्यामि प्रादुर्भावान् यथाक्रमम् । चतुर्मुखस्तु भगवान् सृष्टिकार्ये नियोजितः ॥ शङ्कराख्यो महारुद्रः संहारे विनियोजितः । मोहनाख्यस्तथा बुद्धो व्यासश्चैव महानृषिः ॥ वेदानां व्यसने तत्र देवेन विनियोजितः । अर्जुनो धन्विनां श्रेष्ठो जामदग्न्यो महानृषिः ॥ वसूनां पावकश्चापि वित्तेशश्च तथैव च । एवमाद्यास्तु सेनेश प्रादुर्भावैरधिष्ठिताः ॥
नवमः परिच्छेदः २१५ जीवात्मानः सर्व एते नोपास्तिर्वैष्णवी हि सा । आविष्टमात्रास्ते सर्वे कार्यार्थममितद्युते ॥ अनर्थ्याः सर्व एवैते विरुद्धत्वान्महामते । अहङ्कृतियुताश्चैव जीवमिश्रा ह्याधिष्ठिताः ॥ -(तत्त्व० पृ० १३०-१३२) इत्यादिभिर्मुख्यः साक्षादवतारः, गौणस्त्वावेशावतार इति प्रतिपादितम् । अत्र तु साक्षादवतारानावेशावतारांश्च सह पठित्वा प्रादुर्भावगणो मुख्य इत्युभयेषामपि मुख्य- प्रादुर्भावत्वप्रतिपादनादुभयसाधारणप्रसिद्धत्वमेव मुख्यशब्दार्थः, न तु साक्षादवतारत्व- मिति बोध्यम् । किञ्च, "प्रादुर्भावगणो मुख्य इत्युक्तस्ते समासतः" (९।८४) इत्यत्र प्रादुर्भाव- शब्देन मुख्यप्रादुर्भावा गौणप्रादुर्भावाश्च यथा संगृहीताः, तथा प्रादुर्भावान्तराण्युपि संगृहीतानि बोध्यानि, त्रिविक्रमादीनां प्रादुर्भावान्तरत्वात् । प्रादुर्भावान्तरं नाम तत्त- दवताराणामवान्तरभेदाः । तथा च पौष्करे- स्वभावमजहच्छश्वदाकारान्तरमाकृतेः । यत्तदंशसमुद्भूतं प्रादुर्भावान्तरं तु तत् ॥ इति । (३६।२०१-२०२) कण्ठरवेण च प्रतिपादितास्तत्रैव- तथा वामननाथेन खर्वमूर्तिधरेण च । स्नातकब्रह्मचारीयलाञ्छनेर्लाञ्छितेन च ॥ तस्य रूपान्तरेणैव सुखानां सुखदेन च । त्रिविक्रमाख्यसंज्ञेन त्रैलोक्याक्रान्तमूर्तिना ॥ (३६।१९६-१९८) इत्यादिभिः । विष्वक्सेनंसंहितायां चैवमेवोक्तम्- पूर्वोत्पन्नाद् वैभवीयात् प्रादुर्भूता महेश्वराः । प्रादुर्भावान्तरान् विद्धि तान् गणेश्वर मुख्यतः ॥ उपेन्द्राच्च यथा मुख्यात् त्रिविक्रमतनुर्हरिः । (तत्त्व०, पृ० १३५) इत्यादिभिः । लक्ष्मीतन्त्राहिर्बुध्न्यसंहितयोस्त्वावेशावताराणां प्रादुर्भावान्तरत्व- मुक्तम्- आविश्याविश्य कुरुते यत्र देवनरादिकम् । जगद्धितं जगन्नाथस्तज्ज्ञेयं विभवान्तरम् ॥ -इति, (लक्ष्मी० ४।३०) विभवान्तरसंज्ञं तद् यच्छक्त्यावेशसंभवम् । -इति च । (अहि० ८।५१) वस्तुतस्तु "प्रादुर्भावगणो मुख्य इत्युक्तस्ते समासतः" (९।८४) इति पद्म- नाभादीनां मुख्यत्वोक्त्या तदन्येऽमुख्या विभवावतारा बहवः सन्तीति ज्ञायते । अत्र श्रीकृष्णस्य पारिजातहरणशब्देनोक्तत्वात् तदनुक्तिर्न शङ्कनीया ।
२१६ सात्वतसंहिता ननु “नरो नारायणश्चैव हरिः कृष्णस्तथैव च” (९।८२) इति कृष्णास्तूच्यत एव, तदनुक्तिः केनोच्यत इति चेन्न, यतोऽत्र प्रतिपादितः कृष्णो न वसुदेवात्मजः, अपि तु धर्मात्मज इति बोध्यम् । तथा च पौष्करे— धर्मात्मा भगवान् विष्णुः प्रादुर्भावं च शाश्वतम् । प्रादुर्भूतं हि वै यास्मान्नराद्यं कृष्णपश्चिमम् ॥ इति । (३६।२०७) ननु चात्र केवलकृष्णशब्दस्योक्तत्वाद् वसुदेवपुत्रः प्रसिद्धः कृष्ण एव स्यादिति चेन्न, साहचर्यविरोधाद् वक्ष्यमाणध्यानविरोधाच्च । किञ्च, अत्रानन्तस्योक्तत्वाद् बल- भद्रलक्ष्मणावप्युक्तप्रायाविति बोध्यम् । अनन्तः प्रथमं रूपं लक्ष्मणश्च ततः परम् । बलभद्रस्तृतीयस्तु कलौ कश्चिद् भविष्यति ॥ इति प्रसिद्धेः । ननु भगवदवतारमध्ये शेषावतारयोर्बलभद्रलक्ष्मणयोः कथनं कस्यापेक्षितमिति चेन्न, शेषस्यैव भगवतारत्वात् । अत एवात्र—“पद्मनाभो ध्रुवोऽनन्तः” (९।७७) इत्यनन्तस्याप्युक्तत्वाच्च । ननु तर्हि मत्स्याद्यवतारदशकेऽप्यन्तर्भूतस्य बलभद्रस्यास्मिन् पद्मनाभाद्यष्टत्रिंशा- वतारगणे कथमप्रतिपादनमिति चेत्, सत्यम् । यथा श्रीरामस्योक्त्या लक्ष्मणाद्यास्त्र- योऽप्युक्तप्रायाः, तथा पारिजातहरस्योक्त्या तद्भ्रातृपुत्रपौत्राः सङ्कर्षणप्रद्युम्नानिरुद्धा अप्युक्तप्राया इति बोध्यम् । ननु किं प्रद्युम्नानिरुद्धयोरपि भगवदतारान्तर्गतत्वमङ्गीक्रियत इति चेत्, निः- संशयमङ्गीक्रियते । ननु तर्हि पुराणार्थानभिज्ञोऽसि, श्रीभागवते दशमस्कन्धे— कामस्तु वासुदेवांशो दग्धः प्राग् रुद्रमन्युना । देहोपपत्तये भूयस्तमेव प्रत्यपद्यत ॥ (१०।५५।१) इत्यत्र मुनिभावप्रकाशिकाख्यायां व्याख्यायाम्—“वासुदेवांश इति विशेषणम् । अनेन भाविजन्मप्रभृति सम्बन्ध उक्तः । न(नु?तु) चतुर्व्यूहेष्वयं तृतीयव्यूह उच्यते, नाम- साम्यं तु तद्विभूतित्वनिबन्धनमिति विवेकः । वासुदेवाधिष्ठितचित्तप्र(भा प्र)त्वाद् वासुदेवांशस्तत्सृष्टिहेतुत्वाद्वो” इति व्याख्यातम् । अतः प्रद्युम्नानिरुद्धयोर्भगवदवतार- त्वं न संभवतीति चेन्न, यतस्तद्व्याख्यातृभिः सहस्रनामभाष्यादिकं कदापि न दृष्टम् । भगवच्छास्त्रमपि न श्रुतम् । सहस्रनामभाष्ये हि—“कृष्णात्वेऽप्यजहद्वासुदेवादिचतु- र्मूर्तित्वादिति विभवेऽपि तन्मूलव्यूहं प्रत्यभिज्ञापयति—चतुर्मूर्तिः । बलभद्रवासुदेव- प्रद्युम्नानिरुद्धाश्चतस्रो मूर्तयो यदुकुलेऽप्यस्येति व्यूहमूलेन निरूपाधिकपररूपेण देवक्यामवततार” (पृ०६५८-६५९) इति, “अत्रापि तथैव समस्तव्यस्तषाड्गुण्या- वस्थत्वाच्चतुर्व्यूहः” (पृ० ६६०) इति च प्रद्युम्नानिरुद्धयोरपि भगवदवतारत्वमस- कृदुक्तम् । भगवच्छास्त्रेऽपि लक्ष्मीतन्त्रे— अवतारो हि यो विष्णोश्चतुर्धा संभविष्यति ।
नवमः परिच्छेदः २१७ मधुरायामहं व्यक्तिं चतुर्धैष्यामि वै तथा ॥ रेवती रुक्मिणी चैव रतिर्नाम्ना तथाप्युषा । (८।४५-४६) इति बलभद्रादीनां चतुर्णामपि भगवदवतारत्वं सुस्पष्टं प्रतिपादितम् । अलं प्रसक्तानुप्रसक्त्या ॥ ७७-८४ ॥ अब इनके वाच्य अड़तीस पद्मनाभादि देवताओं के नाम कहते हैं—पद्मनाभ, ध्रुव, अनन्त, शक्त्यात्मा, मधुसूदन, विद्याधिदेव, कपिल, विश्वरूप, विहङ्गम, क्रोडात्मा (१०), वडवावक्त्र, धर्म, वागीश्वर, देव एकार्णवशाय, पातालधारक कूर्म, वाराह, नरसिंह, अमृताहरण, दिव्य देह श्रीपति, अमृतधारककान्तात्मा (२०), राहुजित्, कालनेमिघ्न, महान् पारिजातहर, शान्तात्मा, लोकनाथ, महाप्रभु दत्तात्रेय, भगवान् न्यग्रोधशायी, एकशृङ्गतनु, देव वामनदेह (३०), सर्वव्यापी त्रिविक्रम, नर, नारायण, हरि, कृष्ण, ज्वलत्परशुधृक् परशुराम, धनुर्धरराम, वेदावर्त, भगवान् कल्की, प्रभु पातालशयन ॥ ७७-८३ ॥ हे सङ्कर्षण ! इस प्रकार संक्षेप में गौण तथा मुख्य प्रादुर्भाव गण (तत्तदवतार और उनके अवान्तर भेद) कहे गए । अब प्रधान देवी गणों को कहते हैं, अब यहाँ सभी शक्ति संघों में प्रधान शक्ति संघ कहता हूँ ॥ ८४ ॥ शक्तिसंघात् प्रधानो यः शक्तिसंघः स उच्यते ॥ ८४ ॥ लक्ष्मीः पुष्टिर्दया निद्रा क्षमा कान्तिः सरस्वती । धृतिर्मैत्री रतिस्तुष्टिर्मतिर्द्वादशमी स्मृता ॥ ८५ ॥ अथ प्रधानं देवीवर्गमाह—शक्तीति सार्धेन । शक्तिसंघादिति जात्येकवचनम् । यतः श्र्यादिदेवीनामेकद्विकचतुष्कषट्काष्टकद्विषट्कभेदैः षोढा संघान् वक्ष्यति द्वादशे परिच्छेदे । अयमपि संघो वक्ष्यमाणान्तर्गत एव । अत्रापि मुख्यतमत्वात् प्रतिपादितः । पद्मनाभादीनां प्रसिद्धा देव्यस्त्वीश्वरलक्ष्मीतन्त्रयोः प्रतिपादिताः । तथाहि— धीस्तारा वारुणी शक्तिः पद्मा विद्या तथैव च । संख्या विश्वा खगा भूर्गोर्लक्ष्मीर्वागीश्वरी तथा ॥ अमृता धरणी छाया नारसिंही तथा सुधा । श्रीः कान्तिर्विश्वकामा मा सत्या शान्तिः सरोरुहा ॥ माया पद्मासना खर्वा विक्रान्तिर्नरसंभवा । नारायणी हरिप्रीतिर्गान्धारी काश्यपी तथा ॥ वैदेही वेदविद्या च पद्मिनी नागशायिनी । त्रिंशच्चाष्टाविमा देव्यः पद्मनाभादिशक्तयः ॥ इति । (८४-८५) —(लक्ष्मी० २०।४५-४८, ई० सं० ७।३३-३७) लक्ष्मी, पुष्टि, दया, निद्रा, क्षमा, कान्ति, सरस्वती, धृति, मैत्री, रति, तुष्टि एवं मति ये द्वादश शक्तियाँ हैं ॥ ८५ ॥ सा० सं० - 18