सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 261, कुल 837 में से
संदर्भ में पढ़ें२०२ सात्वतसंहिता न यत्र बीजं पिण्डं वा तत्र वै प्रणवादनु । प्राग्वर्णं पदमन्त्रस्य यत् तदालोकवाचकम् ॥ २८ ॥ तच्छिष्टं विग्रहं वर्णैस्तस्मादुत्थाप्य वृक्षवत् । बीजेन पिण्डेन वा विरहिते मन्त्रे प्रथमाक्षरस्यैव बीजत्वम्, तदवशिष्टानां वर्णानां तद्विग्रहत्वेन तस्मादुत्पादनं चाह— न यत्रेति सार्धेन । उत्थाप्येत्यत्राऽर्चयेदिति शेषः । एवमेवोपबृंहितं हरिवल्लभायापि— बीजं बीजवतां जीवः शिष्टं क्षेत्रं प्रकीर्तितम् ॥ निर्बीजानामादि जीवः क्षेत्रं तु परिशेषितम् । इति । (लक्ष्मी० २१ । १७-१८) आदि प्रथमवर्णमित्यर्थः ॥ २८-२९ ॥ जहाँ बीज अथवा पिण्ड न हो वहाँ प्रणव के बाद 'पद वर्ण' का पहला अक्षर ही बीज का वाचक हो जाता है उससे शेष वर्णाक्षर रूप विग्रह को उसी बीज से वृक्ष की तरह उत्पन्न कर लेवे फिर उसकी अर्चा करे ॥ २८-२९ ॥ केवलं यत्र वै बीजं पिण्डं वा पदवर्जितम् ॥ २९ ॥ तत्राकाराख्यवर्णस्य क्षेत्रज्ञत्वं विधीयते । क्षेत्रत्वमवशिष्टानां वर्णानां पिण्डरूपिणाम् ॥ ३० ॥ संज्ञापदमन्त्ररहिते बीजे पिण्डे वाऽकारस्य बीजत्वम्, तदवशिष्टानां वर्णानां विग्रहत्वं चाह—केवलमिति सार्धेन । एवमेवोक्तं कमलवासिन्यापि— बीजानां चैव पिण्डानामस्तु क्षेत्रज्ञ उच्यते ॥ शिष्टं तु क्षेत्रमुद्दिष्टम्........... (लक्ष्मी० २१ । १८-१९) इति । बीजानां पिण्डानां पदवर्जितकेवलबीजपिण्डानामित्यर्थः । अस्तु अकारस्त्वि- त्यर्थः ॥ २९-३०॥ केवलस्य हि बीजस्य स्वस्थितिर्ब्रह्मवर्णता । स्वभावप्रच्युतिर्बीजं बीजोच्चारस्तथाकृतिः ॥ ३१ ॥ बीजवत् पिण्डमन्त्राणां परिज्ञेयः सदोदयः । अकारेणापि रहितं बीजपिण्डविषयमाह—केवलस्येति सार्धेन । केवलस्य बीजस्य स्वस्थितिरेव ब्रह्मवर्णता स्वस्य स्थूलरूपा सूक्ष्मरूपा च स्थितिरेव ब्रह्मता वर्णता च । ब्रह्मता स्थूलता, मूर्तत्वमिति यावत् । वर्णता बीजत्वमित्यर्थः । क्षेत्रत्वं क्षेत्रज्ञत्वमप्यवस्थाभेदेनेकनिष्ठमिति भावः । तथाहि—स्वभावप्रच्युतिः स्थूलता- विरहः, मध्यमावस्थेति यावत् । सैव बीजं जीव इत्यर्थः । बीजोच्चारो बीजस्य स्थूल- रूपेण स्फुटोच्चारणमेव आकृतिः, क्षेत्रमित्यर्थः । एवमेव पिण्डमन्त्राणामप्युदयः परि- ज्ञेयः, क्षेत्रक्षेत्रज्ञभावो बोध्य इत्यर्थः । लक्ष्मीतन्त्रे त्वेवं क्षेत्रक्षेत्रज्ञभाव एकमात्रबीज- विषये प्रतिपादितः । अकाररहितबीजविषये तु स्वरस्यैव क्षेत्रज्ञत्वमुक्तम् । तथाहि—