भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 262, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 262

नवमः परिच्छेदः २०३ ... ... ... ... ... ... ...अकाररहिते पुनः । क्षेत्रज्ञः स्वर उद्दिष्टः केवले च स्वरे पुनः ॥ जीवः स्यात् प्रथमा मात्रा द्वितीयादि तनुर्भवेत् । एकमात्रे तु जीवः स्यात् संस्कारो भूतलक्षणम् ॥ उच्चार्यमाणं क्षेत्रं स्यान्त्रिःस्वरे पिण्डके पुनः । प्रथमो जीव उद्दिष्टः शिष्टं क्षेत्रं प्रचक्षते ॥ —(२९।१९-२१) इति । संस्कारः शब्दस्य मध्यमावस्थेत्यर्थः । उक्तं खलु तत्रैव— ततः परो य उन्मेषस्तृतीयः शक्तिसंभवः । मध्यमा सा दशा तत्र संस्कारयति संगतिम् ॥ वाच्यवाचकभेदस्तु तदा संस्कारतामयः ॥ (१८।२५-२६) इति । भूतलक्षणं स्थूलरूपम्, उच्चार्यमाणं वैखर्यवस्थापन्नमित्यर्थः । तथा चोक्तं तत्रैव —‘‘वैखरी नाम सावस्था वर्णवाक् संस्कृतोदया (१८।२७) इति ॥ ३१-३२ ॥ जहाँ केवल बीज हो, अथवा जहाँ केवल पिण्ड हो, पद न हो, वहाँ केवल अकार वर्ण को बीज समझे । उससे शेष वर्ण को विग्रह समझे ॥ २९-३० ! जहाँ अकार भी न हो वहाँ केवल बीज की स्वस्थिति ब्रह्मवर्णता तथा स्वभाव प्रच्युति बीज समझनी चाहिये । बीज का स्पष्ट रूप (बैखरी रूप) से उच्चारण करना क्षेत्र है । इसी प्रकार क्षेत्र-क्षेत्रज्ञ भाव समझना चाहिये । बीज के समान पिण्ड मन्त्रों का भी क्षेत्र-क्षेत्रज्ञ भाव समझना चाहिये । जितने भी बीज लक्षण वैष्णव मन्त्र हैं उनमें महान् शक्ति है ॥ ३१-३२ ॥ यद्बीजलक्षणं मन्त्रं सामर्थ्यं वैष्णवं महत् ॥ ३२ ॥ असंख्येयमसंख्यानां वाच्यानां भिन्नरूपिणाम् । तद्यथावत् परिज्ञानाज्जपाद् ध्यानात् समर्चनात् ॥ ३३ ॥ हवनात् तन्मयत्वाच्च निर्बीजं पदमृच्छति । सहाभिमतसिद्धिः स्यात् साधकानां सदैव हि ॥ ३४ ॥ बीजमन्त्रफलमाह—यदिति सार्द्धद्वाभ्याम् । वैष्णवं सामर्थ्यं = भगवत्सामर्थ्य- रूपमित्यर्थः । असंख्येयं = मन्त्रप्रतिपाद्यस्य नानारूपतयाऽसंख्यातत्वात् तत्प्रतिपादक- मपि तथा नानाविधाकारमित्यर्थः । तद्यथावत् परिज्ञानात् तस्य बीजस्य सप्रकार- ज्ञानादित्यर्थः । निर्बीजं पदम् = अनाद्यन्तं परमं धामेत्यर्थः । ऋच्छति = प्राप्नोति, साधक इति शेषः । सहाभिमतसिद्धिः स्यादिति तेन मोक्षरूपफलेन सहाभिमतार्थ- सिद्धेरुक्तत्वान्मोक्षस्य प्राधान्यमन्येषामानुषङ्गिकत्वमुक्तं भवति ॥ ३२-३४ ॥ जिस प्रकार मन्त्र से प्रतिपाद्य के अनेक रूप होने से वह असंख्यात है उसी प्रकार उसका प्रतिपादक भी अनेक रूप होने से असंख्यात है । उस बीज के

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक) · पृष्ठ 262, कुल 837 में से · BharatKosha