सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 266, कुल 837 में से
संदर्भ में पढ़ेंनवमः परिच्छेदः २०७ महिमानं तु निश्शेषं शुद्धसंवित्पुरस्सरम् ॥ ५० ॥ आदायाद्यपदस्थस्य चातुरात्म्यस्य वै विभोः । आदौ सकलविभवदेवानामाधिपतेर्विशाखयूपसंज्ञस्य भगवतः प्रादुर्भावरीतिमाह —विशाखयूप इति द्वाभ्याम् । आद्यपदस्थस्य चातुरात्म्यस्य (च?) तुर्यव्यूहस्य । शुद्धसंवित्पुरस्सरं महिमानमादाय व्यूहविभवावतारसाधनोपकरणं संगृह्येत्यर्थः । एव- मेवोपबृंहितं जगज्जनन्यपि— तुर्याद्यस्वप्नपर्यन्ते चातुरात्म्यादिके हि यत् ॥ तत्तदैश्वर्यसम्पन्ने षाड्गुण्यं सुव्यवस्थितम् । तदादायाखिलं दिव्यं शुद्धसंवित्पुरस्सरम् ॥ विभजत्यात्मनात्मानं वासुदेवादिपूर्वकः । (लक्ष्मी० ११।१५-१७) इति ॥ ४९-५१ ॥ विशाखयूप भगवान्, जो समस्त विभवदेवों के अधिपति हैं, विश्व सिसृक्षा के लिये अध्यक्ष स्वरूप में अकेले अग्र पदस्थ चातुराम्य विभु के शुद्ध संवित् पुरः सर महिमा तथा व्यूह विभवावतार के समस्त उपकरणों को अपने साथ लेकर उदित होते हैं ॥ ४९-५१ ॥ तदुपकरणानां विवरणम् तथा चाधारभूयिष्ठदेवानां चेष्टितं हि यत् ॥ ५१ ॥ सितादयः कान्तयोऽथ श्र्यादिकं च महामते । सलाञ्छनं वैभवीयं सायुधं बीजमेव तु ॥ ५२ ॥ ज्ञानाद्यं गुणषट्कं च तदुक्ताः शक्तयोऽखिलाः । अणिमाद्यष्टकं चैव स्थित्युत्पत्तिलयोदयाः ॥ ५३ ॥ शक्तिः सा चातुरात्मीया त्वैश्वरीत्यभिधीयते । तदुपकरणानां विवरणमाह—तथा चेति त्रिभिः । श्र्यादिकं श्रीदेव्यादिकं शक्ति- जालमित्यर्थः । एषां सर्वेषामपि षाड्गुण्यमयत्वमुक्तं लक्ष्मीतन्त्रे— परादिविभवान्तानां सर्वेषां देवतात्मनाम् । शुद्धषाड्गुण्यरूपाणि वपूंषि त्रिदशेश्वर ॥ यावन्त्यस्त्राणि देवानां चक्रशङ्खादिकानि वै । भूषणानि विचित्राणि वासांसि विविधानि च ॥ ध्वजाश्च विविधाकाराः कान्तयश्च सितादिकाः । वाहनानि विचित्राणि सत्याद्यानि सुरेश्वर ॥ शक्तयो भोगदाश्चैव विविधाकारसंस्थिताः । आन्तःकरणिको वर्गस्तदीया वृत्तयोऽखिलाः ॥ यच्च यच्चोपकरणं सामान्यं पुरुषान्तरैः ।