सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 264, कुल 837 में से
संदर्भ में पढ़ेंनवमः परिच्छेदः २०५ पुनरिममेवार्थं सहेतुकं द्रढयन् क्षेत्रक्षेत्रज्ञयोरुभयोरपि भगवद्रूपत्वात् क्षेत्रस्यैव भोगमोक्षप्रदत्वं क्षेत्रज्ञभूतस्य बीजपिण्डान्यतरस्य तु मोक्षसाधकज्ञानप्रदत्वं चाह— यस्मादिति सपादैस्त्रिभिः । व्याप्यव्यापकरूपेण = क्षेत्रक्षेत्रज्ञरूपेणेत्यर्थः । निरावरण- लक्षणो व्यापकरूप इत्यर्थः ॥ ३८-४१ ॥ वह सर्वेश्वर भगवान् व्याप्य रूप से समस्त भूलोक से ‘भोग से आरम्भ कर षाड्गुण्य महिमा पर्यन्त समस्त उत्तम फल प्रदान करते हैं । भोग से खिन्न दिव्य देह वाले संसारी मनुष्यों के लिये वह क्षेत्रज्ञ, बीज, पिण्डात्मा एवं निरावरण लक्षण अर्थात् व्यापक स्वरूप वाले अपना पद प्रदान कर देते हैं और आत्म कल्याण करने वाले निर्मल विशुद्ध ज्ञान को भी देते हैं ॥ ३०-४१ ॥ शक्तिव्यक्तिमयत्वं च जाग्रद्वृत्तेः पदात्मनः ॥ ४१ ॥ एवं संज्ञात्मनः स्वप्नवृत्तेरेकत्वमस्ति च । सुषुप्तिवृत्तेः पिण्डाख्यमन्त्रस्यैव महामते ॥ ४२ ॥ बीजात्मनस्तुर्यवृत्तेः शक्तिव्यक्तिवमस्ति वै । जाग्रत्स्वप्नसुषुप्तितुर्यावस्थानां पदसंज्ञापिण्डबीजानां च क्रमेण परस्परं शक्ति- व्यक्तित्वमाह—शक्तीति द्वाभ्याम् ॥ ४१-४३ ॥ व्यक्तिर्ज्ञानफलोपेता नियता यद्यपि स्मृता ॥ ४३ ॥ भगवन्मन्त्रमूर्तीनां तथापि परमात्मनः । आद्यस्य चातुरात्म्यस्य केवलस्याथवा विभोः ॥ ४४ ॥ चतुष्प्रकारं यन्मन्त्रं विद्धि तन्मोक्षभूतिदम् । अतोऽन्यथा यदुद्दिष्टममिश्रं मिश्रमेव हि ॥ ४५ ॥ फलं भाववशाच्चैव तत्तथा विद्धि नान्यथा । यद्यपि बीजादिभगवन्मन्त्रव्यक्तेर्ज्ञानप्रदत्वं भोगमोक्षफलप्रदत्वं च नियमेनोक्तम्, तथापि तत्सुषुप्तिव्यूहादिमन्त्रव्यक्तिविषयम्, परमन्त्राणां तु चतुर्विधानामपि मोक्षप्रदत्व- मेवेत्याह—व्यक्तिरिति त्रिभिः । आद्यस्य चातुरात्म्यस्य = तुर्यव्यूहस्येत्यर्थः । केवलस्य विभोः = परात्परस्येत्यर्थः । अतोऽन्यथा यदुद्दिष्टं = सुषुप्तिव्यूहादि- क्रमेणोक्तं मन्त्रजातमित्यर्थः । अमिश्रं फलं केवलमोक्षमित्यर्थः । मिश्रं फलं भोग- सहितं मोक्षमित्यर्थः । भाववशात् तत्तदभिसन्ध्यनुसारेणेत्यर्थः । ददातीति शेषः । एवं च द्वितीयपरिच्छेदोक्तस्य परमन्त्रस्य पदमन्त्रत्वेऽपि मुख्यतो मोक्षप्रदत्वात्, अत एव तन्मन्त्रस्य योगिभिरूपास्यत्वेन पूर्वमुक्तत्वाच्चेदानीं संज्ञापदमन्त्रसामान्यस्य भोगप्रदातृ- त्वोक्तिर्विरुद्ध्येतेत्यभिप्रायेणैवं विषयव्यवस्था कृतेति बोध्यम् ॥ ४३-४६ ॥ जाग्रत्, स्वप्न, सुषुप्ति एवं तूर्य अवस्था वाले पद, संज्ञा, बीज एवं पिण्ड मन्त्रों में क्रम से परस्पर शक्ति की व्यक्ति होती है । इस प्रकार संज्ञा वाले मन्त्र और