सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 291, कुल 837 में से
संदर्भ में पढ़ेंचन्द्रादित्यावुदग्याम्ये द्वारयोर्विनिवेश्य च । प्रत्यग्द्वारगतं तोयं प्राग्द्वारे विन्यसेद् धराम् ॥ २२ ॥ चतुर्णामिथ कोणानामव्यक्तं मण्डलाद् बहिः । संयजेद् भवनाम्ना वै यस्मान्नान्यो भवः स्मृतः ॥ २३ ॥ ततः कामात्मतत्त्वानां दशकं सिद्धतां गतम् । भगवत्तुल्यसामर्थ्यं सर्वज्ञादिगुणैर्युतम् ॥ २४ ॥ वियुक्तं प्राकृताद् दुःखान्नियुक्तं चेश्वरेणतु । भवसन्तारकत्वेन मण्डलस्य बहिर्न्यसेत् ॥ २५ ॥ उपेन्द्रः पूर्वदिग्भागे दक्षिणे दुरतिक्रमः । महाह्रदः पश्चिमे तु वसुरेतास्तथोत्तरे ॥ २६ ॥ न्यस्यस्तेजो धराख्यस्तु पूर्वदक्षिणमध्यगः । नैर्ऋते तु महाकर्मा त्वग्राह्यः पश्चिमोत्तरे ॥ २७ ॥ पूर्वोत्तरे वर्धमानः साक्षी गगनगोचरे । आधारनिलयं नाम्ना सर्वस्याधोगतं स्मरेत् ॥ २८ ॥ तेषां बहिः स्वमन्त्रेण दिक्क्रमेण तु हेतिराट् । स्वमरीचिगणेनैव भासयन्तं निवेश्य च ॥ २९ ॥ मण्डले ध्रुवादीनां स्थानान्याह—ध्रुवात्मेति प्रक्रम्य भासयन्तं निवेश्य चेत्यन्तम् । तथा च प्रयोगः—कर्णिकामध्ये ध्रुवं प्रागादिषट्त्रिंशद्दलेषु दिङ्मण्डलमभिवी- क्षतोऽनन्तादीन् पातालशयनान्तान् षट्त्रिंशद् देवान् तद्बहिरैशान्यादिवायव्यान्तकोण- चतुष्टये किरीटश्रीवत्सकौस्तुभवनमालाः, ततः पीठे उत्तरदिशि लक्ष्मीम्, दक्षिणदिशि पुष्टिम्, पश्चिमदिशि दयाम्, पूर्वदिशि निद्राम्, ईशानकोणे क्षमां क्षान्तिं च, आग्नेय- कोणे सरस्वतीं धृतिं च, नैर्ऋतकोणे मैत्रीं रतिं च, वायव्यकोणे तुष्टिं मतिं च, तद्बहिः पीठसमीपे पुरतो गरुडम्, पीठाद् बहिरैशान्यादिवायव्यान्तकोणचतुष्टये क्रमेण चक्र- शङ्खगदापद्मानि, सौम्यदिशि पाशम्, याम्यदिश्यङ्कुशम्, वारुणदिशि मुद्गरम्, पूर्व- दिशि वज्रम्, कोणचतुष्टये शक्तिम्, ईशानकोणसमीपस्थपदादारभ्य तत्समीपस्थ- द्वितीयपदपर्यन्तमर्धशोभापूर्णशोभास्थितनीलोत्पलरक्तोत्पलाख्यषोडशपदेषु प्रादिक्षिण्येन कालादियज्ञान्तं भवोपहरणदेवताषोडशकम्, ईशानकोणे विद्याम्, नैर्ऋत- कोणेऽविद्याम्, अग्निकोणेऽग्निम्, वायुकोणे वायुम्, उत्तरद्वारे चन्द्रम्, दक्षिणद्वारे सूर्यम्, पश्चिमद्वारे तोयम्, पूर्वद्वारे वसुधां च, मण्डलाद् बहिः कोणेषु प्रकृतिम्, तद्बहिः पूर्वादिदिक्षु विदिक्षु ऊर्ध्वमधश्च उपेन्द्रादिसिद्धदशकं च, तद्बहिः सर्वदिक्षु चक्रराजं च न्यसेत् ॥ ११-२९ ॥ मण्डल में ध्रुवादि का स्थान कहते हैं—कर्णिका मध्य में ध्रुव का, पूर्वादि छत्तीस कमल दलों में दिङ् मण्डल की ओर देखते हुए अनन्त से लेकर