सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 288, कुल 837 में से
संदर्भ में पढ़ेंदशमः परिच्छेदः विभवदेवताबहिर्यागविधिः नारद उवाच अथ लाङ्गलिना विप्राश्चोदितः परमेश्वरः । यत् तदाकर्ण्यतामद्य चेतसा संयतेन तु ॥ १ ॥ अथ दशमो व्याख्यास्यते । पुनः सङ्कर्षणेन वासुदेवो यत्पृष्टस्तच्छृणुध्वमिति नारदो मुनीनाह—अथेति ॥ १ ॥ नारद जी ने कहा—हे मुनीश्वरो! संकर्षण द्वारा पूछे जाने पर परमेश्वर ने जो कहा था अब उसे सावधान होकर आप लोग सुनिए ॥ १ ॥ सङ्कर्षण उवाच मण्डलेऽग्नौ बहिर्नाथ जलमध्ये त्वयाऽर्चनम् । नोक्तं विभवदेवानां व्यक्तं कृत्वा तदादिश ॥ २ ॥ सङ्कर्षणो बाह्यागं पृच्छति—मण्डल इति ॥ २ ॥ सङ्कर्षण ने कहा—हे नाथ! आपने मण्डल में अग्नि के बाहर जल के मध्य में विभव देवताओं का किस प्रकार अर्चन करना चाहिये इसे नहीं कहा, इसलिये उसे स्पष्ट रूप से कहिये ॥ २ ॥ भगवानुवाच सुलक्षणे तु भूभागे समे पूर्वोक्तलक्षणे । तत्र मण्डलमालेख्यं सर्वेषामेकमर्चने ॥ ३ ॥ चतुरश्रं चतुर्द्वारं पीठाद्यवयवान्वितम् । षट्त्रिंशद्दलपद्मेन मध्यतश्चाप्यलङ्कृतम् ॥ ४ ॥ वितानध्वजसंवीतं किङ्किणीदर्पणान्वितम् । तोरणव्यजनच्छत्रचामरस्रग्विमण्डितम् ॥ ५ ॥ उक्तानुक्तमशेषं तु कृत्वा पूर्वोक्तलक्षणम् ।