सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 286, कुल 837 में से
संदर्भ में पढ़ेंनवमः परिच्छेदः २२७ सूक्ष्मत्वेन च निश्शेषं प्रत्येकस्मिन् हि वर्तते ॥ १३३ ॥ समाश्रित्य बृहत्त्वं च तृतीयांशेन तिष्ठति । सर्गत्रयविवरणं तत्र सूक्ष्मस्थूलभेदेनावस्थानं चाह—पौष्कराख्य इति सार्धेन । पौष्करे पाद्मकल्प इत्यर्थः । प्राजापत्ये ब्राह्मकल्प इत्यर्थः । यथा च श्रीभागवते— पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् । कल्पो यत्राऽभवद् ब्रह्मा शब्दब्रह्मेति यं विदुः ॥ तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते । यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् ॥ अयं तु कथितः कल्पो द्वितीयस्यापि भारत । वाराह इति विख्यातो यत्रासीत् सूकरो हरिः ॥ (३।११।३४-३६) इति ॥ १३३-१३४ ॥ हे महामते! वह पद्मकल्प, ब्रह्मकल्प, तथा वाराहकल्प इन तीनों सर्गों में सूक्ष्म रूप से तथा स्थूल रूप से प्रत्येक में वर्त्तमान रहता है ॥ १३३ ॥ वह बृहत्त्व का आश्रय लेकर तृतीय अंश (=स्थूल रूप) से तीनों कल्पों में रहता है ॥ १३४ ॥ यथोक्तक्रमयोगेन युक्तः सर्गत्रये तु वै ॥ १३४ ॥ परिवारं समादाय भवोपरणान्वितम् । दिक्पालकगणोपेतं समाक्रम्य तमेव हि ॥ १३५ ॥ पौष्करादिसर्गत्रयेऽपि पूर्वोक्तलक्ष्मादिपरिवारसंग्रहणमाह— यथोक्तेति ॥ १३४-१३५ ॥ वह पारमेश्वर विभव तीनों पौष्करादि सर्गों में अपने श्री आदि परिवार के साथ काल आदि भवोकरण (द्र. ९.९०-९५) एवं दिक्पालगण आदिकों को अपने वश में करके स्थित रहता है ॥ १३४-१३५ ॥ अभिधानाक्षरं पूर्वमरान्ताद्येन भूषितम् । योक्तव्यमभिधानेन पूर्वोद्दिष्टेन वर्त्मना । पूजार्थं चैव सर्वेषां क्रमेऽस्मिन् सम्प्रकाशितम् ॥ १३६ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां विभवदेवतान्तर्यागो नाम नवमः परिच्छेदः ॥ ९ ॥ — ൘ ❀ ൘ —