सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
नवमः परिच्छेदः २२७ सूक्ष्मत्वेन च निश्शेषं प्रत्येकस्मिन् हि वर्तते ॥ १३३ ॥ समाश्रित्य बृहत्त्वं च तृतीयांशेन तिष्ठति । सर्गत्रयविवरणं तत्र सूक्ष्मस्थूलभेदेनावस्थानं चाह—पौष्कराख्य इति सार्धेन । पौष्करे पाद्मकल्प इत्यर्थः । प्राजापत्ये ब्राह्मकल्प इत्यर्थः । यथा च श्रीभागवते— पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् । कल्पो यत्राऽभवद् ब्रह्मा शब्दब्रह्मेति यं विदुः ॥ तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते । यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् ॥ अयं तु कथितः कल्पो द्वितीयस्यापि भारत । वाराह इति विख्यातो यत्रासीत् सूकरो हरिः ॥ (३।११।३४-३६) इति ॥ १३३-१३४ ॥ हे महामते! वह पद्मकल्प, ब्रह्मकल्प, तथा वाराहकल्प इन तीनों सर्गों में सूक्ष्म रूप से तथा स्थूल रूप से प्रत्येक में वर्त्तमान रहता है ॥ १३३ ॥ वह बृहत्त्व का आश्रय लेकर तृतीय अंश (=स्थूल रूप) से तीनों कल्पों में रहता है ॥ १३४ ॥ यथोक्तक्रमयोगेन युक्तः सर्गत्रये तु वै ॥ १३४ ॥ परिवारं समादाय भवोपरणान्वितम् । दिक्पालकगणोपेतं समाक्रम्य तमेव हि ॥ १३५ ॥ पौष्करादिसर्गत्रयेऽपि पूर्वोक्तलक्ष्मादिपरिवारसंग्रहणमाह— यथोक्तेति ॥ १३४-१३५ ॥ वह पारमेश्वर विभव तीनों पौष्करादि सर्गों में अपने श्री आदि परिवार के साथ काल आदि भवोकरण (द्र. ९.९०-९५) एवं दिक्पालगण आदिकों को अपने वश में करके स्थित रहता है ॥ १३४-१३५ ॥ अभिधानाक्षरं पूर्वमरान्ताद्येन भूषितम् । योक्तव्यमभिधानेन पूर्वोद्दिष्टेन वर्त्मना । पूजार्थं चैव सर्वेषां क्रमेऽस्मिन् सम्प्रकाशितम् ॥ १३६ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां विभवदेवतान्तर्यागो नाम नवमः परिच्छेदः ॥ ९ ॥ — ൘ ❀ ൘ —
२२८ सात्वतसंहिता परिवाराणां बीजपिण्डयोरनुक्तत्वात् तत्तन्नामाद्याक्षरमेवानुस्वारान्वितं कृत्वा तत्तत्संज्ञामन्त्रैर्योज्यमित्याह—अभिधानेति सार्धेन । अरान्ताद्येन पूर्वोक्तवर्णचक्रे, अरान्तो विसर्गः, तदाद्येन अनुस्वारेणेत्यर्थः ॥ १३६ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये नवमः परिच्छेदः ॥ ९ ॥ — 𑁍 — यहाँ परिवारों का बीज पिण्ड नहीं कहा गया है । अतः उनके नाम के आदि अक्षर को ही अनुस्वार से युक्त कर पूर्वोद्दिष्ट मार्ग से संज्ञा मन्त्रों में जोड़ देना चाहिये । इस प्रकार विभवदेवतान्तर्याग के इस क्रम में सभी देवताओं की पूजा के लिये यह प्रकाशित किया गया है ॥ १३६ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के विभवदेवतान्तर्याग नामक नवम परिच्छेद की हिन्दी समाप्त हुई ॥ ९ ॥ — 𑁍 —
दशमः परिच्छेदः विभवदेवताबहिर्यागविधिः नारद उवाच अथ लाङ्गलिना विप्राश्चोदितः परमेश्वरः । यत् तदाकर्ण्यतामद्य चेतसा संयतेन तु ॥ १ ॥ अथ दशमो व्याख्यास्यते । पुनः सङ्कर्षणेन वासुदेवो यत्पृष्टस्तच्छृणुध्वमिति नारदो मुनीनाह—अथेति ॥ १ ॥ नारद जी ने कहा—हे मुनीश्वरो! संकर्षण द्वारा पूछे जाने पर परमेश्वर ने जो कहा था अब उसे सावधान होकर आप लोग सुनिए ॥ १ ॥ सङ्कर्षण उवाच मण्डलेऽग्नौ बहिर्नाथ जलमध्ये त्वयाऽर्चनम् । नोक्तं विभवदेवानां व्यक्तं कृत्वा तदादिश ॥ २ ॥ सङ्कर्षणो बाह्यागं पृच्छति—मण्डल इति ॥ २ ॥ सङ्कर्षण ने कहा—हे नाथ! आपने मण्डल में अग्नि के बाहर जल के मध्य में विभव देवताओं का किस प्रकार अर्चन करना चाहिये इसे नहीं कहा, इसलिये उसे स्पष्ट रूप से कहिये ॥ २ ॥ भगवानुवाच सुलक्षणे तु भूभागे समे पूर्वोक्तलक्षणे । तत्र मण्डलमालेख्यं सर्वेषामेकमर्चने ॥ ३ ॥ चतुरश्रं चतुर्द्वारं पीठाद्यवयवान्वितम् । षट्त्रिंशद्दलपद्मेन मध्यतश्चाप्यलङ्कृतम् ॥ ४ ॥ वितानध्वजसंवीतं किङ्किणीदर्पणान्वितम् । तोरणव्यजनच्छत्रचामरस्रग्विमण्डितम् ॥ ५ ॥ उक्तानुक्तमशेषं तु कृत्वा पूर्वोक्तलक्षणम् ।
२३० सात्वतसंहिता वासुदेवस्तमुपदिशन् पूर्वं षट्त्रिंशद्दलपद्मगर्भितवक्ष्यमाणपीठाद्यवयवान्वित- मण्डललेखनं यागमण्डलालङ्करणं च कार्यमित्याह— सुलक्षण इति सार्धैस्त्रिभिः ॥ ३-६ ॥ भगवान् ने कहा—पूर्वोक्त लक्षण वाले सुलक्षण एवं समतल भू भाग में ऐसा मण्डल निर्माण करना चाहिये जहाँ सबकी एक साथ अर्चना की जावे । मण्डल चौकोर एवं चार द्वारों वाला तथा पीठादि अवयवों से संयुक्त हो । भीतरी भाग छत्तिस दल वाले कमलों से अलङ्कृत हो, चारों ओर तथा मध्य में सर्वत्र अलंकृत हो, चारों ओर ध्वजाओं से घिरा हो, चारों ओर किङ्किणी, दर्पण, तोरण, व्यजन, छत्र, चामर एवं माल्य से मण्डित हो । जो कहा गया हो और जो नहीं कहा गया है, उन सभी से मण्डप पूर्ण हो ऐसा पूर्वोक्त लक्षण लक्षित मण्डल निर्माण करे ॥ ३-६ ॥ ततस्तु करयोर्न्यस्य विग्रहे बीजमैश्वरम् ॥ ६ ॥ समालम्ब्य च तादात्म्यमभिमानं सुनिश्चितम् । बद्ध्वा च वैभवीं मुद्रां स्पृशेत् सर्वाङ्गकं तया ॥ ७ ॥ समुच्चार्य धिया सर्वं मन्त्रग्रामं क्रमस्थितम् । सर्वदेवमयं देहमेवं स्मृत्वा स्वकं पुरा ॥ ८ ॥ अथ करयोर्देहे च विशाखयूपबीजन्यासम्, विशाखयूपोऽहमिति तत्तादात्म्याव- लम्बनम्, वक्ष्यमाण (१०।४१-४४) वैभवमुद्रया सर्वाङ्गस्पर्शम्, पद्मानाभाद्यष्ट- त्रिंशन्मन्त्रोच्चारणपूर्वकं स्वदेहस्य सर्वमन्त्रमयत्वापादनं चाह—तत इति सार्धद्वाभ्याम् । ऐश्वरं बीजं विशाखयूपबीजमित्यर्थः । नमिति यावत् । विशाखयूपतादात्म्याश्रितस्य पुनः पद्मानाभादिसर्वदेवमयविग्रहत्वम्— आमूर्धतोऽङ्घ्रिपर्यन्तं तदीयं गात्रमण्डलम् ॥ रत्नवद् वैभवीयैस्तु बीजैर्भाव्यमलङ्कृतम् । (९।५८-५९) इति पूर्वोक्तप्रकारेण बोध्यम् ॥ ६-८ ॥ तदनन्तर साधक अपने दोनों हाथ में तथा शरीर में विशाखयूप बीज 'नम्' से न्यास करे । 'मैं विशाखयूप हूँ'—इस प्रकार तादात्म्याभिमान कर साधक स्थिर हो जावे, फिर वैभवी मुद्रा बना कर सर्वाङ्ग का स्पर्श करे । फिर बुद्धि से क्रमपूर्वक अड़तीस बीज मन्त्रों का उच्चारण कर अपने देह को सर्वमन्त्रमय (एक- देव मय) बनावे ॥ ६-८ ॥ अन्तश्चक्रनिविष्टं तु संस्मरेद् भद्रपीठवत् । मण्डलं देवताधारं चक्रमन्त्रेण तद् यजेत् ॥ ९ ॥ मण्डले भद्रपीठवदन्तर्लीनचक्रराजस्मरण तदर्चनं चाह—अन्तरिति ॥ ९ ॥
दशमः परिच्छेदः २३१ इस प्रकार अपना शरीर सर्वदेवमय बना लेने के बाद मण्डल में भद्रपीठ के समान अन्तर्लीन चक्रराज का स्मरण करे तथा देवताधार उस मण्डल का चक्रराज के मन्त्र से उनका अर्चन करे ॥ ९ ॥ ततस्तु सर्वमन्त्राणां विन्यासं तत्र चेतसा । समाचरेद् यथायोगं पुष्पदानपुरस्सरम् ॥ १० ॥ तस्मिन् मण्डले प्रत्येकं पुष्पदानपूर्वकं मन्त्राणां न्यासमाह—तत इति ॥ १० ॥ इसके बाद सभी मन्त्रों का चित्त से ध्यान कर उसी से पुष्पदान पुरःसर यथायोग न्यास करे ॥ १० ॥ ध्रुवात्मा भगवान् मध्ये कर्णिकायामतः क्रमात् । दिक्कचक्रमभिवीक्षन्तं प्राग्दलादादितो न्यसेत् ॥ ११ ॥ पातालशायिपर्यन्तमनन्ताद्यं महामते । न्यसेत् कमलबाह्ये तु ईशाद् वह्निपदावधि ॥ १२ ॥ चतुष्टयं किरीटाद्यं मन्त्राणां पूर्वचोदितम् । उदग्दक्षिण आप्याद्ये पैठीये दिक्कचतुष्टये ॥ १३ ॥ द्वन्द्वद्वयं तु लक्ष्म्याद्यं विनिवेश्यं यथाक्रमम् । तत्रैव चेशकोणात् तु यावद् वायुपदावधि ॥ १४ ॥ द्वयं द्वयं क्षमाद्यं च मत्यन्तं सन्निवेश्य च। बहिः पीठस्य निकटे चाग्रतो वै पतत्त्रिराट् ॥ १५ ॥ चक्रात् कमलपर्यन्तं चतुष्कं शाङ्करात् पदात् । वायुकोणावधेर्धावित् पीठबाह्ये तु योजयेत् ॥ १६ ॥ सौम्ययाम्याप्यपूर्वाशावस्थितं च द्वयं द्वयम् । लाङ्गलाद्यं परश्वन्तमष्टकं तद्वदेव हि ॥ १७ ॥ याम्यसौम्याप्यपूर्वाशागतं दद्याच्चतुष्टयम् । पाशाद्यं वज्रपर्यन्तं शक्तिकोणचतुष्टये ॥ १८ ॥ आ ईशकोणनिकटात् पदात् तन्निकटे स्थितम् । प्रदक्षिणक्रमेणैव पदं यावद् द्वितीयकम् ॥ १९ ॥ कालादीनां च विन्यासः कार्यश्चानुक्रमेण तु । यज्ञान्तानां महाबुद्धे षोडशानां यथास्थितम् ॥ २० ॥ क्रमात् पूर्वोत्तरे कोणे न्यसेद् दक्षिणपश्चिमे । विद्याऽविद्याद्वयं यद् वै स्वपदस्थेऽग्निमारुते ॥ २१ ॥
चन्द्रादित्यावुदग्याम्ये द्वारयोर्विनिवेश्य च । प्रत्यग्द्वारगतं तोयं प्राग्द्वारे विन्यसेद् धराम् ॥ २२ ॥ चतुर्णामिथ कोणानामव्यक्तं मण्डलाद् बहिः । संयजेद् भवनाम्ना वै यस्मान्नान्यो भवः स्मृतः ॥ २३ ॥ ततः कामात्मतत्त्वानां दशकं सिद्धतां गतम् । भगवत्तुल्यसामर्थ्यं सर्वज्ञादिगुणैर्युतम् ॥ २४ ॥ वियुक्तं प्राकृताद् दुःखान्नियुक्तं चेश्वरेणतु । भवसन्तारकत्वेन मण्डलस्य बहिर्न्यसेत् ॥ २५ ॥ उपेन्द्रः पूर्वदिग्भागे दक्षिणे दुरतिक्रमः । महाह्रदः पश्चिमे तु वसुरेतास्तथोत्तरे ॥ २६ ॥ न्यस्यस्तेजो धराख्यस्तु पूर्वदक्षिणमध्यगः । नैर्ऋते तु महाकर्मा त्वग्राह्यः पश्चिमोत्तरे ॥ २७ ॥ पूर्वोत्तरे वर्धमानः साक्षी गगनगोचरे । आधारनिलयं नाम्ना सर्वस्याधोगतं स्मरेत् ॥ २८ ॥ तेषां बहिः स्वमन्त्रेण दिक्क्रमेण तु हेतिराट् । स्वमरीचिगणेनैव भासयन्तं निवेश्य च ॥ २९ ॥ मण्डले ध्रुवादीनां स्थानान्याह—ध्रुवात्मेति प्रक्रम्य भासयन्तं निवेश्य चेत्यन्तम् । तथा च प्रयोगः—कर्णिकामध्ये ध्रुवं प्रागादिषट्त्रिंशद्दलेषु दिङ्मण्डलमभिवी- क्षतोऽनन्तादीन् पातालशयनान्तान् षट्त्रिंशद् देवान् तद्बहिरैशान्यादिवायव्यान्तकोण- चतुष्टये किरीटश्रीवत्सकौस्तुभवनमालाः, ततः पीठे उत्तरदिशि लक्ष्मीम्, दक्षिणदिशि पुष्टिम्, पश्चिमदिशि दयाम्, पूर्वदिशि निद्राम्, ईशानकोणे क्षमां क्षान्तिं च, आग्नेय- कोणे सरस्वतीं धृतिं च, नैर्ऋतकोणे मैत्रीं रतिं च, वायव्यकोणे तुष्टिं मतिं च, तद्बहिः पीठसमीपे पुरतो गरुडम्, पीठाद् बहिरैशान्यादिवायव्यान्तकोणचतुष्टये क्रमेण चक्र- शङ्खगदापद्मानि, सौम्यदिशि पाशम्, याम्यदिश्यङ्कुशम्, वारुणदिशि मुद्गरम्, पूर्व- दिशि वज्रम्, कोणचतुष्टये शक्तिम्, ईशानकोणसमीपस्थपदादारभ्य तत्समीपस्थ- द्वितीयपदपर्यन्तमर्धशोभापूर्णशोभास्थितनीलोत्पलरक्तोत्पलाख्यषोडशपदेषु प्रादिक्षिण्येन कालादियज्ञान्तं भवोपहरणदेवताषोडशकम्, ईशानकोणे विद्याम्, नैर्ऋत- कोणेऽविद्याम्, अग्निकोणेऽग्निम्, वायुकोणे वायुम्, उत्तरद्वारे चन्द्रम्, दक्षिणद्वारे सूर्यम्, पश्चिमद्वारे तोयम्, पूर्वद्वारे वसुधां च, मण्डलाद् बहिः कोणेषु प्रकृतिम्, तद्बहिः पूर्वादिदिक्षु विदिक्षु ऊर्ध्वमधश्च उपेन्द्रादिसिद्धदशकं च, तद्बहिः सर्वदिक्षु चक्रराजं च न्यसेत् ॥ ११-२९ ॥ मण्डल में ध्रुवादि का स्थान कहते हैं—कर्णिका मध्य में ध्रुव का, पूर्वादि छत्तीस कमल दलों में दिङ् मण्डल की ओर देखते हुए अनन्त से लेकर
दशमः परिच्छेदः २३३ पातालशयनान्त छत्तीस देवताओं का, उसके बाहर ईशान से लेकर वायव्यन्त चारों कोनो में किरीट, श्रीवत्स, कौस्तुभ एवं वनमाला का, पीठ के उत्तर दिशा में लक्ष्मी का, दक्षिण दिशा में पुष्टि का, पश्चिम दिशा में दया का, पूर्व दिशा में निद्रा का, ईशानकोण में क्षमा एवं शान्ति का, आग्नेयकोण में सरस्वती एवं धृति का, नैर्ऋत्यकोण में मैत्री एवं रति का, वायव्यकोण में तुष्टि तथा मति का, उसके बाहर पीठ के समीप आगे गरुड़ का तथा पीठ के बाहर ईशान से लेकर वायव्य कोणान्त चारों कोनो में क्रमशः चक्र, शङ्ख, गदा एवं पद्म का, उत्तर दिशा में पाश का, दक्षिण दिशा में अङ्कुश का, पश्चिम दिशा में मुद्गर का, पूर्व दिशा में वज्र का, कोण चतुष्टय में शक्ति का, ईशान कोण समीपस्थ पद से लेकर उसके समीपस्थ द्वितीय पद पर्यन्त अर्ध शोभा एवं पूर्ण शोभा स्थित नीलोत्पल का, रक्तोत्पल नामक षोडश पदों में, फिर प्रदक्षिणा क्रम से कालादि यज्ञान्त भवोपकरण षोडश देवता का, ईशानकोण में विद्या का, नैर्ऋत्यकोण में अविद्या का, अग्निकोण में अग्नि का, वायुकोण में जल का, पूर्व द्वार में वसुधा का, मण्डल से बाहर कोणों में प्रकृति का, उसके बाहर पूर्वादि दिशाओं का विदिशाओं (कोणों) में ऊपर नीचे उपेन्द्रादि दश सिद्धों का और उसके बाहर सभी दिशाओं में उन चक्रराज का न्यास करे जो अपने तेज समूहों से समस्त जगत् को भासित करते हैं ॥ १९-२९ ॥ न्यस्यैवमर्चनं कुर्यान्मन्त्रमुद्रान्वितेन च। निरीक्षणादिशुद्धेन अर्घ्यस्रक्चन्दनादिना ॥ ३० ॥ यथाक्रमेणोदितानामादिदेवं यजेत् ततः। उपरिष्टात् तु सर्वेषां स्वपदस्थं तु पूर्ववत् ॥ ३१ ॥ एवं मण्डलदेवतान्यासानन्तरं तेषां यथाक्रममर्चनम्, मध्ये उपरिष्टात् पद्मनाभार्चनं च कार्यमित्याह—न्यस्येति द्वाभ्याम् । निरीक्षणादिशुद्धेनेत्यत्रादिशब्देन दहनाप्याय- नादिकं संगृह्यते ॥ ३०-३१ ॥ इस प्रकार मण्डल देवताओं का न्यास करने के बाद यथाक्रम मन्त्र एवं मुद्रादि द्वारा निरीक्षण, दहन और आप्यायन से शुद्ध कर अर्घ्य, माला एवं चन्दनादि द्वारा उनका अर्चन करे । मध्य में ऊपर पद्मनाभ का पूर्व के समान अर्चन करे ॥ ३०-३१ ॥ प्राग्वत् सुसंस्कृते कुण्डे ततः संस्कृत्य पावकम् । तन्मध्ये सर्वमन्त्राणां न्यासं कुर्याच्च यागवत् ॥ ३२ ॥ प्राक् समित्सप्तकेनैवं तर्पयेद् वै यथाक्रमम् । मन्त्रपूतं हि निश्शेषं हवनान्तं सकृत् सकृत् ॥ ३३ ॥ भवन्ति सम्मुखा मन्त्राः साधकस्याग्निमध्यगाः । सा० सं० - 19
२३४ सात्वतसंहिता सन्तर्प्याथ तथा कुर्यात् सहस्रशतसंख्यया ॥ ३४ ॥ एकैकस्य तु वै होमं तिलैराज्यसमन्वितैः । दद्यात् पूर्णाहुतिं पश्चात् सर्वेषां तर्पणे कृते ॥ ३५ ॥ पुनरप्यर्चनं कुर्यादित्य वै मण्डलान्तरे । यथाक्रमेण सर्वेषां पुष्पधूपैस्तु केवलैः ॥ ३६ ॥ सकृद् ध्यानसमेतं तु चतुर्थाप्यथवाष्टधा । क्रमात् समस्तमन्त्राणां परावर्तनमाचरेत् ॥ ३७ ॥ सुशुभेनाक्षसूत्रेण स्वकैर्वा करपर्वभिः । ततोऽर्घ्यकुसुमैर्गन्धैः पूरयित्वा कराञ्जलिम् ॥ ३८ ॥ सर्वदेवमयं मन्त्रं स्मृत्वोच्चार्य च तं क्षिपेत् । सर्वत्र सर्वदानेन क्रमेणेष्ट्वा च भक्तितः ॥ ३९ ॥ प्रदर्श्य सर्वमन्त्राणामेकां मुद्रां च वैभवीम् । प्रणवेन सहस्रांशुसन्निभां सर्वसिद्धिदाम् ॥ ४० ॥ अथैतेषां वह्निमध्ये सन्तर्पणप्रकारं पुनर्मण्डलार्चनपूर्वकजपयज्ञविधिं पुष्पाञ्जलि- समर्पणपूर्वकमुद्रादर्शनं चाह—प्राग्वत् सुसंस्कृते कुण्ड इत्यादिभिः ॥ ३२-४०॥ इसके बाद सुसंस्कृत कुण्ड में अग्नि का संस्कार कर उस अग्नि के मध्य में समस्त मन्त्रों का यज्ञ की तरह न्यास करे ॥ ३२ ॥ प्रथम सात समिधाओं से यथाक्रम अग्निदेव का तर्पण करे । फिर मन्त्र से पवित्र समस्त हवनान्त कर्म अलग कर करे ॥ ३३ ॥ अग्नि के मध्य में रहने वाले मन्त्र साधक के सम्मुख हो जाते हैं । अग्नि के सन्तर्पण के पश्चात् एक लाख की संख्या में हवन करे और घी मिश्रित तिलों से एक-एक मन्त्र द्वारा एक-एक आहुति देवे । इस प्रकार सभी देवताओं के तर्पण के अनन्तर पश्चात् पूर्णाहुति देवे फिर अन्य मण्डल में आकर केवल पुष्प धूप से यथाक्रम अर्चन करे ॥ ३४-३६ ॥ फिर उन मन्त्रों का एक बार, चार बार, अथवा आठ बार ध्यान कर उनका परावर्त्तन करे । यह आवरण आवर्तन मनोहर कवलगट्टा से अथवा हाथ के पर्वों से करे । फिर अर्घ्यपुष्प तथा गन्ध से कराञ्जलि पूर्ण कर, सर्वदेवमय मन्त्र का स्मरण कर, उच्चारण करते हुए उसे ऊपर की ओर फेंक देवे । इस प्रकार पुष्पाञ्जलि समर्पण कर सभी मन्त्रों की एक ही वैभवी मुद्रा प्रदर्शित करे । यह मुद्रा सूर्य के समान तेजस्विनी है और सर्वसिद्धिप्रदा है । इसका प्रयोग प्रणव के साथ करना चाहिये ॥ ३७-४० ॥
दशमः परिच्छेदः २३५ वैभवमुद्रालक्षणकथनम् श्लेष्य पाणितले द्वे प्राङ्नम्रं कुर्याल्लतागणम् । विविक्तमन्तरीकृत्य सहाङ्गुष्ठद्वयेन तु ॥ ४१ ॥ मणिबन्धद्वयं कुर्यात् सुलग्नमतिनिश्चलम् । करयुग्मं सगर्भं तु सन्धार्य स्वधिया चलम् ॥ ४२ ॥ ऊरुमध्यनिषण्णे तु कुर्याद् वै बाहूकूर्परे । गुप्तं कृत्वा प्रयत्नेन बन्धमस्याः समाचरेत् ॥ ४३ ॥ सर्वदा सर्वसिद्धीनामाप्तये त्वमलेक्षण । वैभवमुद्रालक्षणमाह-श्लेष्येति सार्धैस्त्रिभिः । द्वे पाणितले संश्लिष्य अङ्गुलि- गणं नम्रं कृत्वा अङ्गुष्ठद्वयेन सह विविक्तमन्तरीकृत्य मणिबन्धद्वयं सुसंलग्न (मि?म) तिनिश्चलं कृत्वा सगर्भं करयुग्मं तु स्वधिया चलं संधार्य बाहूकूर्परे ऊरु- मध्यनिषण्णे = ऊरुमध्ये निषण्णे स(ति?ती) कुर्यात् । सर्वेषां विभवदेवानां साधारणीयं मुद्रा ॥ ४१-४४ ॥ अब वैभवमुद्रा का लक्षण कहते हैं-दोनो हाथों के तल भाग को एक में सटा देवे । समस्त अङ्गुलियों को मोड़ देवे, दोनो अङ्गुष्ठों से विविक्त स्थान को बन्द कर देवे । दोनो मणिबन्धों को स्थित कर देवे, इस प्रकार सगर्भ दोनों हाथों को अपनी बुद्धि से सचल कर दोनो बाहूकूर्पर को ऊरु के मध्य में स्थापित कर देवे । यह मुद्रा बन्ध सबसे छिपाकर प्रयत्नपूर्वक करना चाहिये । यह सभी विभव देवताओं की साधारणी मुद्रा है । हे अमलेक्षण सङ्कर्षण ! सभी सिद्धियों की प्राप्ति के लिये साधक प्रतिदिन यह मुद्रा प्रदर्शित करे ॥ ४१-४४ ॥ तीर्थमध्ये स्वहृत्पद्मे बिम्बे वेद्यां स्थले तु वा ॥ ४४ ॥ वह्निगर्भे तु निर्धूमे नित्यमस्मिंश्चतुष्टये । मन्त्राणामर्चनं कुर्यात् सिद्ध्यर्थमपि मुक्तये ॥ ४५ ॥ प्रत्यहं तीर्थादिस्थानचतुष्टये भगवदर्चनं कार्यमित्याह-तीर्थेति सार्धेन । वेद्यां बिम्बं विना केवलभद्रपीठ इत्यर्थः । स्थले मण्डल इत्यर्थः ॥ ४४-४५ ॥ तीर्थ के मध्य में, अपने हृत्पद्म में, बिम्ब में, बिम्ब रहित वेदी में (केवल भद्रपीठ में) इन चारों के मण्डल में तथा निर्धूम वह्नि गर्भ में सिद्धि के लिये तथा मुक्ति के लिये नित्य मन्त्र भगवान् का अर्चन करे ॥ ४४-४५ ॥ सजलाञ्जलिपूरैस्तु तीर्थेऽथ हृदयाम्बुजे । भावनामृतजैर्भोगैर्मूर्तेरर्घ्यादिकैर्बहिः ॥ ४६ ॥ समित्सप्तकपूर्वैस्तु साज्यैर्वह्निगतं तिलैः ।
२३६ सात्वतसंहिता तत्तत्स्थानोचितार्चनद्रव्यभेदानाह—सजलेति सार्धेन । एवं सजलाञ्जलिभि- स्तीर्थमध्ये भगवदर्चनं जयाख्येऽपि विशदमुपपादितम्— आधारमासनं ध्यात्वा जलमध्येऽच्युतस्य च । मन्त्रग्रामसमोपेतमाहूय विनिवेश्य तम् ॥ तर्पयेदुदकेनैवं विष्वक्सेनावसानकम् । स्वेन स्वेन तु मन्त्रेण पाणिभ्यामग्रतः क्रमात् ॥ (९।५५-५६) इत्यादिभिः । एवं पारमेश्वरेऽपि करशुद्धिसमोपेतमित्यादिभिरष्टभिः श्लोकै- र्जलमध्यार्चनक्रमो विस्तरेणोक्तः । वस्तुतस्तु पारमेश्वरोक्तरीत्या जलमध्येऽर्चनात् पूर्वमेव करशुद्धिप्राणायामभूतशुद्धिमन्त्रन्यासभगवत्तादात्म्यावलम्बनानुष्ठानमुचितम् । बिम्बार्चनप्रकरणे मानसार्चनात् पूर्वं तदनुष्ठानोक्तिस्त्वौदकस्नानाद्यशक्त्या तीर्थमध्ये भगवदर्चनमकृतवद्विषयेति बोध्यम् । ननु “नित्यमस्मिंश्चतुष्टये । मन्त्राणामर्चनं कुर्यात्” (१०।४५) इत्युक्त्या जलमध्येऽर्चनं कृतवतैव मानसार्चनादिकं कार्यमिति चेन्न, यावज्जीवं यथाशक्ति संस्थितो यत्र कुत्रचित् । स्थानेषु हृदयाद्येषु कुर्यान्मन्त्रगणार्चनम् ॥ द्रव्यैः पुष्पाम्बुपूर्वैस्तु तदभावात् तु वै हृदि । मानसीं पूर्ववत् पूजां निर्वपेन्न्यासपूर्विकाम् ॥ (१७।१२६-१२७) इत्यशक्तानां हृदयादिस्थानेष्वन्यतममात्रार्चनस्यापि वक्ष्यमाणत्वात् । किञ्च, पारमेश्वरे तीर्थमध्यार्चनं मानसार्चनं च होमान्तमुक्तम् । सात्वतनिष्ठैस्तु जपयज्ञान्तमेव कार्यम् । यतोऽत्र सप्तदशे परिच्छेदे— ध्यात्वाऽथ भावनाजातैर्भोगैः परमपावनैः ॥ पूजयित्वा जपान्तं चाप्यवतार्य बहिर्यजेत् । (१७।४२-४३) इति जपान्तमेव वक्ष्यति ॥ ४६-४७ ॥ तीर्थ और हृत्कमल में पूर्ण जलाञ्जलि द्वारा अर्चन करे और भावनामृत से उत्पन्न भोगों से अथवा मूर्ति एवं अर्घ्यादिकों से बाहर अर्चना करे ॥ ४६-४७ ॥ पूजयित्वा यथान्यायं प्रत्येकस्मिन् पदे क्रमात् ॥ ४७ ॥ संन्यासं सञ्चयं वापि कृत्वा सम्यक् कृतस्य वै । मन्त्ररूपानुकारिण्या मुद्रणीयं च मुद्रया ॥ ४८ ॥ एवं तीर्थमध्यादिपदेषु क्रमेण भगवन्तमभ्यर्च्य तत्तदर्चनानन्तरं निष्कामश्चेत् कृतस्य कर्मणः परित्यागं कुर्यात्, सकामश्चेत् तदार्चनं कुर्यात् । उभयत्रापि पूर्वोक्त- मुद्राबन्धं कुर्यादित्याह—पूजयित्वेति सार्धेन । ननु फलान्तरसम्पादककर्मणां निष्कामत्याज्यत्वमुचितम्, प्राधान्येन मोक्ष- सम्पादकभगवदाराधनकर्मणोऽपि त्याज्यत्वं कथमुक्तमिति चेन्न, सिद्धोपायनिष्ठै- र्भगवदाराधनकर्मणोऽपि स्वयं प्रयोजनतयाऽनुष्ठेयत्वात् ॥ ४७-४८ ॥
दशमः परिच्छेदः २३७ इस प्रकार क्रमशः प्रत्येक पद में समिधाओं से घृत युक्त तिलों से होम करे और यथोक्त पूजन करे । फिर अपने किये हुए कर्म का त्याग करे अथवा उसका सञ्चय करे । फिर मन्त्र रूप का अनुकरणवाली मुद्रा से उसे मुद्रित कर देवे ॥ ४७-४८ ॥ फलार्थं प्रसवं येन नैति संन्यासकारिणाम् । फलपर्यवसानं च कालमागमचोदितम् ॥ ४९ ॥ हर्तुं नो युज्यते येन सिद्धाद्यैस्तु फलार्थिनाम् । ननु संचितकर्मणामुपरि मुद्राबन्धः समुचितः । संन्यस्तकर्मणामुपरि मुद्राबन्धेन किं प्रयोजनमित्याशङ्कायामुभयत्रापि सार्थक्यमाह—फलार्थमिति सार्धेन । येन मुद्रा- बन्धेन हेतुना संन्यासकारिणां कर्मत्यागिनां फलार्थं प्रसवं पुष्पमेव नैति = नोत्पद्यत इत्यर्थः । फलार्थिनां कर्मसंचितवतां तु शास्त्रोक्तफलानुभवकालपर्यन्तं येन मुद्राबन्धेन हेतुना सिद्धाद्यैरन्यैर्हर्तुं नो युज्यते । यथा जतुमुद्रितधनग्रन्थेर्धनमनपहार्यं भवति, तथा कर्माप्यन्यैरनपहार्यं भवतीति भावः ॥ ४९-५० ॥ तीर्थ के मध्य आदि स्थानों में भगवान् की अर्चना के पश्चात् यदि साधक निष्काम हो तो कर्म का भगवान् को समर्पण कर देवे और यदि सकाम हो तब उसका अर्जन करे । इन दोनों विधियों में पूर्वोक्त मुद्राबन्ध अवश्य करे । क्योंकि सन्यास लेने वाले साधक को कर्म में मुद्राबन्ध कर देने से उसमें फल देने के लिये पुष्प ही नही आता । किन्तु जो कर्म का फल चाहते हैं या उसका अर्जन करना चाहते हैं उन्हें शास्त्रोक्त फलानुभव काल पर्यन्त मुद्रा बन्ध से कोई सिद्ध आदि जन भी उसकी चोरी नहीं कर सकता ॥ ४९-५० ॥ कालानुकालमुद्राणां यो बन्धः परिचोदितः ॥ ५० ॥ उक्तप्रयोजनादन्यः स विघ्नविनिवृत्तये । एवं पूजानन्तरकालीनमुद्राया उक्तं प्रयोजनं संभवति, पूजामध्यकालेषूक्तानां कर्मणां किं प्रयोजनमित्याकाङ्क्षायां विघ्ननिवृत्तिरूपं फलमाह—कालेति ॥ ५१ ॥ उक्त प्रयोजन से अतिरिक्त समय-समय पर मुद्रा बन्ध का फल यह होता है कि वह विघ्न की विनिवृत्ति करता है ॥ ५०-५१ ॥ मुदं कर्मात्मतत्त्वानां ददात्यमलयाजिनाम् ॥ ५१ ॥ द्रावयित्री च दोषाणां बाह्याभ्यन्तरचारिणाम् । तेन मुद्रा समाख्याता कृतस्यापि च मुद्रणात् ॥ ५२ ॥ एतदुभयप्रयोजनानुसारेण मुद्राशब्दनिर्वचनमाह—मुदमिति सार्धेन । अमल- याजिनां शुद्धयाजिनामित्यर्थः । कर्मात्मतत्त्वानां यजनादिकर्मनिष्ठचेतनानामित्यर्थः । दोषाणामिति कर्मणि षष्ठी । एवं च मुद्राशब्दे मुदित्यत्र ददातीति शेषः । द्रेत्यत्र दोषा-
२३८ सात्वतसंहिता निति शेषः । पूजामध्यकालीनमुद्राणां प्रयोजनानुसारीदं निर्वचनम् । मु(द्राणां?द्रणाद्) मुद्रेति निर्वचनं तु पूजानन्तरकालीनमुद्राया इति ज्ञेयम् ॥ ५१-५२ ॥ निष्कपट रूप से याग करने वाले उस महात्मा साधक को मुद्रा बन्ध प्रसन्नता प्रदान करता है तथा साधक के बाह्य एवं आभ्यन्तर रहने वाले समस्त दोषों को दूर करता है । (मोदयतीति मुद् तद्दरदाति मुद्रा यद्वा दोषान् द्रावयतीति मुद्रा) इतना ही नहीं 'कृतं मुद्रयतीति मुद्रा' इसलिये उसे मुद्रा कहते हैं । इस प्रकार वह प्रसन्नता प्रदान करता है, दोषों को दूर करता है, विघ्न नहीं होने देता, कर्म पर मुहर लगा देता है, जिससे कोई उसे चुरा न सके ॥ ५१-५२ ॥ तस्मात् स्वाभाविकं कृत्वा बद्धं वा मानसं पुरा । स्वेन स्वेन तु मन्त्रेण स्मरेद् व्याप्तिं सदैव हि ॥ ५३ ॥ कायिकं मानिसकं वा मुद्राबन्धं कृत्वा तत्र तत्तन्मन्त्रव्याप्तिं स्मरेदित्याह—तस्मा- दिति । मानसार्चने मानसिको मुद्राबन्धः, बाह्यार्चने कायिक इति विवेकः ॥ ५३ ॥ इस कारण बाह्य अर्चन में शारीरिक मुद्रा बन्धन करे, अथवा मानसिक अर्चन में मानसिक रूप से मुद्रा बन्धन करे ॥ ५३ ॥ चैतन्येनानुविद्धो यः शाखासंघश्च यद्यपि । तत्रापि मन्त्रोऽत्राध्यक्षस्तत्कार्यं सम्प्रयच्छति ॥ ५४ ॥ केवलचैतन्यानुविद्धाङ्गुलिगणस्यैवं विघ्ननिवृत्त्यादिफलप्रदानसामर्थ्यं मन्त्रा- धिष्ठितत्वात् संभवतीत्याह—चैतन्येनेति ॥ ५४ ॥ चैतन्याधिष्ठित अङ्गुलियों से ही मुद्रा बन्धन करने से मन्त्राधिष्ठित देवता विघ्न निवृत्यादि फल प्रदान करते हैं ॥ ५४ ॥ मण्डलस्थदेवानामुपसंहारक्रमकथनम् एवं कृते ततः कुर्यान्मन्त्राणां मण्डलान्तरात् । पूर्ववच्चोपसंहारमेकस्मिन् गगनस्थिते ॥ ५५ ॥ स्मृत्वा परात्मना तं च स्वसंविद्गगने हृदि । विश्रान्तं भावयेद् देवं स्वभावेन समन्वितम् ॥ ५६ ॥ मण्डलस्थदेवानामुपसंहारक्रममाह—एवमिति द्वाभ्याम् । एकस्मिन् गगनस्थिते पद्मनाभ इत्यर्थः । परात्मना = निष्कलरूपेणेत्यर्थः । स्वसंविद्गगने = नादान्तर्गगन इत्यर्थः ॥ ५५-५६ ॥ अब मण्डल स्थित देवताओं का उपसंहार क्रम कहते हैं—ऐसा कर देने के पश्चात् उस मण्डल से सभी मन्त्र देवताओं का गगन स्थित एक पद्मनाभ में, निष्कल परमात्मा में, अथवा नादान्तर्गत हृदरूप गगन में पूर्ववत् किसी एक में उपसंहार कर देवे ॥ ५५-५६ ॥
दशमः परिच्छेदः २३९ द्विजातेर्दत्तशिष्टस्य पुष्पपत्रादिकस्य च । विहितश्चाम्भसि त्यागो विष्वक्सेनार्चने कृते ॥ ५७ ॥ कारिप्रदानाद्यवशिष्टनैवेद्यपत्रपुष्पफलादीनां विष्वक्सेनार्चनानन्तरं जलमध्ये प्रक्षेपमाह—द्विजातेरिति ॥ ५७ ॥ काम करने वाले तथा द्विजातियों को देने से बचे हुए अन्न को विष्वक्सेन की पूजा के अनन्तर जल में फेंक देवे ॥ ५७ ॥ धर्तव्यं न चिरं चाग्रे यत्पुरा विनिवेदितम् । नैवेद्यं मन्त्रमूर्तीनां किञ्चित् पुष्पफलादृते ॥ ५८ ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां विभवदेवतार्चन नाम दशमः परिच्छेदः ॥ १० ॥ — ❦ ❁ ❧ — तत्र हेतुमाह—धर्तव्यमिति । यद्यस्मात् कारणात् पुरा निवेदितं मन्त्रमूर्तीनां नैवेद्यं भगवन्निवेदितहविरादिकं किञ्चित् पुष्पफलादृते स्वप्राशनोपयुक्तं किञ्चिद् भागं विनाऽ- न्यत् सर्वं चिरं बहुकालं न धार्यम् । शीघ्रं जलमध्ये प्रक्षेप्तव्यमित्यर्थः । इममेवार्थं सुस्पष्टं वक्ष्यति सप्तदशे परिच्छेदे च— ततो विसर्जनं कुर्यादुपसंहृत्य चाखिलम् । विनिक्षिप्याम्भसो मध्ये पत्रपुष्पफलादि यत् ॥ निष्कामः पावनार्थं तु स्तोकमुद्धृत्य वै पुरा । संधार्य मन्त्रपूतं प्राक् तमश्नीयाच्च मौनवान् ॥ —(१७।१४५-१४६) इति । ननु स्तोकमुद्धृत्य वै पुरेत्यत्र किं विष्वक्सेनार्चनात् पूर्वमेव स्तोकोद्धरणम्, अथवा तदर्चनान्तरं जलप्रक्षेपात् पू(र्वं वेत्या?र्वमित्या)काङ्क्षायां तत्पक्षद्वयमप्युपपन्न- मिति ज्ञेयम् । यतः पारमेश्वरे— स्वप्राशनार्थमेकांशं स्थापयित्वा निरीक्षितम् । शेषाशनाभिधानस्य गणेशस्यार्चनाय वै । भागमेकं तु संस्थाप्य भागेनान्येन तोषयेत् । ब्राह्मणादीन् शुभाचारान् भक्तान् ग्रामाधिवासिनः ॥ इति विष्वक्सेनार्चनात् पूर्वमेव स्वप्राशनार्थभागोद्धरणमुक्तम् । तत्रैव महाहविः प्रकरणे तु—
२४० सात्वतसंहिता प्रक्षिपेज्जलमध्ये तु विष्वक्सेननिवेदितम् ॥ जलजानां नीरगाणां जन्तूनां तृप्तयेऽथवा । जले किञ्चिद् विनिक्षिप्य शेषमन्नं तदग्रतः ॥ तद्भक्तानां द्विजातीनां निरतानां स्वकर्मसु । —(पा०सं०१८।४०५-४०७) इति तन्निवेदितस्वीकारोऽप्युक्तः । अतएवं सच्चरित्ररक्षायाम्—"विष्वक्सेन- निवेदिते च विकल्पभेदास्तत्तत्संहितानुसारेण प्रयोगपद्धतिरत्नावल्यादिषु भोजराजा- दिभिः स्थापिता द्रष्टव्याः" (पृ० ११७) इत्युक्तम् ॥ ५८ ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये दशमः परिच्छेदः ॥ १० ॥ — ❦ ☸ ❧ — जो अन्नादि मन्त्र मूर्त्तियों को निवेदन कर दिया गया है उसमें पुष्प फलादि किञ्चिन्मात्रा में शेष रख कर जल में प्रवाहित कर देवे । बहुत काल तक अपने पास में न रखे । विमर्श—सत्रहवें परिच्छेद में १४५-१४६ श्लोक में विसर्जन का विधान किया गया है; जो शीघ्रातिशीघ्र करना चाहिए ॥ ५८ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के विभवदेवतार्चन नामक दशम परिच्छेद की हिन्दी समाप्त हुई ॥ १० ॥ — ❦ ☸ ❧ —
एकादशः परिच्छेदः मण्डलकुण्डलक्षणम् नारद उवाच श्रुत्वैवमच्युतमुखाद् वनमाली मुनीश्वराः । पुनः सञ्चोदयामास यदाकर्णयताद्य तत् ॥ १ ॥ अथैकादशपरिच्छेदो व्याख्यास्यते । अत्र सङ्कर्षणेन भगवान् यत्सम्पृष्टस्तदा- कर्णयतेत्याह—श्रुत्वेति ॥ १ ॥ श्री नारद जी ने कहा—वनमाली सङ्कर्षण ने इस प्रकार अच्युत श्रीकृष्ण के मुख से सुन कर पुनः जो पूछा, हे मुनीश्वरों ! उसे सुनिये ॥ १ ॥ सङ्कर्षण उवाच यथावज्ज्ञातुमिच्छामि मण्डलध्यानलक्षणम् । भगवन् भवभीतानामुपकाराय तद्वद ॥ २ ॥ सङ्कर्षणः पृच्छति—यथावदिति ॥ २ ॥ सङ्कर्षण ने कहा—हे भगवन् ! अब मैं मण्डल एवं ध्यान का लक्षण जानना चाहता हूँ । अतः संसार से भयभीत भक्तों के उपकार के लिये उसे कहिये ॥ २ ॥ श्रीभगवानुवाच संसाध्य यष्टियोगेन सूत्रात् पूर्वापरे पुरा । तद्दिगद्वयान्तरे दद्यात् प्राग् वै सूत्रचतुष्टयम् ॥ ३ ॥ समांशेन द्विधा कृत्वा स्फुटं मध्यात् तदङ्कय च । साधितेनार्धमानेन प्राक्प्रत्यक्स्थेन तन्तुना ॥ ४ ॥ दक्षिणोत्तरभागाभ्यां समुत्पाद्य चतुष्यथौ । सूत्रं पूर्वापरसमं कृत्वा तदुपरि क्षिपेत् ॥ ५ ॥ पुनरर्धसमं दिक्षु दत्वा कोणचतुष्टयम् । चतुष्पथचतुष्केण नयेद् भक्तिं प्रसार्य वै ॥ ६ ॥
२४२ सात्वतसंहिता समं सूत्रचतुष्कं च चतुरश्राश्रसिद्धये । तद्विभाज्याष्टदशाभिश्चतुर्दिक्षु पदैः समैः ॥ ७ ॥ क्षिपेत् सूत्रगणं तत्र घटिकारेणुरञ्जितम् । मध्ये पद्मावनिं कुर्याद् भागपङ्क्तित्रये क्रमात् ॥ ८ ॥ तद्बहिः पदपङ्क्त्या तु पीठमष्टदिगान्वितम् । तस्य भागचतुष्कोत्थं दिक्चतुष्कं प्रकल्प्य च ॥ ९ ॥ विदिक्कचतुष्कं त्रिपदं पङ्क्त्या पीठप्रदक्षिणम् । प्रदक्षिणं क्षितेर्बाह्याच्चतुष्कं दिक्चतुष्टयात् ॥ १० ॥ चतुर्णां तु चतुर्णां तु बाह्याद् बाह्यं द्वयं द्वयम् । शोधयित्वा तु तद्बाह्याच्चतुष्कं द्वारसिद्धये ॥ ११ ॥ चतुष्टयं क्रमेणैव भूयो दिक्षु पदं पदम् । सबाह्याभ्यन्तरगतं शोधनीयं प्रयत्नतः ॥ १२ ॥ पुनः सर्वपदाभ्यां तु षट्कं षट्कं तु चान्तरात् । संमार्ज्य पूर्णशोभार्थं तत्र रक्तोत्पलाष्टकम् ॥ १३ ॥ यथा दिक्षु स्थितं कुर्यात् पूजनाय दिवौकसाम् । बाह्यस्थपदपाश्र्वात् तु त्रीणि त्रीणि च लोपयेत् ॥ १४ ॥ त्रयाणामन्तरस्थं यत्यदमेकात्मतां नयेत् । उपशोभं तु तं विद्धि कुर्यान्नीलाब्जभूषितम् ॥ १५ ॥ पञ्चकं पञ्चकं कोणाद् वीथौ नीत्वा लयं पुरा । शेषैः कोणं तु निर्वर्त्य सान्तरं च ततो बहिः ॥ १६ ॥ दद्यात् सूत्रत्रयं चैव मध्येऽथ कमलं लिखेत् । तेन पृष्टो भगवान् पूर्वं मण्डललक्षणमाह—संसाध्य यष्टियोगेनेत्यारभ्य क्रमाद् रेखागणं बहिरित्यन्तम् । अस्यैवं प्रयोगः—संसाध्य यष्टियोगेनेत्याद्युक्तप्रकारेण वेदि- कोपरिभागं सूत्रपातादिना चतुरश्रीकृत्य तत्क्षेत्रं समैरष्टादशपदैर्विभज्य घटिकारेणुरञ्जितं सूत्रगणं तत्र प्रक्षिप्य मध्ये पङ्क्तित्रयस्य षट्त्रिंशत्कोष्ठेषु पद्मं कुर्यात् । तद्बहिरेकया पङ्क्त्या पीठं कुर्यात् । तत्र चतुर्भिश्चतुर्भिः कोष्ठैः प्रागादिदिक्चतुष्टयं त्रिभिस्त्रिभिः कोष्ठैराग्नेयादिविदिक्चतुष्टयं कुर्यात् । तद्बहिरेकया पङ्क्त्या प्रदक्षिणविधिं कृत्वा तद्बहिः पङ्क्तिद्वये पूर्वादिदिक्षु पूर्णशोभाचतुष्टयसिद्ध्यर्थं प्रागादिष्वन्तःपङ्क्त्यां कोष्ठचतुष्कं बहिःपङ्क्त्यां कोष्ठद्विकं चैकीकृत्य तद्बहिः पूर्वादिषु पङ्क्तिद्वयस्थ- कोष्ठचतुष्केण चतुर्द्वाराणि परिकल्प्य पूर्णशोभापार्श्वयोरर्धशोभासिद्ध्यर्थं बहिः- पङ्क्त्यां कोष्ठद्विकमन्तः पङ्क्त्यामेकं कोष्ठं चैकीकृत्य प्रागादिपूर्णशोभाचतुष्के रक्तोत्पलाष्टकमर्धशोभाष्टके नीलोत्पलाष्टकं च विलिखेत् । आग्नेयादिविदिक्षु उपशो-
एकादशः परिच्छेदः २४३ भयोरन्तरालेऽन्तःपङ्क्तिस्थं कोष्ठपञ्चकं वीथ्या सहैकीकृत्य बहिःपङ्क्तिस्थकोष्ठ- सप्तकेन कोणानि तद्बहिः पङ्क्तिद्वये सान्तरं रेखात्रयं कृत्वा मध्ये षट्त्रिंशद्दलंसंयुक्तं कमलं लिखेत् ॥ ३-१७ ॥ श्री भगवान् ने कहा—लाठी की तरह सूत्र को नीचे गिरा कर उससे वेदी का ऊपरी भाग अच्छी तरह चौकोर बना लेवे । उस वेदी के क्षेत्र को समान रूप से १८ भागों में विभक्त कर, घटिका रेणु से रञ्जित सूत्र को प्रक्षिप्त कर मध्य की तीन पङ्क्तियों में स्थित ३६ कोष्ठकों में कमल निर्माण करे । उसके बाहर एक पङ्क्ति में पीठ निर्माण करे । उसमें चार- चार कोष्ठों से युक्त पूर्वादि चारों दिशाओं का, फिर तीन-तीन कोष्ठों से युक्त आग्नेयादि चार वि दिक् (कोण) दिशा का निर्माण करे । उसके बाद बाहर एक पङ्क्ति में प्रदक्षिणा के लिये वीथी बनावे । उसके बाहर दो पङ्क्ति में पूर्वादि चारों दिशाओं में पूर्ण शोभा चतुष्टय की सिद्धि के लिये पूर्वादि दिशाओं की अन्त वाली पङ्क्ति में चार कोष्ठ बनावे और बाहर की पङ्क्ति में दो कोष्ठ को एक में मिला देवे । उसके बाहर पूर्वादि दिशाओं में दो पङ्क्ति में स्थित चार कोष्ठ में चार द्वार बनावे । पूर्ण शोभा वाले दोनों पार्श्व में अर्ध शोभा की सिद्धि के लिये बाहर की पङ्क्ति में दो कोष्ठक और अन्तः पङ्क्ति में एक कोष्ठक इन दोनों को एक में मिला देवे । पूर्वादि पूर्ण शोभा वाले चार कोष्ठक में आठ रक्तोत्पल अर्ध शोभाष्टक में नीलोत्पल का निर्माण करे । आग्नेयादि कोणों में रहने वाले दो-दो उपशोभा के अन्तराल में भीतरी पङ्क्ति में पाँच कोष्ठक को वीथी के साथ एक में मिला देवे । बाहरी पङ्क्ति में रहने वाले कोष्ठ सप्तक से कोण, उसके बाहर दो पङ्क्ति के अन्तर में तीन रेखा बना देवे । फिर मध्य में छत्तिस दल का कमल बनावे ॥ ३-१७ ॥ षट्त्रिंशद्ददलयुक्तं तस्य लक्षणमुच्यते ॥ १७ ॥ पीठावनिसमीपे तु चतुर्थांशपदात् पुरा । समुद्धृत्य भ्रमं कुर्याद् ब्रह्मस्थानाच्च तन्तुना ॥ १८ ॥ दिक्सूत्राणां चतुर्णां तु एकैकं हि यदन्तरम् । वृत्तावधेः समैर्भागैः पत्रसंख्यैर्विभज्य च ॥ १९ ॥ षड्भिर्हीनं शतं सार्धं सूत्राणां तत्र निक्षिपेत् । सूत्रं प्राक्पदसंस्थं यत् तदाश्रित्याब्जपल्लवम् ॥ २० ॥
२४४ सात्वतसंहिता कुर्याद् भागचतुष्केण यथा तदवधारय । तत्रकारः—पीठावनिसमीपे पादाच्चतुर्थांशं विहाय ब्रह्मस्थानगतेन तन्तुना भ्रमणं कृत्वा तद्वृत्तमध्ये पूर्वपश्चिमायतमेकं सूत्रं तदुपरि दक्षिणोत्तरायतमेकं सूत्रं च दत्वा दिक्सूत्राणां चतुर्णामेकैकं यदन्तरालं तद्वृत्तावधेः समैर्भागैर्नवधा नवधा विभज्यै- कैकं भागं पुनश्चतुर्धा चतुर्धा विभज्य सूत्राणि प्रक्षिपेत् । आहत्य चतुश्चत्वारिंश- दुत्तरशतसूत्राणि भवन्ति । तत्र प्राग्दिक्सूत्रमारभ्य चतुर्भिborderश्चतुर्भिर्भागैरेकैकं दलं कुर्यात् ॥ १७-२१ ॥ अब कमल निर्माण का प्रकार कहते हैं—पीठ की भूमि के समीप एक पाद का चौथा अंश छोड़कर ब्रह्म स्थान पर स्थित तन्तु से घुमा कर वृत्त बनावे । उस वृत्त के मध्य में पूर्व पश्चिम की ओर एक आयतन सूत्र से नापे । उसके ऊपर दक्षिणायतन एक सूत्र लगाकर दिशाओं में स्थित चार सूत्रों के अन्तराल में वृत्तावधि पर्यन्त सम भाग से नव-नव भागों में प्रविभक्त करे । फिर एक-एक भाग को चार-चार भागों में प्रविभक्त करे । फिर सूत्र फेंक देवे । इस प्रकार कुल जोड़ कर १४४ सूत्र होंगे । उसमें पूर्व दिशा के सम से आरम्भ कर चार-चार भागों का एक दल निर्माण करे । इस प्रकार कुल छत्तिस कमल दल का निर्माण हो जायेगा ॥ १७-२१ ॥ सव्यापसव्ये ये सूत्रे अन्तरस्य निरन्तरे ॥ २१ ॥ तयोरंशं समं कुर्याद् दलाग्रादङ्कमन्तरे । तदुद्देशात् तु सूत्रेण तदङ्कान्तर्गतेन च ॥ २२ ॥ अर्धचन्द्रद्वयं कुर्यात् तेन सूत्रेण वै समम् । पुनरभ्यन्तरे सूत्रं तत्सूत्राभ्यां निरोध्य च ॥ २३ ॥ पत्राग्रमानयेत् तस्माद् बहिस्तं शृङ्गसन्निधेः । लाञ्छ्यमानं दलाग्रं तु विधिनानेन सिद्ध्यति ॥ २४ ॥ दलाग्रब्रह्मदेशाभ्यां तुरीयांशेन चान्तरात् । भ्राम्य वै कर्णिकावृत्तं द्व्यंशमानेन केसरम् ॥ २५ ॥ दलाग्रगांशं वै मध्याद् व्योमार्थं भ्रामयेत् ततः । कृत्वैवं वर्णकैः पूतैः पूरणीयं महोज्ज्वलैः ॥ २६ ॥ तत्रकारः—एकस्मिन् भागे मध्यमसूत्रस्य दक्षिणभागयोरव्यवहिते ये सूत्रे, तयोरन्तरालं यत्प्रमाणं तत्प्रमाणसमं दलाग्रान्मध्यमसूत्रे लाञ्छनं कृत्वा तल्ला- ञ्छनान्तर्गतेन सूत्रेण दलाग्रमारभ्य सव्यदक्षिणयोरर्धचन्द्राकाररेखाद्वयं विलिख्य पुनरभ्यन्तरस्थं सूत्रं तद्रेखाभ्यां संयोज्य तस्मात् शृङ्गसन्निधेर्बहिः पत्राग्रं चानयेत् । ततो दलाग्रब्रह्मदेशयोन्तरालं यत्प्रमाणं तच्चतुर्थांशेन मध्यात् कर्णिकार्थं मण्डलं परिभ्राम्य तद्द्विगुणमानेन केसरार्थं वृत्तं परिभ्राम्य दलाग्रांशमध्येऽपि व्योमार्थमेकं मण्डलं परिभ्रामयेत् । एवं कृत्वा ततो वर्णपूरणं कुर्यात् ॥ २१ - २६ ॥
एकादशः परिच्छेदः २४५ उसका प्रकार कहते हैं—किसी एक भाग में मध्य सूत्र के दाहिनी ओर दो भागों में बिना व्यवधान के जो दो सूत्र स्थापित हैं, उनके अन्तराल का जितना प्रमाण है उतने अन्तराल के समान दल के आगे वाले मध्य सूत्र में चिह्न बनावे । फिर उस लाञ्छन के भीतर वाले सूत्र से दल के अग्रभाग से आरम्भ कर बायीं एवं दाहिनी दोनों ओर अर्धचन्द्राकार दो रेखा बनावे । फिर अनास्थ सूत्र को उस रेखा से मिला कर वहाँ से शृङ्ग सन्निधान से बाहर पत्र के आगे तक ले जावे। फिर दलाग्र से ब्रह्म देश तक का जितना प्रमाण है, उसके चतुर्थांश से मध्य देश से कर्णिका के लिये, मण्डल घुमाकर, उसके दूने मान से केसर के लिये वृत्त (गोला) घुमाकर दल के अग्रांश के मध्य में गोला (= व्योम) के लिये एक मण्डल घुमावे । इतना करने के पश्चात् उसमें उज्ज्वल एवं पवित्र रङ्ग भर देवे ॥ २१-२६ ॥ उच्चाग्रविततां पीतां सबीजां विद्धि कर्णिकाम् । रेखान्वितानि पत्राणि सर्वाणि सुसितानि च ॥ २७ ॥ केसरत्रितयं कुर्यात् पत्रे पत्रेऽरुणप्रभम् । दलान्तरालमसितं वृत्तबाह्यं ज्वलत्प्रभम् ॥ २८ ॥ सितानि पीठकोणानि रक्तं तद्दिक्चतुष्टयम् । राजोपलप्रभां वीथीं पत्रमालाद्यलङ्कृताम् ॥ २९ ॥ पश्चिमांशाद् विना सर्वद्वाराण्यम्बुजपत्रवत् । कृष्णानि सर्वशोभानि द्वारोद्देशस्थितानि च ॥ ३० ॥ तदर्धाकृतितुल्यानि तूपशोभानि गर्भवत् । कोणानि केसराभानि सितशङ्खान्वितानि च ॥ ३१ ॥ शोणहेमादिवर्णं च क्रमाद् रेखागणं बहिः । तत्प्रकारः—कर्णिकां पीतवर्णेन, पीठदिक्चतुष्टयं र(ले?क्ते)न, तत्कोणचतुष्कं श्वेतेन, प्रदक्षिणविधिं कृष्णवर्णेनापूर्य, वीथ्यां नानावर्णैः पत्रमालादींश्च विलिख्य, पश्चिमांशं विना सर्वद्वारा(णि) अपि मध्यस्थितकमलदलवत् श्वेतेन, पूर्णशोभा- चतुष्टयमपि कृष्णवर्णेन, अर्धशोभाष्टकं कमलगर्भवत् पीतेन, कोणानि केसरवद् रक्तेन चापूर्य, कोणेषु श्वेतरेखाभिः शङ्खांश्च विलिख्य, रक्तपीतश्वेतवर्णैः क्रमेण रेखात्रयं पूरयेत् । एवं मण्डललेखनप्रकारः ॥ २७-३२ ॥ रंग भरने का प्रकार कहते हैं—ऊपर को उठी हुई कर्णिका पीत वर्ण से रंगे और पीठ की चारों ओर की दिशायें लाल वर्ण से, उसके चारों कोण श्वेत रङ्ग से और प्रदक्षिणा विधि काले वर्ण से पूर्ण करे । वीथी में अनेक वर्ण के पत्र माला आदि का निर्माण करे । पश्चिम दिशा को छोड़कर सभी द्वारों को, मध्य में स्थित कमल दल के समान श्वेत रंग से, पूर्ण शोभा चतुष्टय को कृष्ण वर्ण से, अर्ध शोभाष्टक को कमल गर्भ के समान पीत वर्ण से तथा कोणों को केसर के समान
२४६ सात्वतसंहिता रक्त वर्ण से पूर्ण कर कोणों पर श्वेत रेखा से शङ्ख बना कर रक्त, पीत एवं श्वेत वर्णों से क्रमशः तीन रेखाओं को पूर्ण करे । यहाँ तक मण्डल लेखन का प्रकार कहा गया ॥ २७-३२ ॥ कृत्वैवमनुसन्धाय सर्वात्मत्वेन देहवत् ॥ ३२ ॥ रजांसि विद्धि भूतानि सितपीतादिकानि च । तन्मात्राण्युपशोभानि शोभानि करणानि तु ॥ ३३ ॥ एवं सर्वाणि कोणानि सद्द्वाराणीन्द्रियाणि च । बहिरावरणं यद्वै सत्त्वाद्यं त्रितयं हि यत् ॥ ३४ ॥ मनः सुवितता वीथी गर्वः पीठमुदाहृतम् । धीः पद्मं तदधिष्ठाता बीजात्मा चिन्मयः पुमान् ॥ ३५ ॥ एतन्मण्डलस्य भगवच्छरीरतयाऽत्रापि प्रसिद्धदेहवद् भूततन्मात्राणि दर्शयति— कृत्वैवमित्यादिभिः ॥ ३२-३५ ॥ यतः यह मण्डल भगवान् का शरीर है इसलिये प्रसिद्ध देह के समान इसमें भी भूत और तन्मात्रायें है । इसे कह रहे हैं—रजादिकों को पञ्चभूत समझे और सित पीतादि वर्णों को तन्मात्रा समझे तथा उपशोभाओं को शोभा और करण समझे । इसी प्रकार सभी कोणों को द्वार सहित इन्द्रियाँ समझे, जो बाहर के आवरण हैं । वही सत्त्वादि त्रितय हैं, मन विस्तृत वीथी है, पीठ गर्व है, पद्म धी (= बुद्धि) है और उसका अधिष्ठाता पुमान् चिन्मय बीजात्मा है ॥ ३२-३५ ॥ अमूर्त ईश्वरश्चात्र तिष्ठत्यानन्दलक्षणः । यस्य सन्दर्शनादेव शश्वद्भावः प्रसीदति ॥ ३६ ॥ ससङ्गानामसङ्गानां वपुष्पाते कृते सति । प्रायशो मुक्तिभाजां च त्विह जन्मैकशेषिणाम् ॥ ३७ ॥ देव आस्ते ज्ञतां हित्वा बहिरन्तश्च कर्मिणाम् । अन्यथा दृष्टमात्राद् वै कथमाह्लादमेति वै ॥ ३८ ॥ अन्तः संवेदनसमम् अस्तित्वप्रतिपादकम् । यद्यत् स्वलक्षणं तत्त्वं तत्तत् सर्वत्र सिद्धिगम् ॥ ३९ ॥ मण्डले भगवदवस्थानं सहेतुकमाह—अमूर्त इत्यादिभिः ॥ ३६-३९ ॥ इस प्रकार आनन्द लक्षण ईश्वर बिना मूर्त्ति के इस मण्डल में स्थित है । जो सहेतुक है इसके दर्शन मात्र से शाश्वत भाव प्रसन्न हो जाता है । सङ्ग युक्तों के एवं सङ्ग रहितों के, प्रायः मुक्तिभाजों के, अथवा एक जन्म मात्र शेष लोगों के कर्म कर्त्ताओं के शरीर पात कर देने पर भी इसमें बाहर और भीतर ज्ञान को