सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 315, कुल 837 में से
संदर्भ में पढ़ें२५६ सात्वतसंहिता हस्तं सहस्रहोमे तु अयुताख्ये द्विहस्तकम्। लक्षहोमे चतुर्हस्तं कोटिहोमेऽष्टहस्तकम्॥ —(१५।१२-१४) इति। द्वादशाङ्गुलादिकुण्डानां मेखलाप्रमाणमपि तत्रैव स्पष्टमुक्तम्— प्रमाणं मेखलानां च यवद्वादशसंमितम्॥ द्वादशाङ्गुलमानस्य कुण्डस्य परिकीर्तितम्। विस्तारतुल्यमुच्छ्रायो मेखलानां महामते॥ मेखलात्रितयं चैवमेकीकृत्य तु जायते। विस्तारस्तु ततोच्छ्रायः सार्धं तु चतुरङ्गुलम्॥ रत्निमात्रस्य कुण्डस्य मेखला द्व्यङ्गुलाः स्मृताः। अङ्गुलं सकनिष्ठस्य कुण्डस्यार्धोत्तरं द्वयम्॥ त्र्यङ्गुला हस्तमात्रस्य कुण्डस्य समता स्मृता। द्विहस्तस्य द्विजश्रेष्ठ मेखलाश्चतुरङ्गुलाः॥ चतुर्हस्तस्य कर्तव्याः सर्वाश्चैव षडङ्गुलाः। अष्टाङ्गुलिश्च कुण्डस्य अष्टहस्तस्य कीर्तिताः॥(१५।१६-२१) इति ॥७९॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये एकादशः परिच्छेदः ॥ ११ ॥ — ❧ ❦ ❧ — काल, आहुति, संख्या, होम एवं द्रव्य की अधिकता को देखते हुए कुण्ड एक हाथ से लेकर आठ हाथ तक गहरा निर्माण किया जा सकता है ॥ ७९ ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के यागकुण्डविधि नामक एकादश परिच्छेद की हिन्दी समाप्त हुई ॥ ११ ॥ — ❧ ❦ ❧ —