सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 357, कुल 837 में से
संदर्भ में पढ़ें२९८ सात्वतसंहिता दिकत्वमिति चेन्न, प्रथमकोशानुसारेण सर्वत्रापि प्रामादिकस्यैव प्रसृतत्वात् । यथा पारमेश्वरकोशेषु सर्वत्राप्यावरणदेवतालक्षणाध्याये—“कुन्दावदातं कमलम्” (६। २५९) इत्यादिप्रसिद्धकमलध्यानश्लोक एव “वृन्दावदातं मुसलम्” इति मुसलध्यान- परत्वेन विलिखितः प्रामादिकः परिदृश्यते, तथाऽयमपीति ज्ञेयम् । ननु कुन्दावदातं कमलमिति कुत्र प्रसिद्धमिति चेत्, पारमेश्वरार्चनाध्याये (६।२५९) एव पश्यतु भवान् । ननु च किं तावता कमलमुसलयोरेक एव ध्यानश्लोकः स्यादिति चेत्, किं मुसलकिसलयमपेक्षसे । यतः कमलमुसलादीनां प्रत्येकं ध्यानश्लोकानत्रैव वक्ष्यति । एतदनुसारेणैव पारमेश्वरे समस्तायुधध्यानश्लोका विलिखिताः । ननु पारमेश्वरोक्तं न प्रामादिकम्, अपि तु संहिताकारस्यैवाभिमतम् । तथाहि पौष्करे—“शिशिरास्त्रकरं स्मरेत्” (४।१५५) इति सोमस्य शिशिरम्, “दण्डहस्तं प्रजापतिम्” (४।१५८) इति प्रजापतेर्मुसलं च प्रतिपादितम् । जयाख्ये (७।८४- ८७) तु—सोमस्य मुद्गरं प्रजापतेः कमलं च प्रतिपादितम् । उभयत्राऽप्यायुधध्यान- मुक्तम् । तदेव पारमेश्वरे शिशिरकमलयोः प्रतिपादितमिति चेत्, मर्मज्ञोऽसि । तथापि शिशिरमुद्गरयोः पर्यायत्वबुद्ध्या कदाचित् तथा ध्यानकथनं संभवेत् । तथा कमल- मुसलयोर्भेदबुद्धेरवतरणासंभवात् तल्लेखकप्रमादकृतमेव । अथवा जयाख्योक्त- पक्षान्तरज्ञापनार्थं मुद्गरध्यानश्लोके शिशिरपदप्रक्षेपश्चैवमेव बोध्यः । एवं चोभयथापि प्रामादिकत्वं सिद्धम् । अलं प्रसक्तानुप्रसक्त्या । प्रकृतमनुसरामः ॥ २१२-२१३ ॥ इस प्रकार वैभव प्रकरण (९.८५) में जो १२ देवियाँ कही गई हैं उनको इस पारमेश्वर (= बारहवें) प्रकरण में यहाँ से भिन्न जानना चाहिये ॥२१२-२१३॥ पुनश्चतुर्भुजस्यैवं विज्ञेयं भेदसप्तकम् ॥ २१३ ॥ किन्तु वै शङ्खचक्रे द्वे वामहस्ते द्वयेन तु । जगत्यस्मिन् हि यच्छन्तं शान्तिमाद्येन शाश्वतीम् ॥ २१४ ॥ प्रोद्वहन्तं द्वितीयेन त्वपसव्येन वै गदाम् । चतुर्भुजस्यापि द्विभुजवत् केवलरूपमेकम्, लक्ष्यादिभिः सहितं रूपं षोढा चाहत्य सप्तधा रूपं ज्ञेयमित्याह—पुनरित्यर्धेन । चतुर्भुजस्य लाञ्छनचतुष्टय- धारणक्रममाह—किन्विति सार्धेन । शान्ति यच्छन्तमित्येनैव कमलधारणं सूचितं हि भवति, “शमं नयति सन्तापं कमलेनेन्दुकान्तिना” (१२।१२) इति पूर्वं शक्त्यात्म- लक्षणोक्तेः ॥ २१३-२१५ ॥ इसके बाद चतुर्भुज के भी सात भेद इस प्रकार जानना चाहिये । पहले लक्ष्म्यादि के साथ छह रूप कह आये हैं । अब यहाँ सात रूप कहते हैं—चतुर्भुज का द्विभुजवत् केवल एक रूप है । पहले लक्ष्म्यादि के साथ छह रूप कहा गया है । इस प्रकार कुल सात रूप निष्पन्न हो जाता है ॥ २१३ ॥ अब उन चतुर्भुज का लाञ्छन चतुष्टय धारण का क्रम कहते हैं—उन्होंने