सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 356, कुल 837 में से
संदर्भ में पढ़ेंद्वादशः परिच्छेदः २९७ हे हलायुध, श्री देवी, कीर्त्ति देवी, जया देवी और चौथी भगवन्माया जो इस समस्त जगत् को बाँधने वाली हैं। ये श्रियादि चतुष्टय है ॥ २०९-२१० ॥ अब शुद्ध्यादि षट्क कहते हैं। शुद्धि, निरञ्जना, नित्या, ज्ञानशक्ति, अपराजिता, सुन्दरी, प्रकृति इसके बाद लक्ष्म्याद्यष्टक, लक्ष्मी, शब्दानिधि (= सरस्वती), सर्वकामदा, प्रीतिवर्धनी, यशस्करी, शान्तिदा, तुष्टिदा और पुष्टिदा ये आठ लक्ष्म्याद्यष्टक हैं ॥ २१०-२११ ॥ द्विषट्कं वैभवे योगे देवीनां कीर्तिदं हि यत् ॥ २१२ ॥ लक्ष्म्याद्यं तच्च बोद्धव्यं भेदेऽस्मिन् पारमेश्वरे । लक्ष्म्यादिद्विषट्कं पूर्वं नवमपरिच्छेदे (९।८५) एवोक्तं द्रष्टव्यमित्याह— द्विषट्कमिति । वैभवे योगे = विभवदेवताकथनप्रकरण इत्यर्थः । नन्वेवं व्याख्यानं सात्वतोपबृंहणलक्ष्मीतन्त्रविरुद्धम्, यतस्तत्र— एकधा द्विचतुर्धा च षोढा चैव तथाष्टधा । पुनर्द्वादशधा चैव तत्र नामानि मे शृणु ॥ श्रीर्नाम द्विभुजस्याहमङ्कस्था वरवर्णिनी । तस्यैवोभयतो रूपे श्रीश्च पुष्टिश्च वासव ॥ चतुर्दिशं तु तस्यैव श्रीः कीर्तिश्च जया तथा । मायेति कृत्वा रूपाणि भुज्येऽहं तेन विष्णुना ॥ तस्यैव कोणषट्कस्था षोढाऽहं शृणु नाम च । शुद्धिर्निरञ्जना नित्या ज्ञानशक्तिश्च वासव ॥ तथाऽपराजिता चैव षष्ठी तु प्रकृतिः परा । तस्यैव चाष्टधा दिक्षु साहं रूपैर्व्यवस्थिता ॥ लक्ष्मीः सरस्वती सर्वकामदा प्रीतिवर्धनी । यशस्करी शान्तिदा च तुष्टिदा पुष्टिरष्टमी ॥ कोणद्विषट्के तस्यैव स्थिता द्वादशधाऽस्म्यहम् । श्रीश्च वागीश्वरी कान्तिः क्रियाशक्तिर्विभूतयः ॥ इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च । —(८।२०-२७) इति श्रीसात्वताष्टमपरिच्छेदोक्तं (८।३१-३२) लक्ष्मीवागीश्वर्यादिद्विषट्कमेव प्रतिपादितम्, अतो वैभवयोग इत्यत्रापि विभोरयं वैभव इति भगवत्सम्बन्धिनि व्रतार्चन इत्येवार्थो वर्णनीय इति चेन्न, सत्यं तन्नायं भवद्दोषः, किन्तु लक्ष्मीतन्त्रलेखकदोषः । यतस्तेन “लक्ष्मीः पुष्टिर्दया निद्रा” (९।८५) इत्यादिश्लोकस्थाने प्रमादात् “श्रीश्च वागीश्वरी कान्तिः” (८।३१-३२) इत्यादिश्लोको विलिखितः । यद्यपि तदेव भवता समर्थितम्, तथापि त्रयोदशपरिच्छेदे ध्यानप्रकरणे (१३।३६-४३) नवमपरि- च्छेदोक्तलक्ष्मीपुष्ट्यादिद्विषट्कस्यैव कण्ठरवेण वक्ष्यमाणत्वान्न भवतोऽभिमतं सिद्ध्यति । ननु च लक्ष्मीतन्त्रकोशेषु सर्वत्राप्येकरूपः पाठः परिदृश्यते, कथं तस्य प्रामा- सा० सं० - २३