सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 379, कुल 837 में से
संदर्भ में पढ़ें३२० सात्वतसंहिता सामर्थ्येन विना यस्य कृच्छ्रादीनां परिच्युतिः ॥ ४ ॥ ज्वरादिव्याधिदोषेण जातो यस्याह्निकक्षयः । चातुर्मास्यस्य चाप्राप्तिर्यस्य स्वातन्त्र्यतो विना ॥ ५ ॥ तस्य तस्य महाबुद्धे शृणु यद्विहितं हितम् । सांस्पर्शिकानां भोगानां मात्रावित्तं हि पूरणम् ॥ ६ ॥ हृदयङ्गमसंज्ञानामन्नं च हविषा प्लुतम् । औपचारिकभोगानां बीजानि विहितानि वै ॥ ७ ॥ एवं पृष्टो वासुदेवस्तांस्तान् दोषहेतून् स्वयमपि विविच्य तत्तदुपशामकानाह— लोभबुद्धिमित्यादिभिः । लोभबुद्धिं विना द्रव्यलोभं विना । अनुपपत्तिविनाशादिति भावः । यस्य पुरुषस्य यत्पुरुषकर्तृक इत्यर्थः । भोगानाम् = औपचारिक- सांस्पर्शिकाभ्यवहारिकाणाम्, असम्भवो लोपः संभवति । स्वातन्त्र्यतो विना पार- तन्त्र्याद्यस्य पुरुषस्य चातुर्मास्यस्य व्रतस्य चाप्राप्तिर्लोपः संभवति, तस्य तस्य पुरुषस्य यद्विहितं प्रायश्चित्तरूपं हितं विहितं शास्त्रचोदितं तच्छृण्वित्यर्थः । सांस्पर्शिकानां भोगानां स्रक्चन्दनादीनाम्, मात्रावित्तं प्रत्यहं पूजाकाले दीयमानं सहिरण्यशालितण्डुलतिलादि- कम्, पूरणं भोगलोपदोषजनितच्छिद्रपूरकमित्यर्थः । हृदयंगमसंज्ञानाम् = आभ्यव- हारिकाणाम्, हविषा प्लुतम् = आज्याक्तमन्नं पूरकम् । औपचारिकभोगानां = छत्र- चामरादीनाम्, विविधानि बीजानि मात्रार्थं कल्पितानि मुद्गादीनि पूरकाणि ॥ ४-७ ॥ श्री भगवान् ने कहा—हे सङ्कर्षण! द्रव्य लोभ के बिना ही जिस पुरुष के आराधना में औपचारिक, सांस्पर्शिक एवं आभ्यवहारिक भोगों का लोप हो जाता है स्वतन्त्रता के अभाव में या परतन्त्रता के कारण जिस पुरुष के चातुर्मासिक व्रतों में विघ्न पड़ जाता है । अब उसके विषय में जो-जो प्रायश्चित्त हैं, हे सङ्कर्षण ! उसे सुनिये । आराधना में सांस्पर्शिक दोष (स्रक्, चन्दनादि का अभाव), पूजा करने में मात्रावित्त (= सहिरण्य, शालि, तण्डुल, तिलादि, दान) से पूर्ण होता है । आभ्यवहारिक दोष आज्य परिप्लुत अन्न के होम से पूर्ण होता है और औपचारिक भोग (छत्र, चामरादि के अभाव का दोष) का विविध बीज (मुद्गादिदान) से पूर्ण होता है ॥ ४-७ ॥ कृच्छ्रचान्द्रायणादीनां व्रतानां परिपूरकः । विशेषार्चनसयुक्तश्चातुर्मास्यस्तु संयमः ॥ ८ ॥ सौत्रं प्रतिसरं चित्रं मुक्ताहारोपमं शुभम् । शमं नयति भक्तानां सर्वदा लोपमाह्निकम् ॥ ९ ॥ एवं भोगलोपप्रायश्चित्तमुक्त्वा कृच्छ्रादिलोपप्रायश्चित्तं दर्शयति—कृच्छ्रचान्द्रा- यणादीनामिति । कृच्छ्रचान्द्रायणादीनां व्रतानां विशेषार्चनसंयुक्तश्चातुर्मास्यस्य संयमः अष्टमपरिच्छेदोक्तचातुर्मास्यव्रतनियमः पूरकः ।