सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 447, कुल 837 में से
संदर्भ में पढ़ें३८८ सात्वतसंहिता कृत्वा मध्यमकुम्भे तु साङ्गं मन्त्रेश्वरं यजेत् । नमो नृसिंहभूतेभ्यः प्रणवाद्येन पूजयेत् ॥ २६० ॥ कोणेषु भगवद्भक्तनिचयं दोषनाशनम् । पूजयित्वा यथान्यायं पुष्पधूपादिकेन वै ॥ २६१ ॥ दिग्बन्धमथ वै कुर्यात् सास्त्रैः सिद्धार्थकैः क्रमात् । ताडयेदातुरं पश्चादा पादान्मस्तकावधि ॥ २६२ ॥ स्वपाणिव्यजनेनाथ समाकृष्य विनिक्षिपेत् । दोषजालं च तद्देहाद् गगने वा धरातले ॥ २६३ ॥ ततोऽग्निपात्रमादाय निर्धूममतिदीप्तिमत् । तस्मिन्निरिन्धने कुर्याद् होमं सिद्धार्थकैस्तिलैः ॥ २६४ ॥ मूलमन्त्रेण वास्त्रेण शताष्टाधिकसंख्यया । अमुकं रक्ष रक्षेति स्वाहाशब्दसमन्वितम् ॥ २६५ ॥ मन्त्रान्ते तु पदं कुर्याद् भ्रामयेन्मूर्ध्नि चाहुतिम् । महिषाक्षमथादाय सिद्धार्थकसमन्वितम् ॥ २६६ ॥ प्रजप्य धूपयेत् तं वै कृत्वा च्छन्नं तु वाससा । निधाय सजलं पात्रमग्निपात्रोपगं ततः ॥ २६७ ॥ नैवेद्यशेषमन्यस्मिन् सर्वमुद्धृत्य सोदकम् । पशुप्रतिनिधिं चैव रञ्जितं कुङ्कुमादिना ॥ २६८ ॥ धात्वाश्रितानां दोषाणां मनसा परिकल्पितम् । यदीयमस्य वै बाधमिन्द्रियाणां च धातुषु ॥ २६९ ॥ आदाय च बलिं शश्वत् सिंहसत्येन मुञ्चतु । अन्तरान्तरयोगेन वामदक्षिणपाणिना ॥ २७० ॥ असंख्यमाचरेद् होमं बलियुक्तं प्रदक्षिणैः । बलिपाणिमथ क्षाल्य अस्त्रजप्तेन वारिणा ॥ २७१ ॥ भूतिमादाय वै कुण्डाद् दग्धगोमयजं तु वा । प्रजप्य बहुशोऽस्त्रेण ललाटादङ्घ्रिगोचरम् ॥ २७२ ॥ कार्याणि चोर्ध्वपुण्ड्राणि पृष्ठे पार्श्वद्वयेऽपि वा । स्वस्त्यस्तु ते युतेनाथ मन्त्रेणार्घ्योदकेन तु ॥ २७३ ॥ मन्त्रकुम्भात् समेतेन विप्रुड्भिह्लादियेदनु । ध्यात्वा पूर्णेन्दुगं मन्त्रं पूर्णचन्द्रायुतोपमम् ॥ २७४ ॥ ब्रह्मरन्ध्रे तु साध्यस्य स्रवन्तममृतं महत् ।