भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

३८८ सात्वतसंहिता कृत्वा मध्यमकुम्भे तु साङ्गं मन्त्रेश्वरं यजेत् । नमो नृसिंहभूतेभ्यः प्रणवाद्येन पूजयेत् ॥ २६० ॥ कोणेषु भगवद्भक्तनिचयं दोषनाशनम् । पूजयित्वा यथान्यायं पुष्पधूपादिकेन वै ॥ २६१ ॥ दिग्बन्धमथ वै कुर्यात् सास्त्रैः सिद्धार्थकैः क्रमात् । ताडयेदातुरं पश्चादा पादान्मस्तकावधि ॥ २६२ ॥ स्वपाणिव्यजनेनाथ समाकृष्य विनिक्षिपेत् । दोषजालं च तद्देहाद् गगने वा धरातले ॥ २६३ ॥ ततोऽग्निपात्रमादाय निर्धूममतिदीप्तिमत् । तस्मिन्निरिन्धने कुर्याद् होमं सिद्धार्थकैस्तिलैः ॥ २६४ ॥ मूलमन्त्रेण वास्त्रेण शताष्टाधिकसंख्यया । अमुकं रक्ष रक्षेति स्वाहाशब्दसमन्वितम् ॥ २६५ ॥ मन्त्रान्ते तु पदं कुर्याद् भ्रामयेन्मूर्ध्नि चाहुतिम् । महिषाक्षमथादाय सिद्धार्थकसमन्वितम् ॥ २६६ ॥ प्रजप्य धूपयेत् तं वै कृत्वा च्छन्नं तु वाससा । निधाय सजलं पात्रमग्निपात्रोपगं ततः ॥ २६७ ॥ नैवेद्यशेषमन्यस्मिन् सर्वमुद्धृत्य सोदकम् । पशुप्रतिनिधिं चैव रञ्जितं कुङ्कुमादिना ॥ २६८ ॥ धात्वाश्रितानां दोषाणां मनसा परिकल्पितम् । यदीयमस्य वै बाधमिन्द्रियाणां च धातुषु ॥ २६९ ॥ आदाय च बलिं शश्वत् सिंहसत्येन मुञ्चतु । अन्तरान्तरयोगेन वामदक्षिणपाणिना ॥ २७० ॥ असंख्यमाचरेद् होमं बलियुक्तं प्रदक्षिणैः । बलिपाणिमथ क्षाल्य अस्त्रजप्तेन वारिणा ॥ २७१ ॥ भूतिमादाय वै कुण्डाद् दग्धगोमयजं तु वा । प्रजप्य बहुशोऽस्त्रेण ललाटादङ्घ्रिगोचरम् ॥ २७२ ॥ कार्याणि चोर्ध्वपुण्ड्राणि पृष्ठे पार्श्वद्वयेऽपि वा । स्वस्त्यस्तु ते युतेनाथ मन्त्रेणार्घ्योदकेन तु ॥ २७३ ॥ मन्त्रकुम्भात् समेतेन विप्रुड्भिह्लादियेदनु । ध्यात्वा पूर्णेन्दुगं मन्त्रं पूर्णचन्द्रायुतोपमम् ॥ २७४ ॥ ब्रह्मरन्ध्रे तु साध्यस्य स्रवन्तममृतं महत् ।

सप्तदशः परिच्छेदः ३८९ शरीरविटपं तेन सेचयेच्च नखावधि ॥ २७५ ॥ एवं कृत्वाऽर्चयेद् भूयो मन्त्रं मण्डलकुम्भगम् । कुम्भं तं शयनागारे ऊर्ध्वदेशे निधाय वै ॥ २७६ ॥ वस्त्रपीठोपरिस्थं तु च्छन्नं कृत्वा तु वाससा । तत्रापि दिग्विदिकूस्थं च दद्यात् पूर्णघटाष्टकम् ॥ २७७ ॥ अच्छिन्नप्रसरं धूपं दीपपात्रं घृतादिना । फलपुष्पौषधीदीपलाजाः सिद्धार्थकं दधि ॥ २७८ ॥ पात्रसङ्घं तदग्रे तु कृत्वा चाथ बलिं हरेत् । बलिदानप्रकारकथनम् निशामुखे तु सम्प्राप्ते सर्वदोषप्रशान्तये ॥ २७९ ॥ एकस्मिन् वै समादाय पात्रे यत् कल्पितं विभोः । आपुष्पधूपदीपाच्च उपसंगृह्य यत्नतः ॥ २८० ॥ तद्भूतदत्तमन्यस्मिन् षण्णां वा तत्पृथक् पृथक् । स्वदीपालङ्कृतं कृत्वा स्वघटोपरि विन्यसेत् ॥ २८१ ॥ रक्षरक्षपदोपेतं मन्त्रमस्त्रयुतं स्मरेत् । रक्ष्यस्य शिरसि भ्राम्य यथा दत्तं क्रमेण तु ॥ २८२ ॥ सत्त्वशुद्धांस्तथा भूयो मद्भक्तान् बलिवाहकान् । अस्त्राभिमन्त्रितान् दद्यात् तेषां सिद्धार्थकान् करे ॥ २८३ ॥ प्रजप्य भस्मना कुर्याल्ललाटे तिलकं तु वै । प्रवाहयेद् बलिं मन्त्री हागाधेऽम्भसि वै पुरा ॥ २८४ ॥ चत्वरे वृक्षमूलेऽथ ग्रामाद् वा नगराद् बहिः । देवभूतबलिक्षेपो विहितश्चात्र कर्मणि ॥ २८५ ॥ धूमायन्तं च सिद्धार्थैर्वह्निपात्रं पुरोदितम् । तेनैव बलिपात्रेण सोदकेन समन्वितम् ॥ २८६ ॥ त्यजेत् कूपसमीपे तु वाप्यां वा निकटे तरोः । बलिं क्षिप्त्वा समाचम्य धौताङ्घ्रिकरपल्लवः ॥ २८७ ॥ रक्ष्यावनौ सुलिप्तायां परितः शोधितस्य च । तन्मूर्ध्नि दीपपात्रे च सिद्धार्थक्षेपमाचरेत् ॥ २८८ ॥ प्रजप्य बहुशोऽस्त्रेण मूलसम्पुटितेन च । बध्नीयात् सप्तरात्रं तु प्रत्यहं तस्य चाम्बरे ॥ २८९ ॥

३९० सात्वतसंहिता कृतेनानेन विधिना पीडितानां सदैव हि। रक्षणं रसधातुनां शश्वदेव हि जायते॥ २९०॥ ततः प्रलिप्ते भूभागे कुशाजिनसमावृते। कृतन्यासः स्वयं तिष्ठेद् रक्ष्यागारे सहायवान् ॥ २९१॥ पयोभुग् वा निराहारो ध्यानजप्यपरायणः। आदिमध्यावसानस्थं रात्र्यंशेषु समाचरेत्॥ २९२॥ पूजनं हवनं सम्यग् बलिदानसमन्वितम्। सक्तुना सोदकेनैव मधुनाऽथ घृतेन च॥ २९३॥ पूर्वभागे तु यामिन्यामतीते विहितो बलिः। यवगोधूमशाल्युत्थचूर्णेन सगुडाम्भसा॥ २९४॥ त्रिप्रकाराणि संवर्त्य मोदकानि तु पाणिना। वृत्तदीपशिखाकारैस्तुल्यान्याग्रफलस्य च॥ २९५॥ क्षीरयुक्तैरपक्वैस्तैर्मध्यरात्र्यां बलिं हरेत्। सुमर्दितैस्तिलैः कृष्णैर्बीजैः पाकविवर्जितैः॥ २९६॥ तण्डुलै रजनीचूर्णैर्दध्ना दूर्वाङ्कुरैः फलैः। व्यतीतायां तु शर्वर्यां बलिं रक्षागृहाद् बहिः॥ २९७॥ मार्गेकदेशे निक्षिप्य चत्वरे वापि शोधिते। अथाभिमन्त्र्य बीजानि सप्तधान्यानि मल्लके॥ २९८॥ दद्याद् द्विजेन्द्रकन्यायै तत्सकाशात् समाहरेत्। तिस्रः प्रसृतयः पात्र एकस्मिन् सप्त चापरे॥ २९९॥ एकादश ततोऽन्यस्मिन् घटे पात्रत्रयं ततः। अस्त्रसम्पुटितेनैव सिंहबीजेन मन्त्रवित्॥ ३००॥ शतमष्टाधिकं चैव द्विगुणं त्रिगुणं क्रमात्। तेन तोयघटानां तु उद्धृत्योद्धृत्य निक्षिपेत्॥ ३०१॥ एकं स्थले जले चान्ये प्रातर्मध्यं दिनक्षये। आ समाप्तेरिदं कुर्यात् सामान्यं भूततर्पणम्॥ ३०२॥ ततोऽपरस्मिन्नहनि इष्ट्वा मन्त्रं तु मण्डले। हुत्वा यथाविधानेन दत्वा पूर्णाहुतिं लिखेत्॥ ३०३॥ सितेन शालिचूर्णेन अष्टाश्रं मण्डलं लिखेत्। तन्मध्ये शङ्खमध्यस्थं कमलं लिख्य षड्दलम् ॥ ३०४॥ दद्याद् घटाष्टकं बाह्ये प्राग्वद् दीपसमन्वितम्।

सप्तदशः परिच्छेदः ३९१ अवतार्य च तन्मध्ये रक्षाकुम्भं शिरःस्थितम् ॥ ३०५ ॥ अपनीय पुरा तस्मादर्घ्यमाल्यानुलेपनम् । शीतलोदकधारां च पूरणार्थं परां क्षिपेत् ॥ ३०६ ॥ यथा यथा क्षयं याति तत्रस्थमुदकं तु वै । तथा तथा भवेद् वृद्धी रक्ष्यस्याखिलधातुषु ॥ ३०७ ॥ स्रग्वस्त्रार्घ्यानुलेपाद्यैर्नवैः कृत्वार्चितं तु तम् । ततः सम्पूज्य तन्मध्ये मन्त्रनाथं यथा पुरा ॥ ३०८ ॥ रक्तधातोर्भवेद् येन नृणामुपचयो महान् । मन्त्रदत्तेन सुरभिनैवेद्येनाथ तर्पयेत् ॥ ३०९ ॥ अर्घ्यं पुष्पं रजो धूपं दीपं यन्मन्त्रयोजितम् । तत्सर्वमुपसंहृत्य नित्यमम्भसि निक्षिपेत् ॥ ३१० ॥ शेषस्य विनियोगं तु प्रागुक्तं सर्वमाचरेत् । तृतीयेऽह्नि ततः कुर्याच्चतुरश्रं तु मण्डलम् ॥ ३११ ॥ षट्कोणं चैव तन्मध्ये पुरमुल्लिख्य साम्बुजम् । तत्र कुम्भसमूहं तु तस्माद् दीपान्तरीकृतम् ॥ ३१२ ॥ इष्ट्वा तु मन्त्रदत्तेन तर्पयेद् ब्राह्मणांस्तु वै । वृत्तमण्डलमध्ये तु चतुर्थेऽहनि संलिखेत् ॥ ३१३ ॥ अष्टारं दीप्तिमच्चक्रं वह्निवेश्म तदन्तरे । तत्रेष्ट्वा मन्त्रमूर्तिं तु कृत्वा रक्षां यथा पुरा ॥ ३१४ ॥ द्विजेन्द्रजां कुमारीं च तथा ब्राह्मणदारिकाम् । पूजयित्वा यथान्यायं ताभ्यां यच्छेन्निवेदितम् ॥ ३१५ ॥ अथाष्टकोणं कुर्वीत मण्डलं पञ्चमेऽहनि । शङ्खं तदन्तरे कुर्याच्छङ्खस्योदरगं लिखेत् ॥ ३१६ ॥ सनाभिवेदिपञ्जारं भूतावासं च हेतिराट् । सकुम्भानां च दीपानां प्राक् कृत्वा विनियोजनम् ॥ ३१७ ॥ विविधैः पूजयेद् देवं नैवेद्यैः कुसुमादिकैः । देवोपभुक्तमन्नं तु क्षिप्त्वा प्रागुक्तमाचरेत् ॥ ३१८ ॥ अथ षष्ठे दिने कुर्यात् त्रिकोणं भुवनान्तरे । सप्तारं तु महाचक्रं सप्तलोकमयं हि यत् ॥ ३१९ ॥ तदन्तरे चतुर्दिक्षु गदाद्वन्द्वद्वयं लिखेत् । तन्मध्ये तद्घटान्तःस्थं यजेन्मन्त्रं यथाविधि ॥ ३२० ॥

३९२ सात्वतसंहिता इष्ट्वा नैवेद्यमादाय उच्चस्थाने निधाय तत् । उपभोगं यदाऽऽयाति काकादेः खेचरेषु च ॥ ३२१ ॥ चतुरश्रं चतुर्द्वारं मण्डलं सप्तमेऽहनि । कुर्यात् कोणचतुष्के तु लिखेच्छङ्खचतुष्टयम् ॥ ३२२ ॥ तत्र मध्ये लिखेत् पद्ममसंख्यदलभूषितम् । तत्कर्णिकाश्रितं चक्रं द्वादशारं विलिख्य च ॥ ३२३ ॥ अष्टदिक्ष्वष्टकं दद्यात् कलशानां सदीपकम् । तत्र षड्दिवसोर्ध्वं तु विनियोगं समाचरेत् ॥ ३२४ ॥ नैवेद्यस्य च मन्त्रज्ञो दक्षिणाभिः समन्वितम् । एवं मांसादिधातूनां क्रमादुपचयो भवेत् ॥ ३२५ ॥ महिषोऽजो गुडं चैव हरिणः शशकस्तथा । मयूरश्चक्रवाकस्तु सप्ताहं सप्तकं तु वै ॥ ३२६ ॥ देहधात्वाश्रितानां तु सत्त्वानां पिशिताशिनाम् । रसाद्यपीष्टैः सम्पाद्यं न सजीवं हि जङ्गमम् ॥ ३२७ ॥ स्वार्थतो वा परार्थेन श्रेयसेऽभिनिवेशिना । प्राणिहिंसा न कार्या वै विशेषाज्जीवितैषिणाम् ॥ ३२८ ॥ आयुषः क्षयमायाति नूनं प्राणिवधान्नृणाम् । भूताभयप्रदानेन आयुषो वृद्धिमाप्नुयात् ॥ ३२९ ॥ आयुरारोग्यमैश्वर्यमपमृत्युजयं महत् । बलमोजो धृतिर्धैर्यं स्यान्मन्त्रान्न परायुषः ॥ ३३० ॥ मन्त्रपूजा जपो होमो दानं हेमगवादिनाम् । ऐहिकामुष्मिकीं वृद्धिं सत्त्वस्थानां करोति च ॥ ३३१ ॥ मण्डलस्थं ततः क्षान्त्वा ह्यतीते सप्तमे दिने । रजांसि बलयो वान्यत् प्राग्वदादाय संत्यजेत् ॥ ३३२ ॥ इति रक्षाविधानं तु सरुजानामुदाहृतम् । अथ रोगार्तानां रक्षाविधिमाह—अथ रक्षाविधानं त्विति प्रक्रम्य सरुजानामुदा- हतमित्यन्तम् । अथ प्रयोगः—श्रीनृसिंहाराधनार्थं पूर्ववन्मण्डलं कुम्भं च संस्थाप्योपकुम्भांस्तु श्वेतसर्षपोपेतैर्बीजैरापूर्य (तदपि यानशरीरान् ? तत्पिधानशरावान्) सफलसर्षपतैलै- रापूर्य तद्बहिरष्टदिक्षु सुसमं लोहमयं बाणाष्टकं निधाय तान् दृढेन तन्तुना कण्ठदेशे बद्ध्वा बर्हिपक्षसमायुक्तं सर्पनिर्मुक्तकञ्चुकभूषितं महौषध्या भूतजटया शमीशाखया च

समन्वितं तद् बाणाष्टकं पञ्चवर्णेन सूत्रेणोत्तरदिशमारभ्य प्रादक्षिण्येन त्रेधा संवेष्ट्याष्टानां पूर्णकुम्भानामन्तरालेषून्नतासनस्थितं राजिकाख्येन तैलेन पूरितं ताम्रपात्रस्थितं महा- राजतरञ्जितवर्त्तियुक्तं दीपाष्टकं विन्यस्य स्नातो बद्धशिखो मौनी साधकः प्राग्वद् दिग्बन्धं कृत्वा सर्वदोषपलायनं संकल्प्य मन्त्रनाथं श्रीमन्नृसिंहं काम्यैर्बहुविधैः शुभैः पुष्पैर्धूपैः फलैर्मूलैनैवेद्यैर्भक्ष्यैश्च यथाविधि समभ्यर्च्यग्निमध्ये च देवं सिद्धार्थान्वितैः सर्वबीजै राजिकाघृतयुक्तैः सफलैस्तिलैश्च सन्तर्प्यातुरमापादाद् मस्तकावध्यस्त्रपुष्पैः सन्ताड्य नेत्रमन्त्रेण सन्निरोक्ष्य नतजानुशिरः कृत्वा भगवते निवेद्य परिधान्वितेऽस्त्रेणाभिमन्त्रिते- ऽर्घ्याद्यैरभ्यर्चिते आसने तं समुपवेश्य षडङ्गेन श्रीमन्नृसिंहमन्त्रेण तस्य हस्तयोर्देहे च यथाविधि न्यासं मनसा कृत्वा तस्याग्रे सचक्रं षट्कोणं मण्डलमालिख्य तत्र पूर्वोक्तं रचनापरिष्कृतं गन्धवारिणा पूर्णं कलशसप्तकं मध्ये षट्कोणेषु च संस्थाप्य कोणा- न्तरालेषु पूर्वोक्तरीत्या दीपाष्टकं च निधाय मध्यकुम्भे साङ्गं मन्त्रनाथं समभ्यर्च्य कोणस्थकलशेषु 'ॐ नृसिंहभूतेभ्यो नमः' इति सर्वदोषनाशनं नृसिंहभूतगणं समभ्य- र्च्यास्त्राभिमन्त्रितैः सिद्धार्थैर्दिग्बन्धं कृत्वा पुनरातुरं पुष्पैः सन्ताड्य स्वपाणिव्यजनेन तद्दोषगणं सर्वं तद्देहान्मनसा समाकृष्य गगने धरातले वा विनिक्षिप्य निर्धूममति- दीप्तिमदग्निपात्रमादाय निरिन्धने तस्मिन्नग्नौ सिद्धार्थकैस्तिलैश्चाष्टोत्तरशतसंख्ययाऽमुकं रक्ष रक्ष स्वाहेत्यन्तेन मूलमन्त्रेणास्त्रमन्त्रेण वा जुहुयात् । प्रत्याहुत्याहुतिद्वयं तन्मूर्ध्नः परितो भ्रामयेत् । सिद्धार्थकसमन्वितं महिषाक्षगुग्गुलमादाय मूलमन्त्रेण धूपयित्वाऽऽ- तुरं वाससाऽऽच्छाद्य सजलं पात्रमग्निमात्रसमीपे निधायाऽन्यस्मिन् पात्रे नैवेद्यशेषं सर्वं निधाय कुङ्कुमादिना रक्तीकृत्य सोदकं तदन्नं समुद्धृत्याऽऽतुरस्य धात्वाश्रिताना दोष्णा- मयं पशुप्रतिनिधिर्बलिरिति मनसा संकल्प्य, यदीयमस्र्य वै बाधमिन्द्रियाणां च धातुषु ।। आदाय च बलिं शश्वत् सिंहसत्येन मञ्चतु । (१७।२६९-२७०) इत्युच्चरन् बलिं दद्यात् । बलेर्मध्ये मध्ये वामदक्षिणपाणिनाऽसंख्यातं होमं च कुर्वन् बलिदानार्थं प्रदक्षिणीकुर्यात् । अथास्त्रजप्तेन वारिणा पाणिं प्रक्षाल्याथ कुण्डस्थां भूतिं दग्धगोमयजां भूतिं वाऽऽदाय बहुशोऽस्त्रमन्त्रेणाभिमन्त्र्य आतुरस्य ललाटादङ्घ्रिपर्यन्तमूर्ध्वपुण्ड्राणि कृत्वा 'ॐ क्षौं नमः, ॐ नमो भगवते नरसिंहाय स्वस्त्यस्तु ते' इति कुम्भोदकसमन्वितार्घ्योदकबिन्दुभिः सम्प्रोक्ष्य तद्ब्रह्मरन्ध्रे पूर्ण- चन्द्रमण्डलमध्यस्थं पूर्णचन्द्रायुतोपमं महदमृतं स्रवन्तं मन्त्रनाथं ध्यात्वा तदमृतेन तच्छरीरं संसिक्तं च ध्यात्वा कुम्भस्थं मण्डलस्थं च देवं पुनरभ्यर्च्य सदिक्कुम्भं सोपकलशं तं महाकुम्भमातुरस्य शयनागारे शिरःप्रदेशे वस्त्रपीठोपरि निधाय वस्त्रेणाच्छाद्याऽविच्छिन्नप्रसरं धूपपात्रं दीपपात्राणि च यथापूर्वं निधाय फलपुष्पौ- षधीदीपलाजकसिद्धार्थकदधिपात्राणि तत्पुरतो निधाय निशामुखे प्राप्ते बलिहरणं कुर्यात् । तत्प्रकारः— पूर्वं षट्कोणमण्डलस्थापितकलशेषु मध्यकुम्भस्थस्य भगवतोऽ- र्चनार्थं पुष्पधूपदीपादिकं यद्यत् परिकल्पितं तत्सर्वमेकस्मिन् पात्रे संगृह्य तत्परितः षट्कलशस्थितानां नृसिंहभूतानां दत्तं पुष्पधूपदीपादिकमस्मिन् पात्रे पृथक् पृथक् षट्सु पात्रेषु वा निधाय तत्तत्पात्रं स्वस्वदीपालङ्कृतं कृत्वा तत्तत्कुम्भोपरि विन्यस्य 'ॐ क्षः सा० सं० - 29

३९४ सात्वतसंहिता वीर्यायास्त्राय फट् अमुकं रक्ष रक्षेति' मन्त्रं स्मरन् तत्कुम्भान् रक्ष्यस्य शिरसि यथाक्रमं पृथक् पृथक् परिभ्राम्य सात्त्विकान् भगवद्भक्तान् बलिवाहकानाहूय तेषां करेऽऽ- स्त्राभिमन्त्रितान् सिद्धार्थकान् दत्त्वाऽस्त्रमन्त्रेण भस्मना ललाटे तिलकं दत्त्वा तैर्बलिं वाहयित्वाऽगाधजले चत्वरे वृक्षमूले ग्रामान्नगरान् वा बहिश्च देवभूतबलिक्षेपं कुर्यात् । सिद्धार्थैर्धूप्यायमानं पूर्वोक्तं वह्निपात्रं जलपात्रं च तेन बलिपात्रेण सहैव त्यजेत् । एवं कूपसमीपे वापीसमीपे वृक्षसमीपे बलिं प्रक्षिप्य पाणिपादौ प्रक्षाल्याऽऽचम्य सुलिप्तायां भूमौ शायितस्य रक्ष्यस्य परितस्तन्मूर्ध्नि दीपपात्रे चास्त्रमन्त्रेण सिद्धार्थान् प्रक्षिप्य मूलमन्त्रसम्पुटितेन चास्त्रमन्त्रेण बहुशोऽभिमन्त्रितं सिद्धार्थं सप्तरात्रं प्रत्यहं रक्ष्यस्य वस्त्रे च बध्नीयान् । एवं कृते व्याधिपीडितानां रक्षणं सिद्ध्यति । ततो रक्ष्यस्य गृहे प्रलिप्ते भूभागे कुशाजिनासने स्वयं समुपविश्य कृतमन्त्रन्यासः सहायवान् पयोभुग् निराहारो वा जपध्यानपरायणः सन् रात्रेरादिमध्यावसानेषु पूर्वोक्तप्रकारेण पूजनं हवनं बलिदानं च कुर्यात् । बलिदाने विशेषः—रात्रेः पूर्वभागे सोदकेन सक्तुना मधुना घृतेन च बलिं दद्यात्। मध्यरात्रौ यवगोधूमशालिचूर्णेन गुडोदकमिश्रितेन वृत्ताकारदीपशिखाकाराम्रफला- काराणि त्रिप्रकाराणि मोदकानि पाणिना कृत्वा क्षीरयुक्तैरपक्ववैस्तैर्मोदकैर्बलिं दद्यात् । रात्र्यवसाने त्वपक्वैः संमर्दितैः कृष्णैस्तिलैर्बीजैस्तण्डुलैर्हरिद्राचूर्णैर्दधिदूर्वाङ्कुरफलैश्च रक्षागृहाद् बहिर्मार्गैकदेशे चत्वरे वा शोधिते स्थले बलिं दद्यात् । अथ सप्तधान्यान्यादाय मूलमन्त्रेणाभिमन्त्र्य शरावे निधाय द्विजेन्द्रकन्यायै दत्त्वा तत्सकाशादेकस्मिन् पात्रे त्रिप्रसृतिमितिानि बीजान्यन्यस्मिन् पात्रे सप्तप्रसृतिमितिानि पुनरन्यस्मिन् पात्रे एकादशप्रसृतिमितिानि च बीजानि समाहरेत् । ततस्तत्पात्रत्रयं क्रमेणोदकैरापूर्यास्त्रमन्त्रसम्पुटितेन श्रीनृसिंहबीजेन प्रथमं कुम्भमष्टोत्तरशतवारं द्वितीयं द्विगुणं तृतीयं त्रिगुणं चाभिमन्त्र्य तेष्वेकं कुम्भमुद्धृत्य प्रातःकाले स्थले निक्षिपेत् । अन्य कुम्भमुद्धृत्य मध्याह्ने जले निक्षिपेत् । पुनरन्यं कुम्भमुद्धृत्य सायंकालेऽपि जले निक्षिपेत् । समाप्तिदिनपर्यन्तं प्रत्यहमेवं सामान्यतो भूततर्पणं कुर्यात् । ततोऽपरस्मिन् दिने यथाविधि मण्डलस्थं देवमभ्यर्च्यग्नौ च देवं पूर्णाहुत्यन्तं सन्तर्प्य गोमयोपलिप्ते स्थले सितेन चूर्णेन मण्डलमालिख्य तन्मध्ये शङ्खं तन्मध्ये षड्दलकमलं च विलिख्य पूर्वं शयनागारे शिरःप्रदेशे स्थापितदिक्कुम्भाष्टकमस्मिन् मण्डलेऽष्टास्रेषु दीपैः सह संस्थाप्य मध्यकुम्भं मण्डलमध्ये निधाय तस्मात् पूर्वदिना- र्पितार्घ्यपुष्पमाल्यादीन्यपनीय तत्कुम्भस्थले शोषिते सति शीतलोकदधारया पूर्ववत् पूरयेत्, कुम्भस्थमुदकं प्रत्यहं यथा यथा शोषं याति, तथा तथा रक्ष्यस्य धातुवृद्धि- र्भवति । अथाभिनवैः स्रग्वस्त्रार्घ्यगन्धाद्यैरलङ्कृत्य तत्र मन्त्रनाथं यथापूर्वं सम्पूज्य रक्तधातुवृद्धिकरैरमन्त्रपूतैः सुरभिनैवेद्यैर्देवं सन्तर्प्य पूजानन्तरमर्घ्यपुष्परजोधूपदीपादिकं सर्वमुपसंहृत्य नित्यमगाधेऽम्भसि निक्षिपेत् । शेषस्य विनियोगं च प्रागुक्तरीत्या कुर्यात् । ततस्तृतीयेऽहनि चतुरश्रं मण्डलमालिख्य तत्र षट्कोणं पुरं विलिख्य तन्मध्ये पद्मं च विलिख्य, तत्र कलशसमूहं पूर्ववत् संस्थाप्य, तदन्तरालेषु दीपांश्च निधाय, यथापूर्वं

सप्तदशः परिच्छेदः ३९५ समभ्यर्च्य, भगवन्निवेदितैर्हविरादिभिर्ब्राह्मणान् सन्तर्पयेत् । चतुर्थेऽहनि वृत्तमण्डल- मालिख्य, तत्र नाभिनेमिसमन्वितं पञ्चारं चक्रं विलिख्य, तत्र मध्ये महाकुम्भं परितो दिक्कुम्भान् तयोर्मध्ये मध्ये दीपांश्च विन्यस्य, विविधैर्नैवेद्यैः पुष्पादिभिश्च तत्र देव- मभ्यर्च्य, तदुपभुक्तं हविरादिकं सर्वमग्नौ प्रक्षिप्यान्यत् सर्वं पूर्ववत् कुर्यात् । अथ षष्ठे दिने त्रिकोणं मण्डलमालिख्य तन्मध्ये सप्तारं महाचक्रं विलिख्य तदन्तरे चतुर्दिक्षु गदाचतुष्टयं विलिख्य तन्मध्ये महाकुम्भस्थं देवं यथाविधि समभ्यर्च्य तन्निवैदितान्नादिकं काकादिपक्षिणामुपभोगार्थमुन्नतस्थाने निक्षिपेत् । अथ सप्तमेऽहनि चतुरश्रं चतुर्द्वारं मण्डलमालिख्य, तत्कोणचतुष्टये शङ्खचतुष्टयं विलिख्य, तन्मध्येऽसंख्यातदलं पद्मं विलिख्य, तत्कर्णिकाश्रितं द्वादशारं चक्रं विलिख्य, तत्राष्टदिक्षु दीपान्तरितानष्टकुम्भान् मध्ये महाकुम्भं च निधाय, तत्र यथाविधि देवमभ्यर्च्य तन्निवैदितान्नादेर्विनियोगं षष्ठदिनोक्तवत् कुर्यात् । एवं सप्तदिनार्चना- दिभिः—"रसासृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः” (अ०हृ०सू० १।१८) इत्युक्तानां सप्तधातूनां क्रमेण वृद्धिर्भवति । देहधात्वाश्रितानां मांसाशनानां सत्त्वानां बल्यर्थं सप्तदिनेष्वपि क्रमेण महिषमजं गुडं हरिणं शशकं मयूरं चक्रवाकं च सम्पादयेत् । किन्त्वेतान् महिषादीन्— पशुप्रतिनिधिं चैव रञ्जितं कुङ्कुमादिना ॥ धात्वाश्रितानां दोषाणां मनसा परिकल्पितम् । (१७।२६८-२६९) इति पूर्वोक्तप्र(करणे?कारेण) पिष्टपशुरूपान् कुर्यात् । साक्षात् प(शु?शू) नायुष्कामो न हन्यात् । ततः सप्तमे दिनेऽतीते मण्डलादिस्थितं देवं क्षान्त्वा मण्डलीय- रजांसि बल्यादींश्चादाय प्राग्वत् त्यजेत् ॥ २३६-३३३ ॥ इत्यातुराणां रक्षाविधान- मुक्तम् ॥ अब रोगी के रक्षा का विधान कहते हैं जिससे साधक सदा के लिय निरोग हो जाता है ॥ २३६ ॥ यह प्रयोग सामान्यतः सभी ज्ञात दोषों के निवारण में शक्त है । किन्तु विशेष कर अज्ञात दोषों के निवारण में जो प्रयोग सफल होता है, हे सङ्कर्षण! अब उसे सुनिये ॥ २३७ ॥ तारा और ग्रहों के उपताप से धातु में विषमता आती है और धातु में विषमता होने से ज्वरादि व्याधियाँ प्रकुपित होती है । उनके कोप का अवसर प्राप्त कर ब्रह्म, राक्षस, ग्रह, शाकिनी, भूत, बेताल, रोगी के शरीर में प्रविष्ट हो जाते हैं ॥ २३९ ॥ इन सभी का निमित्त रोगी द्वारा किया गया पूर्व का कर्म ही समझना चाहिये । मन्त्र के सामर्थ्य से, ज्ञान के सामर्थ्य से, तपस्या के सामर्थ्य से, जप, होम, विविध दान, अध्ययन के सामर्थ्य से तथा मन्त्र एवं औषधियों के उपयोग से वे सहसा नष्ट हो जाते हैं ।

३९६ सात्वतसंहिता इस रोग निवारण में सभी के लिये मन्त्र का अनुष्ठान अत्यन्त उपयोगी है, जिसके जप, स्मरण, ध्यान तथा मन्त्र से रोगी के शरीर में ग्रहों का प्रवेश संभव नहीं होता ॥ २४२ ॥ श्रीनृसिंह की आराधना के लिये पूर्ववत् मण्डल और कलशों का स्थापन करे । उपकुम्भों को श्वेत सर्षप के चीजों को ढकने से पूर्ण करे । उसको ढकने वाले पुरवा को सफल सर्षप तथा तिलों से पूर्ण कर उसके बाहर आठों दिशाओं में समान आकार वाले आठ लोह निर्मित बाणों को रखे । उसे किसी दृढ़ तन्तु द्वारा कलश कण्ठ में बाँधकर उसमें मोर के पङ्खे, सांप के केचुले से भूषित महौषधि, भूतजटा तथा शमी की शाख बाँध देवे । फिर उस बाणाष्टक को पञ्चवर्ण के सूत्र से उत्तर दिशा से आरम्भ कर दाहिनी ओर तीन बार लपेट देवे । फिर पूर्ण कलशों के अन्तराल (बीच-बीच) में ताम्रपात्र में सरसों का तेल भर कर महाराजत से रञ्जित बत्ती से संयुक्त कर आठ दीपक स्थापित करे ॥ २४३-२४९ ॥ तदनन्तर स्वयं स्नान करे, शिखा बाँधे, मौन धारण कर साधक पहले की भाँति दिग्बन्धन कर 'सर्वदोष पलायन' का संकल्प लेवे ॥ २५० ॥ मन्त्रनाथ श्रीनृसिंह की काम्य एवं नाना प्रकार के बहुत से कल्याणकारी पुष्पों, धूपों, फलों, मूलों तथा नैवेद्य एवं भक्ष्यों से विधिपूर्वक अर्चन करे ॥ २५१ ॥ अग्नि के मध्य में उन देवाधिदेव की सिद्धार्थ से संयुक्त सब बीजों से रजिका, घृत युक्त तिलों से सन्तुष्ट कर आतुर (रोगी) को पैर से लेकर मस्तक पर्यन्त अस्त्र पुष्पों से सन्ताडित कर नेत्र मन्त्र से उसकी ओर देख कर जालु तथा शिर नीचा करा कर भगवान् को निवेदित कर परिधायुक्त अस्त्र मन्त्र से अभिमन्त्रित अर्ध्यादि से अर्चित आसन पर बिठावे । फिर षडङ्ग श्रीनृसिंह मन्त्र से रोगी के हाथ तथा देह में यथाविधि न्यास मानस रूप से कर उसके आगे चक्र सहित षट्कोण मण्डल लिखकर वहाँ पूर्वोक्त सुन्दर परिष्कृत सात कलशों में जल भर कर मध्य में षट्कोणों में स्थापित कर कोणों के बीच-बीच में पूर्वोक्त रीति से आठ दीपक भी रख कर मध्य कुम्भ में साङ्ग मन्त्रनाथ का पूजन करे । कोण में स्थापित कलशों से 'ॐ नृसिंह भूतेभ्यो नमः' इस मन्त्र से सर्वदोषनाशक श्रीनृसिंह के भूत गणों का अर्चन करे ॥ २५२-२६१ ॥ अस्त्राभिमन्त्रित सिद्धार्थक से दिग्बन्ध कर पुनः उस आतुर को पुष्पों से सन्ताडित कर अपने हाथ के पङ्खे से उसके सभी शरीरस्थ दोषों को मन से खींच लेवे । फिर उस दोष की आकाश में अथवा धरातल में प्रक्षिप्त कर फिर धूम रहित अतिदीप्त अग्निपात्र में स्थित इन्धन रहित उस अग्नि में सिद्धार्थक तिल के साथ एक सौ आठ की संख्या में 'अमुकं रक्ष रक्ष स्वाहा' इस मूल मन्त्र से अथवा अस्त्र मन्त्र से होम करे ॥ २६२-२६५ ॥

सप्तदशः परिच्छेदः ३९७ प्रत्येक आहुति में दिये जाने वाले द्रव्य रोगी के शिर के चारों ओर घुमावे । आतुर को सिद्धार्थक समन्वित, भैंसा गुग्गुल द्वारा मूल मन्त्र से धूपित कर, वस्त्र से आच्छादित कर, अग्निपात्र के समीप जल सहित पात्र रखकर, कुङ्कुमादि से उसे लाल बना कर, उदक सहित उस अन्न को निकाल कर, आतुर के धातुओं में स्थित समस्त दोषों के लिय ‘अयं पशु प्रतिनिधि बलिः' ऐसा संकल्प कर 'यदीयमस्र्य वै बाधम् ... ... ... ... ... सिंहसत्येन मुञ्चतु' पर्यन्त मन्त्र पढ़ कर भूत बलि देवे ॥ २६६-२७० ॥ बलि देते समय मध्य में अपने बायें एवं दाहिने हाथ से असंख्यात होम करता रहे । बलिदान के लिये पहले प्रदक्षिणा करे । फिर अस्त्र मन्त्र से अभिमन्त्रित जल से हाथ धोकर, कुण्डस्थ भूति अथवा दग्ध गोमय (= गोहरी) की विभूति ले कर, उसे कई बार अस्त्रमन्त्र से अभिमन्त्रित कर, आतुर के ललाट से लेकर पाद पर्यन्त ऊर्ध्वपुण्ड्र लगाकर ‘ॐ क्षौं नमः, ॐ नमो भगवते नरसिंहाय स्वस्त्यस्तु ते' इस मन्त्र को पढ़ते हुए कुम्भोदक समन्वित अर्घ्योदक बिन्दु से प्रोक्षण करे ॥ २७१-२७३ ॥ रोगी के ब्रह्मरन्ध्र में पूर्णचन्द्र मण्डल मध्यस्थ लाखों पूर्ण चन्द्रमा के समान महान् अमृत का क्षरण करते हुए मन्त्रनाथ का स्मरण करे तथा उस चूते हुए अमृत से रोगी के शरीर रूप वृक्ष के संसिक्त होने का ध्यान करे । फिर कलश स्थित तथा मण्डल स्थित देव की पुनः अर्चना करे । सोपकलश सोदक उस महाकुम्भ को आतुर के शयनागार में शिरःप्रदेश में किसी वस्त्र-पीठ पर स्थापित करे । वस्त्र से उसे आच्छादित करे । फिर वहाँ भी दिशाओं में एवं विदिशाओं में आठ पूर्ण कुम्भ स्थापित करे और निरन्तर अविच्छिन्न प्रसर धूप पात्र रखे । दीप पात्र भी पूर्व की भाँति स्थापित करे । फल, पुष्प, औषधि, दीप, लाजा, सिद्धार्थक तथा दही का पात्र उसके आगे रखे, तदनन्तर सायङ्काल होने पर बलिदान करना चाहिए ॥ २७४-२७९ ॥ बलिदान का प्रकार इस प्रकार है—प्रथम षटकोण मण्डल पर स्थापित कलशों में मध्य कुम्भस्थ भगवान् के अर्चन के लिये जो कुछ भी पुष्प, धूप, दीपादिक एकत्रित किया गया हो, उन सबको किसी एक पात्र में संग्रहीत कर, उसके चारों ओर छह कलशों पर स्थित नृसिंह के भूतों के लिये दिये गये पुष्प, धूप, दीपादिक भी एक पात्र में पृथक्-पृथक् छह पात्रों में रख कर, तत्-तत् पात्रों को स्व-स्व दीपों से अलङ्कृत करे और उन कुम्भों पर स्थापित करे । ‘ॐ क्षः वीर्यायास्त्राय फट् अमुकं रक्ष रक्ष' इस मन्त्र का स्मरण करते हुए उन-उन कलशों को साध्य के शिरःस्थान में क्रमानुसार पृथक्-पृथक् घुमावे सात्विक भगवद् भक्तों को जो बलि ले जाने वाले हैं उन्हें बुलावे । उनके हाथ में अस्त्राभिमन्त्रित सिद्धार्थक देकर अस्त्र मन्त्र से भस्म के द्वारा ललाट में तिलक करे । उनसे बलि

३९८ सात्वतसंहिता का वहन करा कर अगाध जल में, चत्वर में, वृक्ष मूल में, ग्राम के बाहर, अथवा नगर के बाहर देवभूत बलि को प्रक्षिप्त करा देवे ॥ २८०-२८५ ॥ सिद्धार्थ से धूपित पूर्वोक्त वह्निपात्र और जलपात्र भी उसी बलिपात्र के साथ त्याग देवे । इसी प्रकार किसी कूप के समीप, वापी के समीप, वृक्ष के समीप, बलि को भी प्रक्षिप्त करा देवे । फिर साधक अपना हाथ पैर धोकर आचमन करे । सुलिप्त भूमि में शयन करने वाले रोगी के शिर के चारों ओर जलते हुए दीप पात्र में अस्त्र मन्त्र से सिद्धार्थक (श्वेत सर्षप) प्रक्षिप्त करे और मूल मन्त्र से सम्पुटित अस्त्र मन्त्र से बहुत बार अभिमन्त्रित सिद्धार्थ सात रात तक प्रतिदिन रोगी के वस्त्र में बाँधे । ऐसा करने से व्याधि से पीड़ित रोगी की रक्षा सिद्ध हो जाती है । फिर रक्षा के योग्य रोगी के प्रलिप्त भूभाग में कुश अजिन के आसन पर स्वयं बैठ कर स्वयं मन्त्र न्यास करे । उसकी सहायता के लिये मात्र दूध भक्षण करते हुए अथवा निराहार रह कर जप ध्यान में परायण रहकर रात्रि के आदि मध्य और अन्त में पूर्वोक्त प्रकार से क्रमशः पूजन, हवन तथा बलिदान करे ॥ २८०-२९३ ॥ बलिदान में विशेष रात्रि के पूर्वभाग में जल सहित सक्तु, मधु और घृत से बलि देवे । मध्य रात्रि में यव, गोधूम एवं शालिधान्य का चूर्ण जिसमें गुड़ और जल मिला हुआ हो उससे तथा वृत्ताकार, दीपशिखाकर, आम्रफलाकार तीन प्रकार का मोदक हाथ से बनाकर उसमें दूध मिलाकर बिना पकाये उससे बलि देवे । रात्रि के अन्त में बिना पकाये सम्मर्दित कृष्ण तिल, बीज, तण्डुल, हरिद्राचूर्ण, दधि, दूर्वाङ्कुर और फलों से रक्षागृह के बाहर किसी मार्ग के कोने में अथवा संशुद्ध चत्वर में बलि प्रदान करे ॥ २९३-२९८ ॥ इसके बाद सप्तधान्य हाथ में लेकर मूल मन्त्र से अभिमन्त्रित कर उसे किसी पुरवा में रखे । उस शरावा को किसी ब्राह्मण की कन्या को देकर उससे एक पात्र में तीन पसर बीज, दूसरे पात्र में सात पसर बीज, पुनः तीसरे पात्र में ११ पसर बीज लेवे । फिर उक्त तीनों पात्रों को क्रमशः जल से पूर्ण करे । फिर एक सौ आठ की संख्या में अस्त्र मन्त्र से सम्पुटित नृसिंह-बीज से प्रथम कुम्भ, उससे दूने सम्पुट से दूसरा पात्र तथा उससे तिगुने सम्पुट से तीसरा पात्र अभिमन्त्रित करे । प्रातःकाल में प्रथम पात्र उठाकर स्थल में छोड़े और मध्याह्न में दूसरा पात्र उठाकर जल में प्रक्षिप्त करे । समाप्ति दिन पर्यन्त प्रतिदिन सामान्य रूप से इसी प्रकार साधक भूत के तर्पण का कार्य करे ॥ २९८-३०२ ॥ फिर दूसरे दिन भी विधानपूर्वक श्रीनृसिंह देव का अर्चन कर अग्नि में पूर्णाहुति पर्यन्त उनको तृप्त कर किसी गोमयोपलिप्त स्थल में सफेद चूर्ण से मण्डल निर्माण करे । उसके मध्य में शङ्ख और उसके मध्य में षट्दल कमल लिखकर पहले शयनागार के शिरःप्रदेश में स्थापित कुम्भाष्टक के मण्डल पर आठ कोणों में आठ दीपकों के साथ मध्यकुम्भ को मण्डल के मध्य में स्थापित करे

सप्तदशः परिच्छेदः ३९९ और उस पर पूर्वदिन के पूजा के अर्घ्य पुष्प माल्यादि का अपसारण करे । उस कुम्भ के जल के सूख जाने पर शीतल जल की धारा से पुनः उसे पूर्ववत् पूर्ण करे । कुम्भ का जल जैसे-जैसे सूखता जायेगा, वैसे-वैसे रोगी के धातु की वृद्धि होगी । इसके बाद नवीन माला, वस्त्र, गन्धादि से मन्त्रनाथ को अलङ्कृत कर पूर्ववत् यजन करे । रक्त धातु की वृद्धि करने वाले मन्त्र पूत सुगन्धित पुष्प, नैवेद्यादि से देवाधिदेव को सन्तृप्त करे । पूजा के बाद अर्घ्य, पुष्प, रज, धूप, दीपादि सब एकत्रित कर नित्य कहीं अगाध जल में फेंक देवे । उससे शेष बचे का प्राक् उक्त रीति से विनियोग करे ॥ ३०३-३११ ॥ इसके बाद तीसरे दिन चौकोर मण्डल लिखकर उसमें षट्कोण एवं पुर लिखे । फिर उसके मध्य में कमल लिखकर वहाँ पूर्ववत् कलश समूह स्थापित कर उसके बीच-बीच में दीपक स्थापित करे । फिर पूर्व की भाँति अर्चना कर भगवन्निवेदित हविरादि से ब्राह्मणों को सन्तृप्त करे ॥ ३११-३१२ ॥ चौथे दिन वृत्तमण्डल लिखे । उस वृत्त पर नाभि नेमि समन्वित पञ्चार चक्र लिखकर उसके मध्य स्थित महाकुम्भ के चारों ओर दिक्कलश रक्खे । दोनों के मध्य में दीपक रखकर विविध नैवेद्य तथा विविध पुष्पों से देवाधिदेव की अभ्यर्चना कर उनके द्वारा उपयुक्त हविरादि सब अग्नि में प्रक्षिप्त करे । शेष सभी कार्य पूर्ववत् सम्पादन करे ॥ ३१३-३१५ ॥ इसके बाद पाँचवे दिन अष्टकोण मण्डल बनावे और उसमें शङ्ख लिखकर शङ्ख के भीतर कमल लिखे । उसके भीतर नाभि वेदी सहित पञ्च अरों वाला भूतों का आवास हेतिराट् (चक्र) लिखे । इसी प्रकार पूर्व की भाँति कुम्भ सहित दीपक स्थापित कर विविध प्रकार के नैवेद्यों तथा कुसुमादिकों से भगवत् पूजन सम्पादन करे । तदनन्तर देवोपयुक्त अन्नादि जल में प्रक्षिप्त कर शेष कार्य पूर्ववत् करे ॥ ३१६-३१८ ॥ इसके बाद छठे दिन त्रिकोण मण्डल लिखकर, उसके मध्य में सात अरों से युक्त महाचक्र लिखकर, उसके बीच में चारों ओर चार गदा लिखकर, उसके मध्य में स्थित महाकुम्भ पर देवाधिदेव को यथाविधि पधरा कर अर्चना करे । फिर तन्निवेदित अन्नादि का काक आदि आकाशचारी पक्षियों के खाने के लिये किसी ऊँचे स्थान पर रख देवे ॥ ३१८-३२० ॥ इसके बाद पुनः सातवें दिन चतुःकोण मण्डल निर्माण करे । फिर कोण चतुष्क पर चार शङ्ख लिखें । उसके मध्य में असंख्य दल भूषित पद्म लिखे । उस कमल की कर्णिका में द्वादश अरों वाला चक्र लिखे और उसके आठों दिशाओं में दीपयुक्त आठ कलश स्थापित करे । उस कलश पर सातवें दिन के पूजन का दक्षिणा सहित समस्त नैवेद्य का विनियोग छठें दिन के समान ही करे । ऐसा करने से रोगी के रस, असृक, मांस, मेद, अस्थि, मज्जा और शुक्र इन धातुओं की

४०० सात्वतसंहिता क्रम से वृद्धि होने लगती है । देह के धातुओं पर आश्रित मांस भोजी जन्तुओं की बलि के लिये सातों दिन क्रमशः महिष, अज, गुड, हरिण, शशक, मयूर और चक्रवाक का सम्पादन करे । कुङ्कुम से रँगे हुए विष्ट आदि द्वारा पशु प्रतिनिधि के रूप में करे । जीव हिंसा कदापि न करे क्योंकि स्वार्थ के लिये एवं पदार्थ के लिये अपना कल्याण चाहने वाले पुरुष को प्राणिहिंसा कदापि नही करनी चाहिये । विशेष कर जीवित रहने की इच्छा रखने वाला पुरुष प्राणिहिंसा वर्जित करे । प्राणिहिंसा से आयु का क्षय होता है और प्राणियों को अभयदान देने से आयु की अभिवृद्धि होती है ॥ ३२९ ॥ आयु, आरोग्य, ऐश्वर्य, अपमृत्यु पर विजय महान्, बल, ओज, धृति, धैर्य, मन्त्र के जप से प्राप्त होता है, दूसरे के आयुष्य के हरण से नहीं ॥ ३३० ॥ सत्त्वगुण में स्थित पुरुष की मन्त्र, पूजा, जप, होम, सुवर्ण एवं गवादिक का दान करने से इस लोक की तथा परलोक की वृद्धि होती है ॥ ३३१ ॥ इस प्रकार सात दिन बीत जाने पर मण्डलादि स्थित देवताओं से क्षमा माँग कर मण्डलीय रजःकण तथा बलि आदि की समस्त वस्तुयें दूर जलादि में प्रक्षिप्त कर देवे । यहाँ तक आतुरों के रक्षा विधान की विधि कही गई ॥ ३३२-३३३ ॥ अनातुराणामपि रक्षाविधानम् नीरुजानां विशेषेण रक्षणं भोगसेविनाम् ॥ ३३३ ॥ क्रियारतानां भक्तानामास्तिकानां हितैषिणाम् । कार्यं क्रियापरेणैव मन्त्रज्ञेन सदैव हि ॥ ३३४ ॥ यत्रानेन विधानेन शरीरमपि रक्ष्यते । तत्र भूताः प्रयच्छन्ति कल्याणं सर्वलौकिकम् ॥ ३३५ ॥ अथ सन्धारणीं रक्षां वक्ष्ये विग्रहभूषणम् । या सम्पन्ने क्रियामात्रे धारणादेव रक्षति ॥ ३३६ ॥ प्रणवाद्यन्तसंरुद्धं प्राग्वत् संज्ञापदं लिखेत् । संज्ञाधारं हि तद्बीजं विन्यसेत् प्रणवोदरे ॥ ३३७ ॥ तेनावर्तं त्रिधा कुर्यात् सर्वं तत् सिंहकुक्षिगम् । नेमेर्दशमबीजेन बीजराट् परिवेष्ट्यते ॥ ३३८ ॥ औकाररहितं बीजं नाभिसप्तमसंस्थितम् । भिन्नं सर्वारसंसंस्थैस्तु कृत्वा तेन प्रपूर्य तम् ॥ ३३९ ॥ कमलं तद्बहिः कुर्यात् षड्दलं व्योमभूषितम् । हृदाद्यं नेत्रपर्यन्तं पत्रषट्के तु विन्यसेत् ॥ ३४० ॥

सप्तदशः परिच्छेदः ४०१ प्रणवेन चतुर्दिक्षु संरुद्धं नाम संलिखेत् । रक्षवीप्सापदोपेतं पत्रसन्धिषु षट्स्वथ ॥ ३४१ ॥ द्वादशारं बहिश्चक्रं नाभिनेमियुतं लिखेत् । नाभेरष्टमबीजं यत् तदरेष्वन्तरा न्यसेत् ॥ ३४२ ॥ सप्तमाद् दशमं यावद् वर्जयित्वा अराक्षरम् । क्रमेण भेदयेच्छेषैस्तदराणैः सबिन्दुकैः ॥ ३४३ ॥ जहिवीप्सापदं दोषानमुकस्येति विन्यसेत् । सर्वेषामन्तरालेषु अस्त्रमन्त्रं तु पूर्ववत् ॥ ३४४ ॥ अमुकं पाहि पाहीति द्वादशाक्षरमध्यगम् । चक्रनाभौ तु विन्यस्य नेमिदेशे तथैव हि ॥ ३४५ ॥ क्रमादथ बहिर्लिख्य मन्त्रचक्रस्य यत्नतः । वृत्तत्रयार्धचन्द्राणि चतुरश्रपुराणि च ॥ ३४६ ॥ बिन्दुस्वस्तिककह्लारवज्रसंलाञ्छितानि च । नाभिपूर्वद्वितीयेन चतुर्थेन तदादिना ॥ ३४७ ॥ क्रमाद् वर्णचतुष्केण तानि युक्तानि कारयेत् । सषडङ्गेन बीजेन नाम रक्षपदानुगम् ॥ ३४८ ॥ सम्पुटीकृत्य वृत्ताख्यं मण्डलं परिपूरयेत् । द्वादशार्णेन बाह्यस्थं तृतीयं पूर्य पूर्ववत् ॥ ३४९ ॥ द्वितीयं वा चतुर्थं तु बहिर्दिक्ष्वष्टके क्रमात् । रक्षवीप्सापदोपेतं नामवर्जं नियोजयेत् ॥ ३५० ॥ सह रोचनया योज्य कर्पूरं कुङ्कुमं तु वै । क्षीरेण कापिलेनाथ तद्गोमयरसेन च ॥ ३५१ ॥ निशाम्बुना समालोड्य निम्नगासलिलेन वा । विलिख्य भूर्जपत्रे वा बर्हिपक्षेण वासरे ॥ ३५२ ॥ शुभेऽनुकूले नक्षत्रे सुलग्नेऽभ्युदिते ग्रहे । पूज्य संवेष्ट्य सूत्रेण ततः सद्धातुना तु वै ॥ ३५३ ॥ सन्धार्य मूर्ध्नि कण्ठे वा सततं दक्षिणे भुजे । दैवदोषविमुक्तस्तु वर्धते शोकवर्जितः ॥ ३५४ ॥ अधिभूतैर्भयैर्मुक्तो यावज्जीवं हि तिष्ठति । परार्थतो वा स्वार्थेन कृतकृत्यो यदा भवेत् ॥ ३५५ ॥ दोषवान् शान्तिदेनैव कर्मणाऽनेन साधुना ।

४०२ सात्वतसंहिता

मन्त्री तदा मन्त्रवरं प्रयत्नेन क्षमापयेत् ॥ ३५६ ॥ सिद्ध्यर्थमन्यसिद्धीनां यागहोमजपादिना । अथानातूराणामपि रक्षाविधिमाह—नीरूजानां विशेषेणेत्यारभ्य यागहोमजपादि- नेत्यन्तम् । दैवदोषविमुक्त आधिदैविकतापविमुक्त इत्यर्थः । आधिदैविको नाम शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवस्तापः । शोकवर्जित आध्यात्मिकतापविमुक्त इत्यर्थः । शोकपदमाध्यात्मिकानामन्येषामप्युपलक्षणम् । आध्यात्मिको नाम— कामक्रोधभयद्वेषलोभमोहविषादजः । शोकासूयावमानेर्ष्यामात्सर्यादिमयस्तथा ॥ (विष्णु पु. ६।५।५) शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥ तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञितैः । (विष्णु पु० ६।५।३-४) इत्युक्तस्तापः । अधिभूतमयैर्मुक्त आधिभौतिकतापविवर्जित इत्यर्थः । आधि- भौतिको नाम— पशुपक्षिमन्ुष्याद्यैः पिशाचोरगराक्षसैः । सरीसृपाद्यैश्च नृणां जन्यन्ते चाधिभौतिकाः ॥ (विष्णु पु० ६।५।७) इत्युक्तस्तापः । तथा च प्रयोगः— शुभेऽनुकूले नक्षत्रे शुभे ग्रहेऽभ्युदिते सुलग्ने स्नातः कृतमन्त्रन्यासः साधको रोचनाकर्पूरकुङ्कुमानि कपिलाक्षीरेण तद्गोमयरसेन च हरिद्रोदकेन नदीजलेन च समालोड्य तत्कुङ्कुमादिपङ्कं बर्हिपक्षलेखिन्या समादाय भूर्जपत्रादौ वक्ष्यमाणप्रकारेण विलिखेत् । प्रणवसम्पुटितं साध्यनामधेयं श्रीनृसिंहबीजगर्भं विलिख्य तद् बीजं प्रणवगर्भे यथा भवेत् तथा विलिख्य पुनस्तत्प्रणवं बीजगर्भस्थं कृत्वा पुनस्तद्बीजं प्रणवमध्यगतं कृत्वैवं त्रिधावर्तनिन्तरं तत्सर्वं बीजगर्भगतं कृत्वा तद्बीजं नेमेर्दशमबीजेन लकारेण परिवेष्ट्यौकाररहितं नृसिंहबीजं नाभिसप्तमसंस्थितं सकारोपरि संस्थितं सर्वारसंसिस्थितैरकारादिविसर्गान्तैः स्वरैर्विभिन्नं च कृत्वा तेन तं प्रपूर्य तद्बहिव्र्योमभूषितं षड्दलं कमलं विलिख्य तद्दलेषु हृदादिनेत्रान्तान् षण्मन्त्रान् विलिख्य चतुर्दिक्ष्वपि प्रणवसम्पुटितं रक्ष्यस्य नामधेयं रक्ष रक्षेति पदान्वितं पत्रसन्धिषट्केऽपि विलिख्य तद्बहिर्नाभिनेमिसमन्वितं द्वादशारं चक्रं विलिख्य नाभेरष्टमबीजं हकारं सप्ताष्टम- नवम-दशमस्वरान् विहायावशिष्टैरकारादिविसर्गान्तैर्द्वादशस्वरैर्भिन्नं कृत्वा द्वादशारे- ष्वपि क्रमेण लिखेत् ॥ ३३३-३४३ ॥ अराणामन्तरालेषु 'ॐ क्षः वीर्याय अस्त्राय फट् अमुकस्य दोषान् जहि जहीति' विलिखेत् । चक्रस्य नाभिदेशे नेमिभागे च नृसिंहद्वादशाक्षरसम्पुटितममुकं पाहि पाहीति विलिखेत् । ततस्तन्मन्त्रचक्रस्य बहिर्बिन्दुभूषितं वृत्तमण्डलं तद्बहिः स्वस्तिक- भूषितं त्र्यश्रमण्डलं तद्बहिः कह्लारभूषितमर्धचन्द्राकारं मण्डलं तद्बहिर्वज्रलाञ्छितं चतुरश्रं मण्डलं च विलिख्य नाभिपूर्वं यकारं वायुबीजं पूर्वोक्ते वृत्तमण्डले तद्द्वितीयं रेफमग्निबीजं त्रिकोणमण्डले तच्चतुर्थममृतं (वकारं) बीजमर्धचन्द्राकारमण्डले तत्तृतीयं

सप्तदशः परिच्छेदः ४०३ पार्थिवबीजं चतुरश्रमण्डले च विलिख्य वृत्तमण्डले सषडङ्गेन बीजेन सम्पुटीकृतममुक- नामधेयं रक्षेति पदद्वयं विलिखेत् । तथैवार्धचन्द्राकारमण्डलेऽपि द्वादशाक्षरसम्पुटित- ममुकं रक्षेति पदद्वयं विलिखेत् । पुरस्त्यश्रमण्डले वृत्तमण्डलवच्चतुरश्रमण्डलेऽर्ध- चन्द्राकारमण्डलवच्च विलिख्य बहिः प्राच्याद्यष्टदिक्षु रक्ष रक्षेति केवलं नामवर्जितं विलिखेत् । अथेदं यन्त्रं यथाविधि सम्पूज्य सूत्रेण संवेष्ट्य सुवर्णादिधातुना विधाय मूर्ध्नि कण्ठे दक्षिणभुजे वा सततं धारयेत् । अनेन यावज्जीवमाध्यात्मिकादिदैवि- काधिभौतिकतापत्रयभयविमुक्तो भवति । एवं स्वार्थतः परार्थतो वा यन्त्रोद्धारादिकं कृत्वा यागहोमसमाधिभिर्देवं सविशेषं समाराध्य क्षमापयेत् ॥ ३४४-३५७ ॥ इति संधारिणी रक्षाविधिः ॥ अब अनातुरों की रक्षाविधि कहते हैं—क्रियापरायण मन्त्रज्ञ को चाहिये कि वह भोग सेवन करने वाले, रोग रहित, यज्ञ यागादि क्रियापरायण आस्तिक भक्तों की एवं अपने हितेच्छु जनों की रक्षा अवश्य करे ॥ ३३४ ॥ जहाँ उक्त प्रकार से मन्त्रज्ञ शरीर की रक्षा करता है, वहाँ भूतगण भी सार्वलौकिक कल्याण करते हैं ॥ ३३५ ॥ अब शरीर की भूषणभूत सन्धारणी रक्षा कहता हूँ। जिसके क्रिया मात्र के सम्पन्न होने से अथवा उसके धारण करने मात्र से साधक मनुष्य अपनी रक्षा कर लेता है ॥ ३३६ ॥ अब इसकी प्रयोग विधि कहते हैं—शुभ अनुकूल नक्षत्र में, शुभ ग्रह स्थिति में एवं शुभ लग्न में साधक स्नान करे और न्यास करे । फिर रोचना कुङ्कुम एवं कपूर को एक में मिला कर उसे कपिला गौ के दूध एवं गोमय से रस (हरदी का) जल तथा नदी के जल से अच्छी तरह मन्थन कर एकीकरण करे । उस पङ्क को मोर पक्ष की कलम से भोजपत्र आदि पर इस प्रकार लिखे— श्री नृसिंह बीज के गर्भ में प्रणव सम्पुटित साध्य नाम लिखे फिर उस बीज को भी प्रणव गर्भ में जिस प्रकार वह आ सके वैसा लिखे । फिर उस प्रणव को भी उस बीज के गर्भ में स्थापित कर फिर उस बीज को भी प्रणव मध्यगत लिखे । इस प्रकार तीन बार आवृत्ति कर उन सभी को बीज के गर्भ में लिखे । फिर उस बीज को नेमि के दशम बीज लकार से परिवेष्टित करे । फिर औकार रहित नृसिंह बीज को (नाभि सप्तम स्थित) सकार के ऊपर संक्षिप्त कर सभी अरा पर संस्थित एकारादि विसर्गान्त स्वरों से संयुक्त कर, उसके बाहर व्योम- भूषित षड्दल कमल लिख कर, उसके दलों पर हृदादि नेत्रान्त ६ मन्त्रों को लिख कर, उसके चारों दिशाओं में प्रणव सम्पुटित रक्ष्य का नाम 'रक्ष रक्ष' इस पद से युक्त कर, पत्र सन्धि के ६ भागों पर उसे लिखकर उसके बाहर नाभि समन्वित द्वादशाक्षर चक्र लिखकर नाभि का अष्टम बीज हकार लिखे । फिर सप्तम, अष्टम, नवम, दशम (ऋ ॠ लृ लॄ) इन चार स्वरों को छोड़कर

४०४ सात्वतसंहिता अवशिष्ट विसर्गान्त एकादश स्वर (अ आ इ ई उ ऊ ए ऐ ओ औ अः) स्वरों से संयुक्त कर द्वादश अरों पर उन्हें लिखे ॥ ३३७-३४३ ॥ अरों के बीच-बीच में 'ॐ क्षः वीर्याय अस्त्राय फट् अमुकस्य दोषान् जहि जहि' यह लिखे। फिर चक्र के नाभि देश तथा नेमिभाग पर नृसिंह के द्वादशाक्षर मन्त्र से सम्पुटित 'अमुकं पाहि पाहि' यह लिखे। तदनन्तर इस प्रकार लिखे गये उस मन्त्र चक्र के बाहर बिन्दुभूषित वृत्तमण्डल, उसके बाहर स्वस्तिकभूषित त्रिकोणमण्डल, उसके बाहर कहारभूषित अर्धचन्द्राकार मण्डल, उसके बाहर वज्र लाञ्छित चौकोर मण्डल लिखकर नाभिपूर्व वायु बीज यकार लिखे। पूर्वोक्त वृत्त मण्डल पर, उससे दूसरा रेफ अग्निबीज त्रिकोण मण्डल पर, चौथा अमृत बीज वकार अर्धचन्द्राकार मण्डल में, तृतीय पार्थिव बीज लकार इस प्रकार चारों मण्डल पर लिखकर वृत्त मण्डल पर षडङ्गबीज से सम्पुटित 'अमुकनामधेयं रक्ष' इस दो पद को लिखे, फिर उसी प्रकार अर्धचन्द्राकार मण्डल पर भी द्वादशाक्षर सम्पुटित 'अमुकं रक्ष' यह दो पद लिखे। फिर त्रिकोण मण्डल, वृत्त मण्डल, चतुरस्र मण्डल, अर्धचन्द्राकार मण्डल लिखकर उसके बाहर पूर्वादि आठों दिशाओं में केवल रक्ष रक्ष इतना ही नामवर्जित पद लिखे। फिर इस प्रकार निष्पन्न मन्त्र का यथाविधि पूजन कर, उसे सूत्र से संवेष्टित कर और सुवर्णादिक धातु में उसे स्थापित कर शिर, कण्ठ या दाहिने हाथ में कहीं भी सतत् धारण करे। इसको जीवन पर्यन्त धारण करने वाला पुरुष आध्यात्मिक, आधिदैविक तथा आधिभौतिक इन तीनों प्रकार के तापों के भय से सदा विमुक्त हो जाता है। इस प्रकार अपने लिये तथा दूसरों के लिए मन्त्रोद्धार कर याग, होम एवं समाधि द्वारा भगवान् नृसिंह का विशेष रूप से समाराधन करने वाला साधक उनसे प्रार्थनापूर्वक क्षमा याचना करे ॥ ३४४-३५६ ॥ धर्मार्थकाममोक्षाख्य पुरुषार्थचतुष्टयसाधनविधिः अथ मन्त्रवराद् धर्मसाधनं योऽभिवाञ्छति ॥ ३५७ ॥ तत्प्राप्तये विधानं च संक्षेपादवधारय । पितॄणां लुप्तपिण्डानां पिण्डनिर्वापणाय च ॥ ३५८ ॥ प्रीतयेऽपि जगद्धातुः परित्राणार्थमात्मनः । कृतोपवासोऽमावास्यां मण्डलान्तर्गतं विभुम् ॥ ३५९ ॥ आवाह्य पूर्वविधिना योजयेद् भक्तिपूर्वकम् । पाद्यार्घ्यपुष्पधूपैस्तु दानैर्हेमगवादिकैः ॥ ३६० ॥ तिलयुक्तैस्तु नैवेद्यैः सकुशैस्तु तिलान्वितैः । विमलैरम्बुपात्रैश्च स्वयमञ्जलिपूरकैः ॥ ३६१ ॥ सोऽचिरान्मन्त्रमूर्तेर्वै प्रसादाच्छाश्वतं पदम् ।

सप्तदशः परिच्छेदः ४०५ प्राप्नोति नरकस्थांश्च पितॄनपि नयेद् दिवम् ॥ ३६२ ॥ पत्रपुष्पफलान्नाद्यसस्यदध्योदनादिना । रसैरत्नैश्च सद्गन्धैर्वस्त्रोत्कृष्टैस्तु धातुभिः ॥ ३६३ ॥ प्रवालमुक्तामाणिक्यैर्भक्त्या च विभवे सति । बिम्बस्थं मण्डलस्थं वा सर्वैर्यो मन्त्रिराड् यजेत् ॥ ३६४ ॥ षडशीतिमुखोत्थायां पूर्णायों सोपवासकः । यज्ञधर्मफलाकाङ्क्षी स नूनं तदवाप्नुयात् ॥ ३६५ ॥ यो हि वाञ्छति सद्धर्मतीर्थाभिगमनं महत् । स यथावत् क्रमात् पूर्वं मण्डले मन्त्रराड् यजेत् ॥ ३६६ ॥ ततः सम्भृतसम्भारः स्नानपूर्व समर्चयेत् । सिद्धप्रतिष्ठितं बिम्बं सैद्धं वाथ स्वयंकृतम् ॥ ३६७ ॥ पञ्चगव्यदधिक्षीरघृतमध्विक्षुवारिभिः । सर्वौषधीगन्धरत्नफलपुष्पान्वितैर्घटैः ॥ ३६८ ॥ साङ्गेनामन्त्र्य मन्त्रेण शताष्टफलपूरितैः । अन्तरीकृतशुद्धाम्भःकुम्भैरर्घ्यसमन्वितैः ॥ ३६९ ॥ श्रद्धापूतेन मनसा एवं निष्पाद्यते यदि । प्रसादं मन्त्रनाथस्य प्रागुक्तमचिराल्लभेतू ॥ ३७० ॥ संक्रान्त्यां सोपवासस्तु मण्डले मन्त्रनायकम् । समावाह्य यजेद् यस्तु फलपुष्पैर्र्यथर्तुजैः ॥ ३७१ ॥ सप्ताहं फलमूलाशी त्रिकालं स्नानतत्परः । बहुशोऽष्टाङ्गपातैस्तु प्रदक्षिणसमन्वितैः ॥ ३७२ ॥ स नूनं समवाप्नोति शश्वद् यस्तद् व्रतोद्भवम् । अथाभिमतदानाद् वै यो धर्ममभिवाञ्छति ॥ ३७३ ॥ विषुवस्थं दिनं प्राप्य सोपवासस्तु संयतः । अभिसन्धाय मनसा धर्मं दानादभीप्सितम् ॥ ३७४ ॥ निर्वर्त्य मण्डलं रम्यमग्न्यगारसमन्वितम् । गोसम्भवैस्तु नैवेद्यैर्भक्ष्यैः सफलमूलकैः ॥ ३७५ ॥ स्रग्वरैर्धूपदीपांस्तु तिलैर्होमाम्बुभाजनैः । सम्यगिष्ट्वाऽथ सन्तर्प्य ज्वलनान्तर्गतं ततः ॥ ३७६ ॥ समिद्भिराज्येन तिलैः सघृतैस्तण्डुलान्वितैः । ततोऽभिवर्धते धर्मो मूर्तादानाच्छताधिकम् ॥ ३७७ ॥

४०६ सात्वतसंहिता दक्षिणे वायने वाथ शुभं निर्वर्त्य मण्डलम् । मन्त्रनाथं तु चावाह्य विधिना संयजेत् ततः ॥ ३७८ ॥ माल्यैर्विलेपनैर्धूपैर्महादीपैघृतादिकैः । गुडखण्डचितैर्भक्ष्यैः पयसा कृसरेण तु ॥ ३७९ ॥ नालिकेरोदकेनैव सक्तुना च घृतेन च । सन्तर्प्य हुतभुङ् मध्ये मन्त्रमाज्यादिकैस्ततः ॥ ३८० ॥ विधिनानेन वै धर्ममिष्टापूर्तमवाप्यते । चन्द्रसूर्योपरागे चाप्यहोरात्रोषितः शुचिः ॥ ३८१ ॥ सर्वोपकरणोपेतमादौ निर्वर्त्य मण्डलम् । न्यस्य मन्त्रवरं तत्र विभवेन यजेत् ततः ॥ ३८२ ॥ सन्तर्प्य वह्निमध्येऽथ समिद्भिर्वा घृतादिकैः । जपेन्मन्त्रवरं पश्चान्मclass? पश्चान्म-न-सा पश्चान्मclass? पश्चान्म-न-सा पश्चान्म-न-सा ध्यानसंयुक्तम् ॥ ३८३ ॥ अक्षसूत्रकरो मन्त्री यावच्चन्द्रार्कदर्शनम् । पूजाहोमजपानां च फलमानन्त्यमवाप्नुयात् ॥ ३८४ ॥ भक्तानामर्थहीनानां मन्त्रैकनियतात्मनाम् । साधनाङ्ग·विहीनानां फलेप्सूनामिदं स्मृतम् ॥ ३८५ ॥ स्नानाद् ध्यानातथा योगाज्जपाद्धोमाच्च सद्‌व्रतात् । सदन्नपानाद् दानाच्च सर्वलोपाच्च सामयात् ॥ ३८६ ॥ धर्मसाधनमित्युक्तं सवित्तानां विशेषतः । अथार्थसाधनं मन्त्रादभिवाञ्छति योऽचिरात् ॥ ३८७ ॥ ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः । कृत्वा यागं यथा सम्यक् सप्ताहं तत्र मन्त्रराट् ॥ ३८८ ॥ यजेत् स विभवेनैव त्रिस्नायी नक्तभोजनः । त्रैकाल्यं हुतभुङ्‌मध्ये सन्तर्प्याज्येन कालजैः ॥ ३८९ ॥ विल्वैरामलकैः पद्मैस्तदभावे कुशाङ्कुरैः । य इच्छेत् तस्य कालं तु मन्त्रं मन्त्रेश्वरात् फलम् ॥ ३९० ॥ वैशाख्ये हि सिते पक्षे सौम्यश्रवणसंयुते । सोपवासेन कर्तव्यं मन्त्रेशस्यार्चनं महत् ॥ ३९१ ॥ स्थले वा मण्डले बिम्बे साम्भःकुम्भेऽथवा ततः । दक्षिणोत्तरपादाभ्यां मन्त्रनाथस्य पूजयेत् ॥ ३९२ ॥ गङ्गां च यमुनां चैव नतिना प्रणवेन तु ।

तदङ्घ्रिजलमिश्रेण घटमापूर्य चाम्भसा ॥ ३९३ ॥ अलङ्कृत्य यथाशोभं पुष्पवस्त्रानुलेपनैः । विनिवेश्य च तद्वक्त्रे तिलहोमफलान्वितम् ॥ ३९४ ॥ मध्वाज्यशर्कराद्येन पूर्णं दध्योदना(नि?दि) च । महत्पूर्णघटं चैव पात्रं वा वैदलं ततः ॥ ३९५ ॥ निवेद्य मन्त्रमूर्त्तौ प्राक् सदुपानहसंयुक्तम् । तत्रातपत्रसहितं पात्रमाहूय वै ततः ॥ ३९६ ॥ स्रक्चन्दनायैर्धूपैस्तु तमलङ्कृत्य वाससा । मन्त्रेणार्घ्योदकं पाणौ दत्त्वा तदनु तद्घटम् ॥ ३९७ ॥ प्रतिपाद्य जगद्योनेः प्रीत्यर्थमपि तेन वै । प्रसक्तेन परां प्रीतिं वाच्यो मन्त्री महामते ॥ ३९८ ॥ एवमेव प्रपन्ना ये नारायणमनामयम् । वर्णा ब्राह्मणपूर्वा ये ते स्वदुष्कृतशान्तये ॥ ३९९ ॥ स्नात्वाऽभ्यर्च्य पितॄन् देवान् सन्नदीभ्यां तु सङ्गमे । आ नाभिमवतीर्याऽथ विमलाञ्जलिपूरकैः ॥ ४०० ॥ निर्वर्त्य भगवाद्यागं दद्याद् विप्रवराय च । आप्त्यर्थं विबुधानां च सर्वलोकनिवासिनाम् ॥ ४०१ ॥ पितॄणां स्वकुलोत्थानां सततं श्राद्धकाङ्क्षिणाम् । श्वेतद्वीपाप्तये चैव वृद्ध्यर्थं च स्वसन्ततेः ॥ ४०२ ॥ आस्तां सितासिता चैव द्वादशी त्वमलेक्षण । भगवद्भावपूतानां या काचिदपरा तिथिः ॥ ४०३ ॥ सा चैव श्रवणोपेता युता चाभिजिता तु वै । सा तेषामङ्गभावं च याति सर्वफलाप्तये ॥ ४०४ ॥ तस्मात् कृतोपवासस्तु तस्यामभ्यर्च्य मन्त्रराट् । विभवेनाथवा शक्त्या मन्त्रसाम्मुख्यसिद्धये ॥ ४०५ ॥ यानि यानीह दानानि गोभूहेमादिकानि च । दत्तानि चानुरूपाणि जनानां कृतकर्मणाम् ॥ ४०६ ॥ फलदानि च दातॄणां भवदार्थ्यकराणि च । सम्यग् दत्तानि तान्येव भक्तानां भावितात्मनाम् ॥ ४०७ ॥ भगवत्पादलिप्सूनां भवन्ति भवशान्तये । अपिवादमिदं तावद् यत् सर्वत्राच्युतो हरिः ॥ ४०८ ॥