सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 466, कुल 837 में से
संदर्भ में पढ़ेंतदङ्घ्रिजलमिश्रेण घटमापूर्य चाम्भसा ॥ ३९३ ॥ अलङ्कृत्य यथाशोभं पुष्पवस्त्रानुलेपनैः । विनिवेश्य च तद्वक्त्रे तिलहोमफलान्वितम् ॥ ३९४ ॥ मध्वाज्यशर्कराद्येन पूर्णं दध्योदना(नि?दि) च । महत्पूर्णघटं चैव पात्रं वा वैदलं ततः ॥ ३९५ ॥ निवेद्य मन्त्रमूर्त्तौ प्राक् सदुपानहसंयुक्तम् । तत्रातपत्रसहितं पात्रमाहूय वै ततः ॥ ३९६ ॥ स्रक्चन्दनायैर्धूपैस्तु तमलङ्कृत्य वाससा । मन्त्रेणार्घ्योदकं पाणौ दत्त्वा तदनु तद्घटम् ॥ ३९७ ॥ प्रतिपाद्य जगद्योनेः प्रीत्यर्थमपि तेन वै । प्रसक्तेन परां प्रीतिं वाच्यो मन्त्री महामते ॥ ३९८ ॥ एवमेव प्रपन्ना ये नारायणमनामयम् । वर्णा ब्राह्मणपूर्वा ये ते स्वदुष्कृतशान्तये ॥ ३९९ ॥ स्नात्वाऽभ्यर्च्य पितॄन् देवान् सन्नदीभ्यां तु सङ्गमे । आ नाभिमवतीर्याऽथ विमलाञ्जलिपूरकैः ॥ ४०० ॥ निर्वर्त्य भगवाद्यागं दद्याद् विप्रवराय च । आप्त्यर्थं विबुधानां च सर्वलोकनिवासिनाम् ॥ ४०१ ॥ पितॄणां स्वकुलोत्थानां सततं श्राद्धकाङ्क्षिणाम् । श्वेतद्वीपाप्तये चैव वृद्ध्यर्थं च स्वसन्ततेः ॥ ४०२ ॥ आस्तां सितासिता चैव द्वादशी त्वमलेक्षण । भगवद्भावपूतानां या काचिदपरा तिथिः ॥ ४०३ ॥ सा चैव श्रवणोपेता युता चाभिजिता तु वै । सा तेषामङ्गभावं च याति सर्वफलाप्तये ॥ ४०४ ॥ तस्मात् कृतोपवासस्तु तस्यामभ्यर्च्य मन्त्रराट् । विभवेनाथवा शक्त्या मन्त्रसाम्मुख्यसिद्धये ॥ ४०५ ॥ यानि यानीह दानानि गोभूहेमादिकानि च । दत्तानि चानुरूपाणि जनानां कृतकर्मणाम् ॥ ४०६ ॥ फलदानि च दातॄणां भवदार्थ्यकराणि च । सम्यग् दत्तानि तान्येव भक्तानां भावितात्मनाम् ॥ ४०७ ॥ भगवत्पादलिप्सूनां भवन्ति भवशान्तये । अपिवादमिदं तावद् यत् सर्वत्राच्युतो हरिः ॥ ४०८ ॥