सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 467, कुल 837 में से
संदर्भ में पढ़ेंविष्णुर्नारायणो हंसः सर्वशक्तिमयः प्रभुः । द्रव्यात्मना विभक्तश्च ज्ञातव्यो ज्ञानकर्मणि ॥ ४०९ ॥ त्रिविधेन तु भेदेन बुद्बुदाद्या यथाम्भसि । एवं दानं स्वमात्मानं पात्रं नारायणात्मकम् ॥ ४१० ॥ बुद्ध्वा सामान्यबुद्ध्या प्राक् पुनस्तत्रिविधं पृथक् । सविशेषं परिज्ञेयं दानकाले ह्युपस्थिते ॥ ४११ ॥ उपायलक्षणं द्रव्यमभ्यूह्यादौ स्वचेतसा । अनन्तशक्तेः सामर्थ्यमिदं किञ्चिदनश्वरम् ॥ ४१२ ॥ दानाभिमानदेहस्तु प्रत्यगात्मा त्वहं प्रभुः । पात्रभावत्वमापन्नो मदनुग्रहकाम्यया ॥ ४१३ ॥ देवः पञ्चतनुः साक्षात् पञ्चभूतात्मना त्विदम् । ज्ञात्वैवं द्वादशार्णेन स्वेन वा न्यस्तविग्रहः ॥ ४१४ ॥ प्रत्ययं मन्त्रमालम्ब्य द्रव्यहोमादिकं ततः । स्वरूपमजहद् ध्यायेन्महद्रश्मिकदम्बवत् ॥ ४१५ ॥ अमन्त्रेण यजेत् पश्चादर्घ्यपुष्पानुलेपनैः । सिंहद्विष्ट्कमन्त्रेण स्वेकेनाङ्गोोज्झितेन वा ॥ ४१६ ॥ सकलीकरणं कुर्यात् पात्रभूतपरात्मना । तमर्चयित्वा विधिवद् वस्त्रस्रगनुलेपनैः ॥ ४१७ ॥ भगवत्प्रीतिपूर्वं तु दानं दद्याच्च सोदकम् । तेनापि प्रीणनं कार्यं भगवद्भावितात्मना ॥ ४१८ ॥ दानं ज्ञानात्मतां येन प्रयात्यच्युतवेदिनाम् । नारायणः परंब्रह्म प्रतिशब्दत्वमागतः ॥ ४१९ ॥ संसारानलतप्तानां भक्तानां मोहशान्तये । अतस्तस्य स्वमन्त्रेण मूर्तिदानं समाचरेत् ॥ ४२० ॥ द्वादशाक्षरपूर्वेण त्वथवाऽन्येन केनचित् । अनन्तं त्वमलं त्वेवं क्रोडीकृत्य तदात्मना ॥ ४२१ ॥ समर्चनीयं विधिवन्मन्त्राकृति यथा सदा । एवं दानप्रदानेन यजेन्मन्त्रात्मना परम् ॥ ४२२ ॥ महन्मन्त्रात्मना चैव पुनः सद्व्रतसिद्धये । ब्रह्मत्वमेति वै येन व्रतिना भगवद्व्रतम् ॥ ४२३ ॥ अनेकभेदभिन्नं च सदानं यत्पदार्थिनाम् ।