सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 465, कुल 837 में से
संदर्भ में पढ़ें४०६ सात्वतसंहिता दक्षिणे वायने वाथ शुभं निर्वर्त्य मण्डलम् । मन्त्रनाथं तु चावाह्य विधिना संयजेत् ततः ॥ ३७८ ॥ माल्यैर्विलेपनैर्धूपैर्महादीपैघृतादिकैः । गुडखण्डचितैर्भक्ष्यैः पयसा कृसरेण तु ॥ ३७९ ॥ नालिकेरोदकेनैव सक्तुना च घृतेन च । सन्तर्प्य हुतभुङ् मध्ये मन्त्रमाज्यादिकैस्ततः ॥ ३८० ॥ विधिनानेन वै धर्ममिष्टापूर्तमवाप्यते । चन्द्रसूर्योपरागे चाप्यहोरात्रोषितः शुचिः ॥ ३८१ ॥ सर्वोपकरणोपेतमादौ निर्वर्त्य मण्डलम् । न्यस्य मन्त्रवरं तत्र विभवेन यजेत् ततः ॥ ३८२ ॥ सन्तर्प्य वह्निमध्येऽथ समिद्भिर्वा घृतादिकैः । जपेन्मन्त्रवरं पश्चान्मclass? पश्चान्म-न-सा पश्चान्मclass? पश्चान्म-न-सा पश्चान्म-न-सा ध्यानसंयुक्तम् ॥ ३८३ ॥ अक्षसूत्रकरो मन्त्री यावच्चन्द्रार्कदर्शनम् । पूजाहोमजपानां च फलमानन्त्यमवाप्नुयात् ॥ ३८४ ॥ भक्तानामर्थहीनानां मन्त्रैकनियतात्मनाम् । साधनाङ्ग·विहीनानां फलेप्सूनामिदं स्मृतम् ॥ ३८५ ॥ स्नानाद् ध्यानातथा योगाज्जपाद्धोमाच्च सद्व्रतात् । सदन्नपानाद् दानाच्च सर्वलोपाच्च सामयात् ॥ ३८६ ॥ धर्मसाधनमित्युक्तं सवित्तानां विशेषतः । अथार्थसाधनं मन्त्रादभिवाञ्छति योऽचिरात् ॥ ३८७ ॥ ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः । कृत्वा यागं यथा सम्यक् सप्ताहं तत्र मन्त्रराट् ॥ ३८८ ॥ यजेत् स विभवेनैव त्रिस्नायी नक्तभोजनः । त्रैकाल्यं हुतभुङ्मध्ये सन्तर्प्याज्येन कालजैः ॥ ३८९ ॥ विल्वैरामलकैः पद्मैस्तदभावे कुशाङ्कुरैः । य इच्छेत् तस्य कालं तु मन्त्रं मन्त्रेश्वरात् फलम् ॥ ३९० ॥ वैशाख्ये हि सिते पक्षे सौम्यश्रवणसंयुते । सोपवासेन कर्तव्यं मन्त्रेशस्यार्चनं महत् ॥ ३९१ ॥ स्थले वा मण्डले बिम्बे साम्भःकुम्भेऽथवा ततः । दक्षिणोत्तरपादाभ्यां मन्त्रनाथस्य पूजयेत् ॥ ३९२ ॥ गङ्गां च यमुनां चैव नतिना प्रणवेन तु ।