सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 460, कुल 837 में से
संदर्भ में पढ़ेंसप्तदशः परिच्छेदः ४०१ प्रणवेन चतुर्दिक्षु संरुद्धं नाम संलिखेत् । रक्षवीप्सापदोपेतं पत्रसन्धिषु षट्स्वथ ॥ ३४१ ॥ द्वादशारं बहिश्चक्रं नाभिनेमियुतं लिखेत् । नाभेरष्टमबीजं यत् तदरेष्वन्तरा न्यसेत् ॥ ३४२ ॥ सप्तमाद् दशमं यावद् वर्जयित्वा अराक्षरम् । क्रमेण भेदयेच्छेषैस्तदराणैः सबिन्दुकैः ॥ ३४३ ॥ जहिवीप्सापदं दोषानमुकस्येति विन्यसेत् । सर्वेषामन्तरालेषु अस्त्रमन्त्रं तु पूर्ववत् ॥ ३४४ ॥ अमुकं पाहि पाहीति द्वादशाक्षरमध्यगम् । चक्रनाभौ तु विन्यस्य नेमिदेशे तथैव हि ॥ ३४५ ॥ क्रमादथ बहिर्लिख्य मन्त्रचक्रस्य यत्नतः । वृत्तत्रयार्धचन्द्राणि चतुरश्रपुराणि च ॥ ३४६ ॥ बिन्दुस्वस्तिककह्लारवज्रसंलाञ्छितानि च । नाभिपूर्वद्वितीयेन चतुर्थेन तदादिना ॥ ३४७ ॥ क्रमाद् वर्णचतुष्केण तानि युक्तानि कारयेत् । सषडङ्गेन बीजेन नाम रक्षपदानुगम् ॥ ३४८ ॥ सम्पुटीकृत्य वृत्ताख्यं मण्डलं परिपूरयेत् । द्वादशार्णेन बाह्यस्थं तृतीयं पूर्य पूर्ववत् ॥ ३४९ ॥ द्वितीयं वा चतुर्थं तु बहिर्दिक्ष्वष्टके क्रमात् । रक्षवीप्सापदोपेतं नामवर्जं नियोजयेत् ॥ ३५० ॥ सह रोचनया योज्य कर्पूरं कुङ्कुमं तु वै । क्षीरेण कापिलेनाथ तद्गोमयरसेन च ॥ ३५१ ॥ निशाम्बुना समालोड्य निम्नगासलिलेन वा । विलिख्य भूर्जपत्रे वा बर्हिपक्षेण वासरे ॥ ३५२ ॥ शुभेऽनुकूले नक्षत्रे सुलग्नेऽभ्युदिते ग्रहे । पूज्य संवेष्ट्य सूत्रेण ततः सद्धातुना तु वै ॥ ३५३ ॥ सन्धार्य मूर्ध्नि कण्ठे वा सततं दक्षिणे भुजे । दैवदोषविमुक्तस्तु वर्धते शोकवर्जितः ॥ ३५४ ॥ अधिभूतैर्भयैर्मुक्तो यावज्जीवं हि तिष्ठति । परार्थतो वा स्वार्थेन कृतकृत्यो यदा भवेत् ॥ ३५५ ॥ दोषवान् शान्तिदेनैव कर्मणाऽनेन साधुना ।