सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 454, कुल 837 में से
संदर्भ में पढ़ेंसप्तदशः परिच्छेदः ३९५ समभ्यर्च्य, भगवन्निवेदितैर्हविरादिभिर्ब्राह्मणान् सन्तर्पयेत् । चतुर्थेऽहनि वृत्तमण्डल- मालिख्य, तत्र नाभिनेमिसमन्वितं पञ्चारं चक्रं विलिख्य, तत्र मध्ये महाकुम्भं परितो दिक्कुम्भान् तयोर्मध्ये मध्ये दीपांश्च विन्यस्य, विविधैर्नैवेद्यैः पुष्पादिभिश्च तत्र देव- मभ्यर्च्य, तदुपभुक्तं हविरादिकं सर्वमग्नौ प्रक्षिप्यान्यत् सर्वं पूर्ववत् कुर्यात् । अथ षष्ठे दिने त्रिकोणं मण्डलमालिख्य तन्मध्ये सप्तारं महाचक्रं विलिख्य तदन्तरे चतुर्दिक्षु गदाचतुष्टयं विलिख्य तन्मध्ये महाकुम्भस्थं देवं यथाविधि समभ्यर्च्य तन्निवैदितान्नादिकं काकादिपक्षिणामुपभोगार्थमुन्नतस्थाने निक्षिपेत् । अथ सप्तमेऽहनि चतुरश्रं चतुर्द्वारं मण्डलमालिख्य, तत्कोणचतुष्टये शङ्खचतुष्टयं विलिख्य, तन्मध्येऽसंख्यातदलं पद्मं विलिख्य, तत्कर्णिकाश्रितं द्वादशारं चक्रं विलिख्य, तत्राष्टदिक्षु दीपान्तरितानष्टकुम्भान् मध्ये महाकुम्भं च निधाय, तत्र यथाविधि देवमभ्यर्च्य तन्निवैदितान्नादेर्विनियोगं षष्ठदिनोक्तवत् कुर्यात् । एवं सप्तदिनार्चना- दिभिः—"रसासृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः” (अ०हृ०सू० १।१८) इत्युक्तानां सप्तधातूनां क्रमेण वृद्धिर्भवति । देहधात्वाश्रितानां मांसाशनानां सत्त्वानां बल्यर्थं सप्तदिनेष्वपि क्रमेण महिषमजं गुडं हरिणं शशकं मयूरं चक्रवाकं च सम्पादयेत् । किन्त्वेतान् महिषादीन्— पशुप्रतिनिधिं चैव रञ्जितं कुङ्कुमादिना ॥ धात्वाश्रितानां दोषाणां मनसा परिकल्पितम् । (१७।२६८-२६९) इति पूर्वोक्तप्र(करणे?कारेण) पिष्टपशुरूपान् कुर्यात् । साक्षात् प(शु?शू) नायुष्कामो न हन्यात् । ततः सप्तमे दिनेऽतीते मण्डलादिस्थितं देवं क्षान्त्वा मण्डलीय- रजांसि बल्यादींश्चादाय प्राग्वत् त्यजेत् ॥ २३६-३३३ ॥ इत्यातुराणां रक्षाविधान- मुक्तम् ॥ अब रोगी के रक्षा का विधान कहते हैं जिससे साधक सदा के लिय निरोग हो जाता है ॥ २३६ ॥ यह प्रयोग सामान्यतः सभी ज्ञात दोषों के निवारण में शक्त है । किन्तु विशेष कर अज्ञात दोषों के निवारण में जो प्रयोग सफल होता है, हे सङ्कर्षण! अब उसे सुनिये ॥ २३७ ॥ तारा और ग्रहों के उपताप से धातु में विषमता आती है और धातु में विषमता होने से ज्वरादि व्याधियाँ प्रकुपित होती है । उनके कोप का अवसर प्राप्त कर ब्रह्म, राक्षस, ग्रह, शाकिनी, भूत, बेताल, रोगी के शरीर में प्रविष्ट हो जाते हैं ॥ २३९ ॥ इन सभी का निमित्त रोगी द्वारा किया गया पूर्व का कर्म ही समझना चाहिये । मन्त्र के सामर्थ्य से, ज्ञान के सामर्थ्य से, तपस्या के सामर्थ्य से, जप, होम, विविध दान, अध्ययन के सामर्थ्य से तथा मन्त्र एवं औषधियों के उपयोग से वे सहसा नष्ट हो जाते हैं ।