भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 488, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 488

अष्टादशः परिच्छेदः ४२९ कार्यं तदर्घ्यदानं च नित्यं मन्त्रात्मना विभोः । कुम्भोपकुम्भकुण्डानां मन्त्रास्त्रकलशार्चने ॥ ७५ ॥ सम्पूजने च भूतानां गुर्वादीनां महामते । दक्षशिष्यात्मपूजार्थमुक्तानुक्तार्चनं प्रति ॥ ७६ ॥ द्वितीयार्घ्यविनियोगमाह—अन्यस्मादित्यारभ्योक्तानुक्तार्चनं प्रतीत्यन्तम् । न्यूना- धिकानां कार्याणामित्यनुषङ्गः । एवं च सर्वकार्येष्वपि समाहितस्यापि कर्मज्ञान- वैपरीत्याद् दोषः संभवत्येव । तच्छान्त्यर्थं सर्वकार्याणामारम्भेऽवसानं च भगवते सकृत् सकृत् समर्पणीयमिति भावः । कुम्भोपकुम्भकुण्डानां कुम्भस्य महाकुम्भस्य ये उपकुम्भास्तेषां कुण्डस्य चेत्यर्थः । यद्वा, कुम्भा महाकुम्भस्य प्रागादिषु स्थापिताः कलशाः, उपकुम्भाः, शान्तिकादिषूक्तप्रकारेण तदुपरि स्थापिताः कलशा इत्यर्थः । मन्त्रास्त्रकलशार्चने मन्त्राणामुपकुम्भेषु कुण्डमेखलास्थितकूर्चादिषु च संस्थितवासुदेवादिमन्त्राणामस्त्र- कलशस्य चार्चन इत्यर्थः । महाकुम्भस्थायार्घ्यदानं तु प्रधानार्घ्यजलेनैवैत ज्ञेयम् । भूतानां सम्पूजने कुमुदाद्यर्चन इत्यर्थः । "सम्पूजने च भोगानाम्" (६।१९५) इति पाठान्तरमुक्तं पारमेश्वरे, तथैव विवृतं तद्व्याख्याकारैरपि । गुर्वादीनामित्यत्र दक्षशिष्यात्मपूजार्थमित्यत्र च तत्तद्दिग्रहविन्यस्तमन्त्रार्चनविषयमिति बोध्यम् । उक्तानुक्तार्चनं प्रतीति संक्षेपेणोक्तम् । विशदीकृतमीश्वरपारमेश्वराभ्याम्— दक्षशिष्यात्मपूजार्थं द्वास्थानामर्चनं प्रति । प्रसादासनदेवानां गुरूणां सन्ततेस्तथा ॥ लाञ्छनाङ्गपरीवारशक्तिभूषणरूपिणाम् । मण्डलावरणस्थानां देवानां चाऽर्चने तथा ॥ मुद्राबन्धे कराभ्युक्षं तदर्चा क्षालनं तथा । जपकालेऽक्षसूत्रस्य कुर्यात् तत्क्षालनं तथा ॥ —(ई०सं० ३।९४-९६, पा०सं० ६।१९५-१९८) इति ॥ ७३-७६ ॥ अब द्वितीय अर्घ्यपात्र का विनियोग कहते हैं—सभी वस्तुओं का प्रोक्षण अन्य पात्र के जल से करे । सभी कार्यों के आरम्भ से उनकी समाप्ति पर्यन्त न्यूनाधिक दोषों की शान्ति के लिये तथा ज्ञान व्यत्यय की शान्ति के लिये साधक परमेश्वर को मन्त्र द्वारा दूसरे अर्घ्यपात्र से अर्घ्य देवे । कुम्भ, उपकुम्भ, कुण्ड तथा कलश के अर्चन में, सम्पूजन में, भूतों तथा गुरु आदि के पूजन में दक्ष शिष्य की आत्मपूजा में तथा उक्त-अनुक्त अर्चन में दूसरे अर्घ्य कलश के जल का उपयोग करना चाहिए ॥ ७३-७६ ॥ पाद्यदानं तृतीयात् तु नित्यं पात्रात् समाचरेत् ।