भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 520, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 520

एकोनविंशः परिच्छेदः ४६१ मौद्गल्याद्यास्तथान्ये च न तच्चिह्नविवर्जिताः । भवेयुः सर्वथा तस्माच्छङ्खचक्रगदाम्बुजः ॥ लोहैर्नलसन्तप्तैस्तत्तन्मन्त्राधिवासितैः । पूजितैरर्घ्यगन्धाद्यैरङ्कितव्याः क्षणेन तु ॥ त्रय्यन्तज्ञानसम्पन्ना यथोक्ताचारनिष्ठिताः । विप्राद्यास्ते च शूद्राश्च यदैव कृतलक्षणाः ॥ तदा तु योग्या विज्ञेयाः समयश्रवणादिषु । (१५।१६१-१६५), इति कृतलक्षणानामेव दीक्षायां योग्यता प्रतिपादिता । नन्वेवम्— सुदर्शनं धारयित्वा वह्नितप्तं द्विजोत्तमः । उपनीय विधानेन पश्चात् कर्मसु योजयेत् ॥ इति कृतलक्षणस्यैव गायत्रीग्रहणादिकर्मयोग्यत्वं प्रतिपाद्यते, भुजे चक्रं द्विजातीनां शिरश्चक्रं तु दैवतम् । अचक्रद्विजदेवानां पूजा दानं च निष्फलम् ॥ इत्युक्त्याऽकृतलक्षणस्य कन्यादानाद्यर्हत्वमपि नास्ति, अतश्चक्रादिलाञ्छने उप- नयनविवाहकालावान्यनुलङ्घनीयाविति चेत्, कस्येष्टं तदुल्लङ्घनम् । अनुपपत्तिवशात् स्मार्तसंस्कारोल्लङ्घनेऽपि दीक्षाख्यवैष्णवसम्प्रदायकालः सर्वथाऽनुलङ्घनीय इति निर्णयः । यतः पाद्मे— "चक्रेणैवाङ्कितो विद्वान् वासुदेवं समाश्रयेत्" इति प्रतिपाद्यते । अत एवेश्वरे दीक्षाकालस्याप्युल्लङ्घनभिया तत्रकरण एव चक्राङ्कनादिकमुक्तम् । तत्पूर्वमेव कृतचक्राङ्कनानां तु दीक्षाकाले तन्न प्रकृतम् । आचारे सति पुनर्दीक्षाकाले तत्रकरणेऽपि न प्रत्यवायः, चक्रादि धारयेद् विप्रो ललाटे मस्तके भुजे । पातकादिविशुद्ध्यर्थं भवक्लेशविनाशनम् ॥ इत्यादित्यपुराणादिषु शुद्ध्यपादकत्वेन च प्रतिपादनात्, पूर्वं कृतलाञ्छनस्य देहोपचयादिना मलिनत्वे पुनः स्फुटत्वसिद्धेश्च । ननु— विष्णवागमादितन्त्रेषु दीक्षितानां विधीयते । शङ्खचक्रगदापूर्वैरङ्कनं नान्यदेहिनाम् ॥ इत्यादिवचनैर्दीक्षानन्तरमपि चक्राङ्कनमवगम्यत इति चेन्न, दीक्षितानामित्यस्य दीक्षार्हपरत्वात् । सिद्धान्तचन्द्रिकायां तु दीक्षितानामित्यस्य मुमुक्षुपरत्वमुक्तम् । तद- संगतम्, तन्त्रदीक्षाप्रवेशभिया तादृशार्थाङ्गीकरणात् । निर्निमित्तेयं भीतिः । यतो महा- भारते शान्तिपर्वणि— अवश्यं वैष्णवो दीक्षां प्रविशेत् सर्वयत्नतः । दीक्षिताय विशेषेण प्रसीदेन्नान्यथा हरिः ॥ वसन्ते दीक्षयेद् विप्रं ग्रीष्मे राजन्यमेव च । शरदः समये वैश्यं हेमन्ते शूद्रमेव च ॥