सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 547, कुल 837 में से
संदर्भ में पढ़ें४८८ सात्वतसंहिता जिस-जिस मन्त्र से जिस-किसी को दीक्षा देनी हो उस-उस मन्त्र, छन्द, देवता, ऋषि तथा कार्यों का उद्देश कर उसके अवयवभूत हृदादि छः अङ्गों का तथा मूलमन्त्र का विनियोग अवश्य करे ॥ १७०-१७२ ॥ नेत्रकर्मणि हृद्बीजं पञ्चाङ्गानां विधीयते । निरङ्गानां तु मन्त्राणामङ्गमन्त्रोक्तकर्मणाम् ॥ १७३ ॥ प्रणवो विनियोक्तव्यः सह कर्मपदेन तु । पञ्चाङ्गमन्त्रदीक्षायां निरङ्गमन्त्रदीक्षायां च गतिमाह— नेत्रेति सार्धेन ॥ १७३-१७४ ॥ पञ्चाङ्ग मन्त्र की दीक्षा नेत्रकर्म में हृद्बीज का प्रयोग करे । निरङ्गमन्त्र दीक्षा में कर्म के साथ केवल प्रणव (ॐ) का प्रयोग करे । इस प्रकार व्यूह दीक्षा चाहने वालों के लिये इस प्रकार की विधि सम्पादन करनी चाहिये ॥ १७३-१७४ ॥ व्यूहदीक्षायां विशेषकथनम् सम्पाद्या विधिनानेन व्यूहदीक्षाऽर्थिनां सदा ॥ १७४ ॥ किन्तु वै तत्र योक्तव्यं प्रत्येकस्मिन् हि कर्मणि । चतुष्कं वासुदेवाद्यं बीजानां यत् पुरोदितम् ॥ १७५ ॥ व्यूहदीक्षायां विशेषमाह—सम्पाद्येति सार्धेन । पुरोदितम् अष्टमे परिच्छेदे ‘‘सान्तं षष्ठस्वरारूढम्’’ (८।१०) इत्यादिभिः प्रतिपादितमित्यर्थः ॥ १७४-१७५ ॥ अब व्यूह दीक्षा में विशेष कहते हैं—व्यूह दीक्षा के प्रत्येक कर्म में वासुदेवादि के चारों बीजों का प्रयोग करे । (द्र. ८.१०) ॥ १७५ ॥ ब्रह्मदीक्षायां विशेषकथनम् एवमेवाद्यमन्त्रस्तु निःशेषः कर्मसंग्रहे । योक्तव्यो ब्रह्मदीक्षायां षोढा भक्त्वा च पूर्ववत् ॥ १७६ ॥ स्वरूपेण यथावस्थमुक्तेष्ववसरेषु च । किन्त्वेकवचनेनात्र देवानां प्रार्थना मता ॥ १७७ ॥ योजना त्वधिवासोक्ता विज्ञातव्या समासतः । ब्रह्मदीक्षायां विशेषानाह—एवमेवेति सार्द्धद्वाभ्याम् । आद्यमन्त्रस्य षोढा विभजनप्रकारस्तु द्वितीयपरिच्छेदे (२।३२-३५) एव प्रदर्शितः । एकवचनेन प्रार्थना “युष्मत्प्रसादसामर्थ्यात्” (१९।१०१) इत्यादिस्थलेषु ज्ञेया । नन्वत्र देवानामिति बहुवचनमस्ति, कथं तेषामेकवचनेन प्रार्थनेति चेत्, सत्यम् । तत्रापि चातुरात्म्यसत्त्वाद् बहुवचनमुक्तम् । तथापि— अभेदेनादिमूर्तेर्वै संस्थितं वटबीजवत् ।