सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 546, कुल 837 में से
संदर्भ में पढ़ेंएकोनविंशः परिच्छेदः ४८७ फिर मनसाराधन क्रम, मुद्रा, न्यास, ध्यान समन्वित मन्त्रोपदेश, आराधनादि की इतिकर्त्तव्यता के क्रम का उपदेश करे । फिर अपने ही सामने शिष्य से भगव- दाराधनादि अनुष्ठान, अपने को स्वयं अर्पण तथा धनादि द्वारा गुर्वर्चन करावे । तदनन्तर गुरु स्वयं अर्घ्यपात्र का जल अपने दाहिने हाथ में लेकर षडङ्गमन्त्र का जप करते हुए शिष्य के मस्तक पर प्रक्षिप्त करे । फिर अपने हाथ में सूर्य की किरणों के समान देदीप्यमान मण्डल का स्मरण करे ॥ १६३-१६६ ॥ तत्राभिन्नं न्यसेत् प्राग्वद् वैभवं देवतागणम् । कृत्वा धियार्चितं दद्यात् साशिषं तस्य मूर्धनि ॥ १६७ ॥ यथोक्ता च यथाभीष्टा त्वचिरादेव पुत्रक । तवास्तु वैभवी सिद्धिमौक्षलक्ष्मीसमन्विता ॥ १६८ ॥ फिर उससे अभिन्न वैभवीय देवतागणों का शिष्य के शरीर में न्यास करे । मानस अर्चन कराकर उसके शिर पर इस प्रकार आशीर्वाद देवे । हे पुत्र! जैसा कि कहा गया है और जैसा आपको अभीष्ट भी है वैसी मोक्ष लक्ष्मी-समन्वित 'वैभवी सिद्धि' आपको प्राप्त हो ॥ १६७-१६८ ॥ इति वैभवदीक्षाया लक्षणं समुदाहृतम् । तत्प्रयुक्तस्य सामान्यं सर्वमन्त्रगणस्य च ॥ १६९ ॥ अथोक्तमर्थं निगमयति—इतीति । तत्प्रयुक्तस्य वैभवार्चनासक्तस्य शिष्यस्येत्यर्थः । सर्वमन्त्रगणस्य पद्मनाभादि- पातालशय्यन्तविभवदेवमन्त्रसमूहस्येत्यर्थः ॥ १६९ ॥ हे सङ्कर्षण ! यहाँ तक हमने वैभवदीक्षा का लक्षण आपसे कहा । उनमें सामान्य रूप से प्रयुक्त होने वाले सभी मन्त्रों को भी कहा गया है ॥ १६९ ॥ येन येन हि मन्त्रेण दीक्षा कार्या हि कस्यचित् । तस्य तस्य तदीयानां पूर्वोद्दिष्टेन वर्त्मना ॥ १७० ॥ कार्योऽत्रावयवानां तु विनियोगो यथोदितः । समूहवद् हृदादीनां मूलान्तानां समाचरेत् ॥ १७१ ॥ सह तत्त्वगणेनैव सर्वदाऽध्यात्मरूपताम् । सम्भ्यूह्य ततः कुर्यात् प्राग्वदभ्यर्चनं तु वै ॥ १७२ ॥ एतेषु विभवमन्त्रेष्वेकैकेनैव मन्त्रेण यस्य दीक्षाऽभिमता तस्य तादृशदीक्षायां विशेषानाह—येनेति त्रिभिः । अवयवानामङ्गमन्त्राणामित्यर्थः । समूहवत् पातालशय- नादिपद्मनाभान्तसमूहवदित्यर्थः । एकमन्त्रदीक्षाप्रकरणात् पृथिव्यादिसप्तके पूर्वोक्त- विभवदेवसमूहं विना तत्स्थाने हृन्मन्त्रादिमूलमन्त्रान्तानां सप्तानां विनियोगः कार्य इति फलितोऽर्थः ॥ १७०-१७२ ॥