सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 545, कुल 837 में से
संदर्भ में पढ़ें४८६ सात्वतसंहिता ननु सिद्ध्यतुनाम तादृशी सिद्धिः, तदानीं व्यापकमन्त्र एव तद्दीक्षितस्याधि- कारः। नहि विभवादिदीक्षां विना तत्तन्मन्त्रेष्वधिकारः सिद्ध्यतीति वाच्यम्, तेनैव सर्व- दीक्षाणां चारितार्थ्यात् । तथा चैश्वरे तन्त्रे— एवं दीक्षात्रयं चापि दद्यादेकस्य वा क्रमात् । सर्वाराधनयोग्यत्वसिद्धये मुनिपुङ्गवाः ॥ यद्वाऽष्टाक्षरमन्त्रादौ व्यापकत्रितये द्विजाः । शक्तिभूषणवाहास्त्रमन्त्रांश्चोपदिशेद् गुरुः ॥ इति । —(२९।४६०-४६१, ४६३) पाद्मेऽपि— ध्यात्वा च दक्षिणे कर्णे शिष्यस्य प्रणवान्वितम् । मन्त्रं दद्यादृषिच्छन्दोदैवतं चाङ्गमेव च ॥ द्वादशाक्षरमादौ तु पश्चादष्टाक्षरात्मकम् । मूर्तिमन्त्रांश्च तदनु समध्याप्य यथाविधि ॥ इति व्यापकमन्त्रदीक्षाप्रकरण एव समस्तमूर्तिमन्त्राणामप्युपदेशः प्रतिपादितः । एवं च यथा प्रधानमन्त्रदीक्षायाः शक्तिभूषणवाहनास्त्रमन्त्रेष्वप्यधिकारः सिद्ध्यति, तथा व्यापकमन्त्रदीक्षयैव विभवादिमन्त्रेष्वधिकारः सिद्ध्यतीति ज्ञेयम् ॥ १६०-१६८ ॥ फिर गुरु निर्विघ्नता सिद्धि के लिये शिष्य के साथ प्रणीता के जल से अग्निकुण्ड का सेचन कर अपने को भी संसिक्त करे । भस्म का तिलक धारण करे और अग्नि को प्रणाम करे । मण्डलस्थ अथवा बिम्बस्थ भगवान् का अभ्यर्चन करे ॥ १६०-१६१ ॥ पूजयित्वा जगन्नाथं निवेद्य नियमान् शिशोः । सविशेषान् समासेन सान्तरान् योग्यतावशात् ॥ १६२ ॥ फिर वहीं अग्निकुण्ड के समीप सविशेष अथवा संक्षेप में योग्यता के अनुसार शिष्य को नियमोपदेश करे ॥ १६२ ॥ यथावदुपदेष्टव्यं ततस्तस्यार्चनं हृदि । मुद्रासमन्वितो मन्त्री न्यासध्यानपुरस्सरः ॥ १६३ ॥ इतिकर्तव्यताशास्त्रसंक्षिप्ता च सविस्तरा । तत्समक्षं ततस्तेन सर्वं कार्यं यथास्थितम् ॥ १६४ ॥ गुर्वर्चनं ततः कुर्यादात्मना च धनादिना । पूरयित्वाऽम्भसा पाणिमर्घ्यपात्रात् तु दक्षिणम् ॥ १६५ ॥ षडङ्गमन्त्रसंजप्तं क्षेप्तव्यं तस्य मस्तके । मण्डलं प्रणवेनाथ पाणौ सूर्यप्रभं स्मरेत् ॥ १६६ ॥