सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 544, कुल 837 में से
संदर्भ में पढ़ेंज्ञेय हैं । इनकी संस्थिति दण्ड के समान है । उसमें द्वादश धारणा द्वादशान्त के आरोहण में सोपान के समान है ॥ १५७-१५८ ॥ नीत्वैवं व्यक्तिभावेन हृत्पद्मोदरसंस्थितम् । वर्णाध्वानं दीक्षितस्य शब्दब्रह्मेति या स्थितिः ॥ १५९ ॥ एवंभूतस्य वर्णाध्वनः प्रकारः शिष्याय सुव्यक्तमुपदेश्य इत्याह—नीत्वेति । हृत्पद्मोदरसंस्थितम्, तत्राब्जं चार्कमालम्ब्य परा वाग् भ्रमरी स्थिता । या सर्वमन्त्रजननी शक्तिः शान्तात्मनो विभोः ॥ नदन्ती वर्णजं नादं शब्दब्रह्मेति यत् स्मृतम् । अकारपूर्वो हान्तश्च धारासन्तानरूपधृक् ॥ (२।६७-६८) इत्युक्तप्रकारेण हृदयकमलान्तः स्थितमित्यर्थः । अत्र दीक्षितस्येत्येनेन षडध्व- मोचनपर्यन्तस्यैव कर्मणो दीक्षाशब्दाभिधेयत्वं ज्ञायते । एवमेवोक्तं जयाख्यलक्ष्मी- तन्त्रादिष्वपि । एतेन सिद्धान्तचन्द्रिकायां दीक्षाशब्दस्य नियमपरिग्रहणवाचित्वमुक्तं निरस्तं भवति, नियमानामुत्तरत्र वक्ष्यमाणत्वात् ॥ १५९ ॥ हृदय रूपी कमलोदर में स्थित इस वर्णाध्वा का गुरु दीक्षित पुरुष को उपदेश करे । जिसकी शब्द ब्रह्म रूप से प्रतिष्ठा है ॥ १५९ ॥ संसेच्य हुतभुग्भूमिं प्रणीतेनोदकेन तु । सह शिष्येण चात्मानं तेनैवाच्छिद्रसिद्धये ॥ १६० ॥ पूर्ववद् भूतिना कृत्वा लक्ष्म चाग्निं प्रणम्य च । समुत्थाय ततो यायात् तं गृहीत्वाऽच्युतालयम् ॥ १६१ ॥ अथ प्रणीतोदकेन कुण्डादिसेचनं भस्मना तिलकधारणम् अग्निप्र(माणा ? - णामा)दिकं मण्डलस्थस्य बिम्बस्थस्य वा भगवतोऽभ्यर्चनपूर्वकं तत्सन्निधौ शिष्याय नियमोपदेशं मानसाराराधनक्रममुद्रान्यासध्यानसमन्वितमन्त्रोपदेशम् आराधनादीनामिति- कर्तव्यताक्रमोपदेशं स्वसमक्षमेव शिष्येण भगवदाराधनाद्यनुष्ठापनं गुर्वर्चनं शिष्यस्य मस्तके मन्त्रोदकसेचनम् आशीर्वचनपूर्वकं तन्मस्तके मन्त्रहस्तदानमाशीर्वचनप्रकारं चाह—संसेच्य हुतभुग्भूतमित्यारभ्य मोक्षलक्ष्मीसमन्वितेत्यन्तम् । तवास्तु वैभवी सिद्धिरित्यत्र व्यूहदीक्षायां तवास्तु व्यूहसंसिद्धिरिति, ब्रह्मादीक्षायां तवास्तु ब्रह्मसंसिद्धि- रिति योज्यम् । अत एवास्मत्तातपादैः सात्वतामृते व्यापकमन्त्रदीक्षाप्रकारणात्— "तवास्तु विभवादीनां सिद्धिर्मोक्षश्रियान्विता" इति प्रतिपादितम् । ननु केवलं परव्यूहविभवदीक्षात्रयमत्र प्रतिपादितम्, व्यापकमन्त्रदीक्षानुष्ठाने किं मूलम्, तावतैकमन्त्रेण विभवादिसर्वदेवीया सिद्धिः कथं जायत इति चेत्, अस्ति तत्र च सात्वतोपबृंहणमीश्वरतन्त्रं पाद्मादिकं च मूलम्, एकमन्त्रस्यापि व्यापकत्वेन विभवादि- सर्वदेवाविष्कृतत्वात् । तेन सर्वदेवीया सिद्धिर्निरङ्कुशां सिद्ध्यतीति बोध्यम् ।