सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 543, कुल 837 में से
संदर्भ में पढ़ेंवार्णे व्यूहसमूहेऽस्मिन् ज्ञेयं ज्ञानसमाधिना । विश्राम उदयो व्याप्तिर्व्यक्तिरा वासुदेवतः ॥ अत्रैकैका परिज्ञेया मूर्तिर्वै त्वेवमेव हि । युक्ता विश्रामपूर्वेण चातुष्केण समासतः ॥ विश्रामं चिन्तयेद् देवं वासुदेवं सनातनम् । अकारं पुण्डरीकाक्षं पूर्वदेवं सनातनम् ॥ सङ्कर्षणादितत्त्वानि विश्रामन्ति लयेऽत्र हि । ततः सङ्कर्षणं देवमाकारामुदयं स्मरेत् ॥ उदितो हि स सर्वात्मा प्रथमं सर्वकृत् स्वयम् । व्याप्तिं प्रद्युम्नदेवं तमिकारं परिचिन्तयेत् ॥ त्रिविधं प्राप्यते तेन त्रयीकर्मात्मना जगत् । अनिरुद्धं व्यक्तिरूपमीकारान्तमनुस्मरेत् ॥ व्यज्यन्ते शक्तयो ह्यत्र जगत्सृष्ट्यादयोऽखिलाः । दण्डवत् सन्निवेशेन संस्थिता ह्येवमेव हि ॥ आ सकाराच्चतूरूपयुक्ता मे चतुरात्मता । स्मरेत् प्रभवचिन्तायां हकारं द्वादशान्तकम् ॥ हकारं वासुदेवं तु विश्रामं परिचिन्तयेत् । सङ्कर्षणं सकारान्तमुदयं त्वप्यये स्मरेत् ॥ एवमाकारतो दिव्यं चिन्तयेच्चतुरात्मनाम् । द्विषट्कं धारणानां च द्वादशाध्यात्मलक्षणम् ॥ सोपानभूतं यत्क्रान्त्वा द्वादशान्तं विशेत् परम् । एषा सा प्रथमा रीतिर्वर्णमार्गस्य दर्शिता ॥ (२०।१३-२३) इति विश्रामोदयव्याप्तिव्यक्तिशब्दानां वासुदेवादिचतुर्मूर्तिपरत्वं सुस्पष्टं व्याख्या- तमिति चेत्, अस्मदुक्तप्राथमिकव्याख्यानस्य लक्ष्मीवचनानुसारित्वमजानन्नेवमात्थ । तत्राकरदिवर्णेषु चतुर्षु वासुदेवादीनां चतुर्णां चतुर्णामिवस्थानं किमस्माभिर्निरुद्धम्, अपि तु विश्रामादिशब्दानां सूक्ष्मावस्थादिवाचकत्वमस्माभिरुक्तम् । लक्ष्मीतन्त्रे तु तदर्थस्य सुप्रसिद्धत्वात् तद्विवरणं विना वासुदेवादिवाचकत्वं दुर्ज्ञेयं सुस्पष्टं व्याख्यातम् । तावता तेषां शब्दानां वासुदेवादिवाचकत्वमेव, सूक्ष्माद्यवस्थावाचकत्वं न संभवतीति न नियमोऽस्ति, उत्तरत्र "युक्ता विश्रामपूर्वेण चतुष्केण समासतः" (लक्ष्मी० २०।१४) इत्यत्र विश्रामादिशब्दानामवस्थावाचकत्वस्य दुर्निवारत्वात् ॥ १५५-१५८ ॥ यही वासुदेव, सङ्कर्षण, प्रद्युम्न और अनिरुद्ध नामक एक-एक के क्रम से चार मूर्तियाँ हैं। जो विश्राम, उदय, व्याप्ति तथा व्यक्ति इन चारों से क्रमशः युक्त हैं। वर्णों की सूक्ष्म अवस्था विश्राम है, वही वासुदेव हैं। पश्यन्ती अवस्था उदय हैं, जो सङ्कर्षण हैं। मध्यमावस्था व्याप्ति है, जो प्रद्युम्न हैं। वैखरी अवस्था व्यक्ति है, जो अनिरुद्ध हैं ॥ १५५-१५६ ॥ इस वर्णाध्वा में आकारादि क्रम से विश्रामादि चतुष्टय द्वारा वासुदेवादि व्यूह