भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 542, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 542

एकोनविंशः परिच्छेदः ४८३ युक्तां विश्रामपूर्वेण चतुष्केण समासतः । दण्डवत् सन्निवेशेन संस्थिता ह्येवमेव हि ॥ १५७ ॥ द्विषट्कं धारणानां च द्वादशाध्यात्मलक्षणम् । सोपानभूतं यत् क्रान्त्वा द्वादशान्तं विशेत् परम् ॥ १५८ ॥ तस्मिन् वर्णाध्वन्यकारादिक्रमेण विश्रामादिचतुष्टयेनास्य ज्ञेयत्वं वासुदेवाद्येकै- कमूर्तेरपि विश्रामादिचतुष्केण युक्तत्वं दण्डवत् सन्निवेशेन संस्थितिं तस्यां द्वादश- धारणानां द्वादशान्तारोहणे सोपानभूतत्वं चाह—वर्णव्यूहेति सार्धैस्त्रिभिः । आ वासुदेवतो = वासुदेवमारभ्येत्यर्थः । अस्यैकैका मूर्तिरित्यत्रान्वयः । विश्रामो वर्णानां सूक्ष्मावस्थेत्यर्थः । उदयः = पश्यन्त्यवस्था । व्याप्तिर्मध्यमावस्था । व्यक्तिर्वैखरी- वस्था । तथा च लक्ष्मीतन्त्रे— शान्तरूपाऽथ पश्यन्ती मध्यमा वैखरी तथा । चतुरूपा चतुरूपं वच्मि वाच्यं स्वनिर्मितम् ॥ वासुदेवाद्यः सूक्ष्मा वाच्याः शान्तादयः क्रमात् । (१८।२९-३०) एवं वासुदेवाद्येकैकमूर्तिरपि विश्रामादिचतुष्टयेन युक्ता ज्ञेया । तत्र विश्राम- स्तुरीयव्यूहावस्था । उदयः = सुषुप्तिव्यूहावस्था । एवं विश्रामादिशब्दवाच्यतुरीयव्यूहा- वस्थादिचतुष्टयविशिष्टा वासुदेवादिमूर्तिर्विश्रामादिशब्दवाच्यसूक्ष्मावस्थादिचतुष्टयश्लिष्टे- ष्वकारादिवर्णेषु दण्डवत्सन्निवेशेन संस्थितेति फलितोऽर्थः । अथवा वर्णानां सूक्ष्माद्य- वस्था इदानीं न विवक्षिताः, किन्तु विश्रामादिशब्दैर्वासुदेवामूर्तेस्तुरीयव्यूहावस्थादय एव विवक्षिताः । तासामवस्थानामेकैकस्मिन् वर्णे एकैकावस्थाक्रमेण प्रत्येकं वर्ण- चतुष्टयेऽवस्थाचतुष्टयं बोध्यम् । एवमवस्थाचतुष्टयात्मके वर्णचतुष्टये वासुदेवाद्यैकेका मूर्तिर्ज्ञेया । एवं चाका- रादिषोडशवर्णानां चतुष्टयचतुष्के जाग्रद्व्यूहवासुदेवाद्यश्चतस्रो मूर्तयः, (अ?क) कारादिचतुष्टयवर्णानां चतुष्टयचतुष्के स्वप्नव्यूहवासुदेवाद्यश्चतस्रो मूर्तयः, थकारादि- सकारान्तषोडशवर्णानां चतुष्टयचतुष्के सुषुप्तिव्यूहमूर्तयः, एतद्द्वादशान्ते हकारे— अभेदेनादिमूर्तेर्वै संस्थितं वटबीजवत् । सर्वक्रियाविनिर्मुक्तममूर्तं परमार्थतः ॥ चातुरात्म्यं तदाद्यं वै शुद्धसंविन्मयं महत् । (५।८१-८२) इत्युक्तलक्षणा तुरीयव्यूहमूर्तिरित्यर्थो ज्ञेयः । एवं हकाराद्यकारान्तं प्राति- लोम्येनापि ज्ञेयम् । यद्वाऽकारादिवर्णषोडशके व्यक्तिशब्दवाच्या जाग्रदवस्था, ककारादिवर्णषोडशके व्याप्तिशब्दवाच्या स्वप्नावस्था, थकारादिसकारान्तवर्ण- षोडशके उदयशब्दवाच्या सुषुप्त्यवस्था, द्वादशान्ते हकारे विश्रामशब्दवाच्या तुरीया- वस्था । तत्र तत्र तत्तद्व्यूहमूर्तयः पूर्वोक्तक्रमेणैव बोध्याः । नन्वत्र भवदुक्तं त्रिविधं व्याख्यानमप्यसङ्गतम्, जगज्जननीकृतव्याख्या- विरोधात् । लक्ष्मीतन्त्रे हि—