भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

ज्ञेय हैं । इनकी संस्थिति दण्ड के समान है । उसमें द्वादश धारणा द्वादशान्त के आरोहण में सोपान के समान है ॥ १५७-१५८ ॥ नीत्वैवं व्यक्तिभावेन हृत्पद्मोदरसंस्थितम् । वर्णाध्वानं दीक्षितस्य शब्दब्रह्मेति या स्थितिः ॥ १५९ ॥ एवंभूतस्य वर्णाध्वनः प्रकारः शिष्याय सुव्यक्तमुपदेश्य इत्याह—नीत्वेति । हृत्पद्मोदरसंस्थितम्, तत्राब्जं चार्कमालम्ब्य परा वाग् भ्रमरी स्थिता । या सर्वमन्त्रजननी शक्तिः शान्तात्मनो विभोः ॥ नदन्ती वर्णजं नादं शब्दब्रह्मेति यत् स्मृतम् । अकारपूर्वो हान्तश्च धारासन्तानरूपधृक् ॥ (२।६७-६८) इत्युक्तप्रकारेण हृदयकमलान्तः स्थितमित्यर्थः । अत्र दीक्षितस्येत्येनेन षडध्व- मोचनपर्यन्तस्यैव कर्मणो दीक्षाशब्दाभिधेयत्वं ज्ञायते । एवमेवोक्तं जयाख्यलक्ष्मी- तन्त्रादिष्वपि । एतेन सिद्धान्तचन्द्रिकायां दीक्षाशब्दस्य नियमपरिग्रहणवाचित्वमुक्तं निरस्तं भवति, नियमानामुत्तरत्र वक्ष्यमाणत्वात् ॥ १५९ ॥ हृदय रूपी कमलोदर में स्थित इस वर्णाध्वा का गुरु दीक्षित पुरुष को उपदेश करे । जिसकी शब्द ब्रह्म रूप से प्रतिष्ठा है ॥ १५९ ॥ संसेच्य हुतभुग्भूमिं प्रणीतेनोदकेन तु । सह शिष्येण चात्मानं तेनैवाच्छिद्रसिद्धये ॥ १६० ॥ पूर्ववद् भूतिना कृत्वा लक्ष्म चाग्निं प्रणम्य च । समुत्थाय ततो यायात् तं गृहीत्वाऽच्युतालयम् ॥ १६१ ॥ अथ प्रणीतोदकेन कुण्डादिसेचनं भस्मना तिलकधारणम् अग्निप्र(माणा ? - णामा)दिकं मण्डलस्थस्य बिम्बस्थस्य वा भगवतोऽभ्यर्चनपूर्वकं तत्सन्निधौ शिष्याय नियमोपदेशं मानसाराराधनक्रममुद्रान्यासध्यानसमन्वितमन्त्रोपदेशम् आराधनादीनामिति- कर्तव्यताक्रमोपदेशं स्वसमक्षमेव शिष्येण भगवदाराधनाद्यनुष्ठापनं गुर्वर्चनं शिष्यस्य मस्तके मन्त्रोदकसेचनम् आशीर्वचनपूर्वकं तन्मस्तके मन्त्रहस्तदानमाशीर्वचनप्रकारं चाह—संसेच्य हुतभुग्भूतमित्यारभ्य मोक्षलक्ष्मीसमन्वितेत्यन्तम् । तवास्तु वैभवी सिद्धिरित्यत्र व्यूहदीक्षायां तवास्तु व्यूहसंसिद्धिरिति, ब्रह्मादीक्षायां तवास्तु ब्रह्मसंसिद्धि- रिति योज्यम् । अत एवास्मत्तातपादैः सात्वतामृते व्यापकमन्त्रदीक्षाप्रकारणात्— "तवास्तु विभवादीनां सिद्धिर्मोक्षश्रियान्विता" इति प्रतिपादितम् । ननु केवलं परव्यूहविभवदीक्षात्रयमत्र प्रतिपादितम्, व्यापकमन्त्रदीक्षानुष्ठाने किं मूलम्, तावतैकमन्त्रेण विभवादिसर्वदेवीया सिद्धिः कथं जायत इति चेत्, अस्ति तत्र च सात्वतोपबृंहणमीश्वरतन्त्रं पाद्मादिकं च मूलम्, एकमन्त्रस्यापि व्यापकत्वेन विभवादि- सर्वदेवाविष्कृतत्वात् । तेन सर्वदेवीया सिद्धिर्निरङ्कुशां सिद्ध्यतीति बोध्यम् ।

४८६ सात्वतसंहिता ननु सिद्ध्यतुनाम तादृशी सिद्धिः, तदानीं व्यापकमन्त्र एव तद्दीक्षितस्याधि- कारः। नहि विभवादिदीक्षां विना तत्तन्मन्त्रेष्वधिकारः सिद्ध्यतीति वाच्यम्, तेनैव सर्व- दीक्षाणां चारितार्थ्यात् । तथा चैश्वरे तन्त्रे— एवं दीक्षात्रयं चापि दद्यादेकस्य वा क्रमात् । सर्वाराधनयोग्यत्वसिद्धये मुनिपुङ्गवाः ॥ यद्वाऽष्टाक्षरमन्त्रादौ व्यापकत्रितये द्विजाः । शक्तिभूषणवाहास्त्रमन्त्रांश्चोपदिशेद् गुरुः ॥ इति । —(२९।४६०-४६१, ४६३) पाद्मेऽपि— ध्यात्वा च दक्षिणे कर्णे शिष्यस्य प्रणवान्वितम् । मन्त्रं दद्यादृषिच्छन्दोदैवतं चाङ्गमेव च ॥ द्वादशाक्षरमादौ तु पश्चादष्टाक्षरात्मकम् । मूर्तिमन्त्रांश्च तदनु समध्याप्य यथाविधि ॥ इति व्यापकमन्त्रदीक्षाप्रकरण एव समस्तमूर्तिमन्त्राणामप्युपदेशः प्रतिपादितः । एवं च यथा प्रधानमन्त्रदीक्षायाः शक्तिभूषणवाहनास्त्रमन्त्रेष्वप्यधिकारः सिद्ध्यति, तथा व्यापकमन्त्रदीक्षयैव विभवादिमन्त्रेष्वधिकारः सिद्ध्यतीति ज्ञेयम् ॥ १६०-१६८ ॥ फिर गुरु निर्विघ्नता सिद्धि के लिये शिष्य के साथ प्रणीता के जल से अग्निकुण्ड का सेचन कर अपने को भी संसिक्त करे । भस्म का तिलक धारण करे और अग्नि को प्रणाम करे । मण्डलस्थ अथवा बिम्बस्थ भगवान् का अभ्यर्चन करे ॥ १६०-१६१ ॥ पूजयित्वा जगन्नाथं निवेद्य नियमान् शिशोः । सविशेषान् समासेन सान्तरान् योग्यतावशात् ॥ १६२ ॥ फिर वहीं अग्निकुण्ड के समीप सविशेष अथवा संक्षेप में योग्यता के अनुसार शिष्य को नियमोपदेश करे ॥ १६२ ॥ यथावदुपदेष्टव्यं ततस्तस्यार्चनं हृदि । मुद्रासमन्वितो मन्त्री न्यासध्यानपुरस्सरः ॥ १६३ ॥ इतिकर्तव्यताशास्त्रसंक्षिप्ता च सविस्तरा । तत्समक्षं ततस्तेन सर्वं कार्यं यथास्थितम् ॥ १६४ ॥ गुर्वर्चनं ततः कुर्यादात्मना च धनादिना । पूरयित्वाऽम्भसा पाणिमर्घ्यपात्रात् तु दक्षिणम् ॥ १६५ ॥ षडङ्गमन्त्रसंजप्तं क्षेप्तव्यं तस्य मस्तके । मण्डलं प्रणवेनाथ पाणौ सूर्यप्रभं स्मरेत् ॥ १६६ ॥

एकोनविंशः परिच्छेदः ४८७ फिर मनसाराधन क्रम, मुद्रा, न्यास, ध्यान समन्वित मन्त्रोपदेश, आराधनादि की इतिकर्त्तव्यता के क्रम का उपदेश करे । फिर अपने ही सामने शिष्य से भगव- दाराधनादि अनुष्ठान, अपने को स्वयं अर्पण तथा धनादि द्वारा गुर्वर्चन करावे । तदनन्तर गुरु स्वयं अर्घ्यपात्र का जल अपने दाहिने हाथ में लेकर षडङ्गमन्त्र का जप करते हुए शिष्य के मस्तक पर प्रक्षिप्त करे । फिर अपने हाथ में सूर्य की किरणों के समान देदीप्यमान मण्डल का स्मरण करे ॥ १६३-१६६ ॥ तत्राभिन्नं न्यसेत् प्राग्वद् वैभवं देवतागणम् । कृत्वा धियार्चितं दद्यात् साशिषं तस्य मूर्धनि ॥ १६७ ॥ यथोक्ता च यथाभीष्टा त्वचिरादेव पुत्रक । तवास्तु वैभवी सिद्धिमौक्षलक्ष्मीसमन्विता ॥ १६८ ॥ फिर उससे अभिन्न वैभवीय देवतागणों का शिष्य के शरीर में न्यास करे । मानस अर्चन कराकर उसके शिर पर इस प्रकार आशीर्वाद देवे । हे पुत्र! जैसा कि कहा गया है और जैसा आपको अभीष्ट भी है वैसी मोक्ष लक्ष्मी-समन्वित 'वैभवी सिद्धि' आपको प्राप्त हो ॥ १६७-१६८ ॥ इति वैभवदीक्षाया लक्षणं समुदाहृतम् । तत्प्रयुक्तस्य सामान्यं सर्वमन्त्रगणस्य च ॥ १६९ ॥ अथोक्तमर्थं निगमयति—इतीति । तत्प्रयुक्तस्य वैभवार्चनासक्तस्य शिष्यस्येत्यर्थः । सर्वमन्त्रगणस्य पद्मनाभादि- पातालशय्यन्तविभवदेवमन्त्रसमूहस्येत्यर्थः ॥ १६९ ॥ हे सङ्कर्षण ! यहाँ तक हमने वैभवदीक्षा का लक्षण आपसे कहा । उनमें सामान्य रूप से प्रयुक्त होने वाले सभी मन्त्रों को भी कहा गया है ॥ १६९ ॥ येन येन हि मन्त्रेण दीक्षा कार्या हि कस्यचित् । तस्य तस्य तदीयानां पूर्वोद्दिष्टेन वर्त्मना ॥ १७० ॥ कार्योऽत्रावयवानां तु विनियोगो यथोदितः । समूहवद् हृदादीनां मूलान्तानां समाचरेत् ॥ १७१ ॥ सह तत्त्वगणेनैव सर्वदाऽध्यात्मरूपताम् । सम्भ्यूह्य ततः कुर्यात् प्राग्वदभ्यर्चनं तु वै ॥ १७२ ॥ एतेषु विभवमन्त्रेष्वेकैकेनैव मन्त्रेण यस्य दीक्षाऽभिमता तस्य तादृशदीक्षायां विशेषानाह—येनेति त्रिभिः । अवयवानामङ्गमन्त्राणामित्यर्थः । समूहवत् पातालशय- नादिपद्मनाभान्तसमूहवदित्यर्थः । एकमन्त्रदीक्षाप्रकरणात् पृथिव्यादिसप्तके पूर्वोक्त- विभवदेवसमूहं विना तत्स्थाने हृन्मन्त्रादिमूलमन्त्रान्तानां सप्तानां विनियोगः कार्य इति फलितोऽर्थः ॥ १७०-१७२ ॥

४८८ सात्वतसंहिता जिस-जिस मन्त्र से जिस-किसी को दीक्षा देनी हो उस-उस मन्त्र, छन्द, देवता, ऋषि तथा कार्यों का उद्देश कर उसके अवयवभूत हृदादि छः अङ्गों का तथा मूलमन्त्र का विनियोग अवश्य करे ॥ १७०-१७२ ॥ नेत्रकर्मणि हृद्बीजं पञ्चाङ्गानां विधीयते । निरङ्गानां तु मन्त्राणामङ्गमन्त्रोक्तकर्मणाम् ॥ १७३ ॥ प्रणवो विनियोक्तव्यः सह कर्मपदेन तु । पञ्चाङ्गमन्त्रदीक्षायां निरङ्गमन्त्रदीक्षायां च गतिमाह— नेत्रेति सार्धेन ॥ १७३-१७४ ॥ पञ्चाङ्ग मन्त्र की दीक्षा नेत्रकर्म में हृद्बीज का प्रयोग करे । निरङ्गमन्त्र दीक्षा में कर्म के साथ केवल प्रणव (ॐ) का प्रयोग करे । इस प्रकार व्यूह दीक्षा चाहने वालों के लिये इस प्रकार की विधि सम्पादन करनी चाहिये ॥ १७३-१७४ ॥ व्यूहदीक्षायां विशेषकथनम् सम्पाद्या विधिनानेन व्यूहदीक्षाऽर्थिनां सदा ॥ १७४ ॥ किन्तु वै तत्र योक्तव्यं प्रत्येकस्मिन् हि कर्मणि । चतुष्कं वासुदेवाद्यं बीजानां यत् पुरोदितम् ॥ १७५ ॥ व्यूहदीक्षायां विशेषमाह—सम्पाद्येति सार्धेन । पुरोदितम् अष्टमे परिच्छेदे ‘‘सान्तं षष्ठस्वरारूढम्’’ (८।१०) इत्यादिभिः प्रतिपादितमित्यर्थः ॥ १७४-१७५ ॥ अब व्यूह दीक्षा में विशेष कहते हैं—व्यूह दीक्षा के प्रत्येक कर्म में वासुदेवादि के चारों बीजों का प्रयोग करे । (द्र. ८.१०) ॥ १७५ ॥ ब्रह्मदीक्षायां विशेषकथनम् एवमेवाद्यमन्त्रस्तु निःशेषः कर्मसंग्रहे । योक्तव्यो ब्रह्मदीक्षायां षोढा भक्त्वा च पूर्ववत् ॥ १७६ ॥ स्वरूपेण यथावस्थमुक्तेष्ववसरेषु च । किन्त्वेकवचनेनात्र देवानां प्रार्थना मता ॥ १७७ ॥ योजना त्वधिवासोक्ता विज्ञातव्या समासतः । ब्रह्मदीक्षायां विशेषानाह—एवमेवेति सार्द्धद्वाभ्याम् । आद्यमन्त्रस्य षोढा विभजनप्रकारस्तु द्वितीयपरिच्छेदे (२।३२-३५) एव प्रदर्शितः । एकवचनेन प्रार्थना “युष्मत्प्रसादसामर्थ्यात्” (१९।१०१) इत्यादिस्थलेषु ज्ञेया । नन्वत्र देवानामिति बहुवचनमस्ति, कथं तेषामेकवचनेन प्रार्थनेति चेत्, सत्यम् । तत्रापि चातुरात्म्यसत्त्वाद् बहुवचनमुक्तम् । तथापि— अभेदेनादिमूर्तेर्वै संस्थितं वटबीजवत् ।

एकोनविंशः परिच्छेदः ४८९ सर्वक्रियाविनिर्मुक्तममूर्तं परमार्थतः ॥ चातुरात्म्यं तदाद्यं वै शुद्धं संविन्मयं महत् । (५।८१-८२) इत्यादिमूर्तेरेव प्राधान्यादेक एव मन्त्र उक्तः, एकवचनेनैव प्रार्थनेति बोध्यम् । अधिवासोक्ता योजना नाम, ओमादिश जगन्नाथ सर्वज्ञ हृदयेशय । तत्राहं योजयाम्येनं यत्कर्म त्वत्परायणम् ॥ (१८।२३२) इत्येवंरूपेत्यर्थः । इयं योजना ज्ञातव्या एतद्दीक्षाविषयत्वेन बोध्याऽनेनेत्यर्थः, एकवचनप्रयोगात् । एतेन व्यूहदीक्षायां विभवदीक्षायां च तस्मिन् योजनाश्लोके बहुवचनं योज्यमित्यर्थात् सिद्धम् । तत्राप्येकैकमन्त्रेणैव दीक्षायामेकवचनेनैव प्रार्थना- योजनादिकं कार्यम् । अत एवास्मत्तातपादैः सात्वतामृते युष्मत्प्रसादसामर्थ्यादिति प्रार्थनाश्लोके त्वत्प्रसादस्य सामर्थ्यदित्येकवचनं प्रयुक्तम् । ननु सात्वतामृते व्यापकमन्त्रदीक्षा प्रतिपादिता । व्यापकमन्त्रस्य परव्यूह- विभवाख्यसर्वदेवविषयत्वं भवतैवोक्तम् । तादृशमन्त्रदीक्षायां सर्वे देवा अपि प्रार्थ्याः । तथा सति कथमेकवचनं समञ्जसं भवतीति चेत्, ब्रूमः-यथैक एव मन्त्रः सर्वान् विषयीकरोति, तथैकवचनमपीति बोध्यम् । अत एव हि पाद्मेऽष्टाक्षरकल्पे द्वादशा- क्षरकल्पे चैकवचनेनैव ध्यानमुक्तम्-"चतुर्बाहुमुदाराङ्गम्" इत्यादिभिः । ननु तर्ह्यष्टाक्षरेण परव्यूहविभवार्चनप्रकरणे सर्वत्र पाद्मोक्तध्यानमेवानुसरणीयं किमिति चेतुच्यते, अष्टाक्षरेण तेषामर्चनप्रकारेण सामान्यतः पाद्माद्युक्तप्रकारेण वा विशेषाकारेण वा ध्येयम् । तत्र न विवादः । अत एव हीश्वरपारमेश्वरयोर्व्यापकमन्त्रे- णैवार्चने उक्तेऽपि तत्तद्दिव्यदेशस्थितमूर्तिध्यानमेव प्रतिपादितम् ॥ १७६-१७८ ॥ अब ब्रह्म दीक्षा की विशेषता कहते हैं-ब्रह्म दीक्षा में कर्म संग्रह में आद्य मन्त्र का छः विभाग कर पूर्ववत् योजना करे । (आद्य मन्त्र के षोढा विभाजन का प्रकार द्र. २.३२-३५) ॥ १७६ ॥ उक्त अवसरों पर देवताओं के स्वरूप पर होने के कारण एक वचन से ही प्रार्थना करे । (यथा युष्मत्प्रसादसामर्थ्यादित्यादि द्र.१९.१०१) ॥ १७७ ॥ अधिवास प्रकरण में संक्षेप में योजना कह दी गयी है । उसे वहीं से समझ लेना चाहिये । यथा- ओमादिश जगन्नाथ सर्वज्ञ हृदयेशय । तत्राहं योजयाम्येन यत्कर्म त्वत्परायणम् ॥ (द्र. १८.२३२) यह योजना दीक्षा विषयक है ऐसा समझना चाहिये । 'व्यूह दीक्षा' तथा 'ब्रह्म दीक्षा' इन दोनों का केवल मोक्ष के अतिरिक्त और कोई फल नहीं है ॥ १७८ ॥ नित्यदीक्षाद्वयस्यास्य नान्यन्मोक्षादृते फलम् ॥ १७८ ॥ तत्रापि चातुरात्मीया दीक्षा प्राक् कमलेक्षण । सा० सं० - ३५

४९० सात्वतसंहिता बलाद् ददाति षाड्गुण्यभोगाप्तिं भावितात्मनाम् ॥ १७९ ॥ फलं स्रक्चन्दनादीनां होमद्रव्यस्य चापि यत् । प्रकृत्या सह चाप्येति विलयं ब्रह्मदीक्षया ॥ १८० ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायां दीक्षाविधिर्नाम एकोनविंशः परिच्छेदः ॥ १९ ॥ — ❦ ❁ ❦ — किं बहुना व्यूहब्रह्मदीक्षयोः केवलमोक्षप्रदत्वेऽपि तत्रैहिकफलानामप्यानुषङ्गि- कत्वमस्तीत्याह—नित्येति सार्धद्वाभ्याम् ॥ १७८-१८० ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये एकोनविंशः परिच्छेदः ॥ १९ ॥ — ❦ ❁ ❦ — फिर भी हे कमलेक्षण ! चतुरात्मीया दीक्षा परमेश्वर की आराधना करने वालों को हठात् षाड्गुण्य और भोगों की प्राप्ति कराती है । इसी प्रकार ब्रह्म दीक्षा से फल, माला, चन्दन तथा होम द्रव्य की प्रकृतिवशात् ईश्वराराधक को प्राप्त होते रहते हैं और पुनः ब्रह्मदीक्षा से विलीन हो जाते हैं ॥ १७९-१८० ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के दीक्षाविधि नामक उन्नीसवें परिच्छेद की हिन्दी समाप्त हुई ॥ १९ ॥ — ❦ ❁ ❦ —

विंशः परिच्छेदः अभिषेकविधिः नारद उवाच दीक्षालक्षणमुक्तवैवं सीरिणं चाथ चक्रभृत् । यथावच्च मुनिश्रेष्ठाः पुनरेवाऽब्रवीदिदम् ॥ १ ॥ अथ विंशः परिच्छेदो व्याख्यास्यते । भगवान्नेवं दीक्षालक्षणमुक्त्वा पुनरभि- षेकमुपदिशतीत्याह—दीक्षेति ॥ १ ॥ नारद जी ने कहा—हे श्रेष्ठ मुनियो ! चक्रधारी भगवान् श्रीकृष्ण ने हलधर भगवान् सङ्कर्षण से इस प्रकार यथावत् दीक्षा के लक्षणों को कहने के बाद पुनः कहा ॥ १ ॥ अभिषेककालकथनम् अथ मण्डलदृष्टस्य शास्त्रज्ञस्य यथार्थतः । समाराधनसक्तस्य पुत्रकत्वं गतस्य च ॥ २ ॥ अभिषेकेऽधिकारिणं तत्प्रयोजनं कालं चाह—अथेति द्वाभ्याम् । मण्डलदृष्टस्य दृष्टमण्डलस्येत्यर्थः, समयनिष्ठस्येति यावत् । "लब्धदर्शनमात्रो वै मन्त्रमूर्तेस्तु मण्डले" (२२।१४) इति समयनिष्ठस्य लक्षणं वक्ष्यति । शास्त्रज्ञस्य तदनन्तरं शास्त्रव्यवसायपरस्येत्यर्थः, ततः प्रभृति कालाच्च सुप्रश्नाच्च सुदेशिकात् ॥ पाठपूर्वं हि शास्त्रार्थमभ्यर्थयति योऽनिशम् । (२२।१५-१६) इति वक्ष्यमाणत्वात् । पुत्रकत्वं गतस्य "विज्ञाता गुरुणा यस्य" (२२।२९) इत्यारभ्य, "स शिष्यः पुत्रको नाम स्वपुत्रादधिकः सदा" (२२।३८) इत्यन्तं वक्ष्य- माणलक्षणविशिष्टस्येत्यर्थः । समाराधनसक्तस्य "पूर्ववल्लब्धदीक्षस्तु मन्त्राराधन- तत्परः" (२२।३९) इत्यादिक्रमेण वक्ष्यमाणलक्षणविशिष्टस्येत्यर्थः । एवं मण्डल- दृष्टस्येत्यादिविशेषणचतुष्टयविशिष्टस्य शिष्यस्य तत्कालं दीक्षानन्तरमेवाभिषेचनं कार्यमिति फलितार्थः ।

४९२ सात्वतसंहिता नन्वेतदभिषेचनं विशेषणविशिष्टस्येति किं नियामकम्, समयिनः = पुत्रकस्य साधकस्य वाऽभिषेकः कार्य इत्यर्थः सरसः । यतः श्रीजयाख्ये— सेनापतिक्रमेणैव समयज्ञस्य सर्वदा । महामन्त्रित्वविधिना पुत्रकस्याभिषेचनम् ॥ युवराजविधानेन दातव्यः साधकस्य तु । राजोपचारविधिना अभिषेको गुरोः स्मृतः ॥ (१८।३४-३५) इति सामयिकादीनां चतुर्णामप्यभिषेकः प्रतिपादित इति चेत्, ब्रूमः—जयाख्ये तेषां प्रत्येकमभिषेकप्रयोगभेदाश्च प्रतिपादिताः । अत्र तु केवलमाचार्याभिषेकविधान- मुक्तम् । अतोऽस्मदुक्तार्थ एव सरसः । न च तर्हि विशेषणानां वैय्यर्थापत्तिः, समाराधनसक्तस्येत्येतावन्मात्रेणैव चारितार्थ्यादिति वाच्यम्, तत्तत्सर्वगुणविशिष्टस्यैवा- भिषेकार्हत्वोक्त्या सामर्थ्यात् । किञ्च, अत्र वक्ष्यमाणेषु समयिपुत्रकसाधकलक्षणेषु जयाख्यवदभिषिक्तत्वं कुत्रापि न वक्ष्यति । आचार्यलक्षणेष्वेव—“लिङ्गैः पूर्वोदितै- र्युक्तस्त्वभिषिक्तो विशेषतः” (२२।४४) इत्यभिषिक्तत्वं वक्ष्यति । अत एवैतदुप- बृंहणेश्वरतन्त्रे— इत्येवमभिषेकस्तु भवेन्मुख्याधिकारिणाम् ॥ अन्ये तु दीक्षामात्रेण संस्कार्या मुनिपुङ्गवाः । (२१।५०३-५०४) इति सुस्पष्टं प्रतिपादितम् । पाद्मेऽपि— शिष्यं सुतं वा सर्वज्ञमनसूयं जितेन्द्रियम् । आचार्यवंशजन्मानं निग्रहानुग्रहक्षमम् ॥ शान्तिके पौष्टिके चैव कर्मणि क्षममर्थिनाम् । वेदवेदान्ततत्त्वज्ञमाचार्यपदकाङ्क्षिणम् ॥ देशिकेन्द्रो विधानेन वक्ष्यमाणेन तत्त्ववित् । कर्षणादिषु सर्वेषु विधानेष्वधिकारिणम् ॥ कुर्यान्मण्डलपूजादि कुम्भयागावसानिकम् ॥ इत्याचार्यवंशजानामेवाभिषेकः प्रतिपादितः, तेषामेव कर्षणादिष्वधिकारश्च ॥२॥ सिद्ध्यर्थं सर्वमन्त्राणामधिकाराप्तये तु वा । तत्कालं गुरुणा कार्यं सच्छिष्यस्याभिषेचनम् ॥ ३ ॥ ननु तर्हि जयाख्ये चतुर्वर्णानां चतुराश्रमिणां चतुर्विधशिष्याणां चाभिषेकः प्रति- पादितः । तत्र का गतिरिति चेत्, दत्तोत्तरमेतत् । जयाख्यनिष्ठानां सर्वेषामपि तारतम्ये- नाभिषेकः स्यात् । एतस्मिन्नाचार्याभिषेकमात्रस्योक्तत्वात् साधकाद्यभिषेकविधाना- नामनुक्तत्वाच्चैतन्निष्ठैराचार्याभिषेकमात्रमनुष्ठेयम् । यद्वा—अनुक्तमन्यतो ग्राह्यमिति न्यायेन साधकाभिषेकाद्यनुष्ठानेऽपि न प्रत्यवायः ॥ ३ ॥ अब समय निष्ठ तदनन्तर (द्र. २२.१४) शास्त्र के व्यवसाय में निरस पुत्रता को प्राप्त होने वाले (पुत्रक लक्षण २२.३८ द्र.) समाराधन में आसक्त (द्र.

विंशः परिच्छेदः ४९३ २२.३९), अथवा चारों से विशिष्ट शिष्य का, सभी मन्त्रों की सिद्धि के लिये, अथवा सभी मन्त्रों पर अधिकार प्राप्ति के लिये, दीक्षा के अनन्तर तत्काल उनका अभिषेक कर देना चाहिये ॥ २-३ ॥ अथाभिषेकविधानम् भगवत्तत्त्ववेत्तॄणां पञ्चकालरतात्मनाम् । संहितापारगाणां च आचार्याणां च सन्निधौ ॥ ४ ॥ यतीनां बद्धलक्ष्याणां साधकानां महात्मनाम् । देवस्य पुरतः कुर्याच्चतुरश्रं तु मण्डपम् ॥ ५ ॥ सर्वोपकरणोपेतं मध्ये भद्रासनान्वितम् । तस्मिन् कुर्यादनन्ताद्यं सन्धानं त्वासनोदितम् ॥ ६ ॥ अथाभिषेकविधानमाह—भगवत्तत्त्ववेत्तॄणामित्यारभ्य पूर्णान्तं चाग्निमध्यगमि- त्यन्तम् । देवस्य पुरत इत्यत्र मण्डलस्थस्य बिम्बस्थस्य वा देवस्येत्यर्थः । अनन्ताद्य- मित्यत्राद्यपदेन धर्मज्ञानादयः संग्राह्याः । अष्टाङ्गेन अष्टोपचारैरित्यर्थः । वैष्णवं कुम्भं दीक्षार्थं स्थापितं महाकुम्भमित्यर्थः । ननु दीक्षार्थं स्थापितं महाकुम्भमिति कोऽयं नियमः । यतो जयाख्यपाद्मयोर्भि- षेकार्थं पृथक् कुम्भस्थापनमुच्यत इति चेन्न, अत्र पृथगनुक्तत्वात्, महाकुम्भस्य विनियुक्तत्वादेवोत्तरत्र—'क्षान्त्वा यथोक्तविधिना सकुण्डान्मण्डलान्तरात्' (२०।१९) इति केवलकुण्डमण्डलाभ्यामेव भगवद्विसर्जनस्य वक्ष्यमाणत्वाच्च । ननु साधकस्य खल्वाचार्याभिषेकः कार्यः । साधकलक्षणं तु—‘‘पूर्ववल्लब्ध- दीक्षस्तु मन्त्राराधनतत्परः'' (२२।३९) इत्यादि वक्ष्यति । जयाख्येऽपि— मन्त्रसिद्धिश्च वै यस्य विज्ञाता गुरुणा यदा । गुरुणा वै सोऽभिषिक्तस्ततः शिष्यः प्रसादतः ॥ (१७।४६) इति प्रतिपाद्यते । एवं दीक्षानन्तरं मन्त्रसिद्धयर्थं बहुकालमनुष्ठितव्रतस्य साधकस्य दीक्षार्थं स्थापितमहाकुम्भेनैवाभिषेकः कथं संघटते । अतोऽभिषेककालेऽपि कुम्भ- मण्डलाग्निष्वर्चनं कार्यम् । तदातनमहाकुम्भेनैवाभिषेकः सरस इति चेत्, स्थूल- मनीषोऽसि । किमेकं शिष्यमुद्दिश्यैव दीक्षाप्रारम्भः क्रियते? बहूनुद्दिश्य क्रियमाणे दीक्षाक्रमे कांश्चित् समये नियोजयति, समयिनः पुत्रकपदे नियोजयति, पुत्रकान् साधक- पदे नियोजयति, साधकानाचार्यपदेऽभिषेचयतीति सूक्ष्मदृष्ट्या द्रष्टव्यम् । नृसिंह- दीक्षाप्रकरणे— ततः शुचीन् सोपवासान् शोधितान् बद्धलोचनान् ॥ भक्तान् प्रवेशयेत् तत्र गृहीतकुसुमांस्तु वै । (१७।११५-११६) इति बहूनां युगपद्दीक्षाक्रममुक्तं किं न श्रुतवानसि । अन्यथा—‘‘तत्कालं गुरुणा कार्यं सच्छिष्यस्याभिषेचनम्'' (२०।३) इत्युक्तः कालः संभवेत् । एकमेवो-

४९४ सात्वतसंहिता द्दिदृश्य क्रियमाणदीक्षाक्रमेऽपि भगवदनुग्रहवशात् सद्यस्तन्मन्त्रसिद्धिलिङ्गदर्शनादौ तत्काल एवाभिषेकोऽपि संभवत्येव । प्रक्षेपयेन्मण्डलान्तर्नेत्रबन्धं विमुच्य च ॥ अष्टाङ्गप्रणिपातैस्तु प्रदक्षिणयुतैस्ततः । देवश्चाग्निर्गुरुः कुम्भः पूजनीयः पुनः पुनः ॥ तत्कालं भक्तिभावेन विज्ञाता योग्यता यदा । तीव्रमन्दधियां तेषां तदा दीक्षां समाचरेत् ॥ (१७।११६-११८) इति समयिपुत्रकाणां भक्त्यतिशये तीव्रबुद्धित्वे च तदानीमेव दीक्षाचरणं सुस्पष्टं प्रतिपादितं हि । ननु पुत्रकाणां दीक्षाचरणकथनं तत्र किं साधकमिति चेत्, जरकुड्य- दुःशङ्कापरिहरणं चतुर्मुखस्याप्यशक्यम् । कृत्वा. निरीक्षणाद्यं च देवधाम्नि तु क्षेपयेत् । तुष्टो मन्त्रमयं सम्यक् सार्घ्यपुष्पाहिताञ्जलिः ॥ (२२।३१) इति वक्ष्यमाणलक्षणानुसारेण पुष्पाञ्जलिप्रक्षेपाद्यनन्तरं हि पुत्रकत्वं सिद्ध्यति । तदा पुत्रकपदारूढस्यापि तदानीमेव दीक्षाचरणकथनं तत्र साधकं (कथं) न भवेत्, "सिद्धये द्रुतहेमाभम्" (२०।१९) इत्युक्तत्वात् । "ध्यात्वा तं स्फटिकामलम्" (२०।९२) इत्यत्र मुक्तय इति ज्ञेयम् । "स्वाहान्तं भोगसिद्धयर्थं नमोऽन्तं मोक्ष- सिद्धये" (१९।८५) इति पूर्वमेवोक्तं हि । यथार्हदण्डसहितं तत्तद्वर्णाश्रमविहितदण्ड- मित्यर्थः । एतेन "काषाये क्षौमवाससी" (२०।१७) इत्यपि व्याख्याते ॥ ४-१८॥ साधक को भगवत्तत्त्व वेत्ताओं के एवं पञ्चकाल भगवान् में निरतात्मा लोगों के तथा संहिता का मर्म जानने वालों के सन्निधान में यह अभिषेक क्रिया करनी चाहिये ॥ ४ ॥ इसी प्रकार अपने लक्ष्य का ध्यान करने वाले यतियों तथा साधकों के सन्निधान में भी यह अभिषेक क्रिया की जानी चाहिये । देवाधिदेव के सामने चौकोर मण्डप का निर्माण करना चाहिये । उस मण्डप को अभिषेक के लिये उपयुक्त समस्त उपकरणों से युक्त करना चाहिये । उसके मध्य में भद्रासन का निर्माण करे । उसमें अनन्तादि धर्मादि के लिये आसनादि निर्माण करे ॥ ५-६ ॥ पूजयित्वाऽर्घ्यपुष्पाद्यैस्ततो देवस्य सम्मुखम् । बद्धपद्मासनं शिष्यं तत्रारोप्य कृताञ्जलिम् ॥ ७ ॥ कान्ताभिर्गीयमानं तु स्तूयमानं च वन्दिभिः । शङ्खाद्यैर्ध्मायमानं तु पाठ्यमानं तु मङ्गलैः ॥ ८ ॥ जपमानं परं मन्त्रं ध्यायमानमिवाच्युतम् । अष्टाङ्गेणार्चयित्वा तु कुम्भमादाय वैष्णवम् ॥ ९ ॥

विंशः परिच्छेदः ४९५ स तत्रस्थेन मन्त्रेण सम्यक् सिद्धिव्यपेक्षया । सहस्रावर्तितं कृत्वा शतावर्तितमेव वा ॥ १० ॥ तदनन्तर देवाधिदेव के सामने अर्घ्य पुष्पादि से पद्मासन पर बैठे हुए शिष्य की पूजा कर हाथ जोड़े हुए शिष्य को उस मण्डप में आरोपित करे । उस समय सौभाग्यवती सुन्दर स्त्रियाँ गान करें, बन्दी लोग स्तुति करें, अन्य लोग शङ्ख बजावें, मङ्गल पाठ करें, कोई पर-मन्त्र का जप करे और कोई अच्युत का ध्यान करे । तदनन्तर वैष्णव कुम्भ के द्वारा अष्टाङ्ग से उसकी अर्चना करनी चाहिये । तदनन्तर वह आचार्य शिष्य सिद्धि की अपेक्षा रखते हुए तत्रस्थ मन्त्र का एक सहस्र संख्या में अथवा शत संख्या में जप करे ॥ ७-१० ॥ सिद्धये द्रुतहेमाभं स्मृत्वा तमभिषिच्य च । स्वाहान्तमन्त्रमुच्चार्य प्लुतं हृत्कमलोदरात् ॥ ११ ॥ एवमुक्त्वा नमोऽन्तं तु ध्यात्वा तं स्फटिकामलम् । समुत्कीर्य खरन्ध्रेण तस्य हृत्पद्मगं स्मरेत् ॥ १२ ॥ सिद्धि के लिये तपाये हुए काञ्चन वर्ण के समान मन्त्र का स्मरण करना चाहिए । तदनन्तर साधक हृत्कमलोदर से निकले हुए स्वाहान्त मन्त्र का उच्चारण कर अभिषेक करे । फिर स्फटिक के समान अमल मोक्ष का नमोऽन्त उच्चारण कर, उसे आकाश मण्डल से, शिष्य के हृदय रूपी पद्म में स्थापित कर, स्मरण करे ॥ ११-१२ ॥ चिच्छक्तिविग्रहं ब्रह्म त्वात्मानन्दलक्षणम् । समारोप्य धिया सम्यक् स्वाधिकारं तु चाखिलम् ॥ १३ ॥ प्रतिपाद्यार्चितं शुद्धं दिव्यमागमसञ्चयम् । शुभमाराधनाधारमक्षसूत्रं च किङ्किणीम् ॥ १४ ॥ स्रुक्स्रुवौ योगपट्टं च शङ्खचक्रे कमण्डलुम् । चमसं सार्घ्यपात्रं च दर्भान् कृष्णाजिनं ततम् ॥ १५ ॥ पादुके पादपीठं च च्छत्रमासनदर्पणम् । मायूरं व्यजनं शुक्लं चामरं भगवद्ध्वजम् ॥ १६ ॥ यथार्हदण्डसहितं काषाये क्षौमवाससी । समुत्थाप्यासनात् सर्वमाहृत्य स्नानजं जलम् ॥ १७ ॥ विनिक्षिप्य शुचौ स्थाने देवमभ्यर्च्य वै ततः । तादर्थ्येन तु सन्तर्प्य पूर्णान्तं चाग्निमध्यगम् ॥ १८ ॥

४९६ सात्वतसंहिता अपनी बुद्धि से आह्लाद, आनन्द लक्षण वाले, चित् शक्ति विग्रह से युक्त परब्रह्म को उसके हृदय में स्थापित करे । अपना समस्त अधिकार प्रदान करे । अपने में सञ्चित शुभ, शुद्ध, दिव्यागम तथा आराधना का आधारभूत अक्षसूत्र, किङ्किणी, स्रुक् स्रुवा, योगपट्ट, शङ्ख, चक्र, कमण्डल, अर्घ्यपात्र सहित चमस, कुश समूह, विस्तृत कृष्णाजिन, दो पादुका, पादपीठ, छत्र, आसन, दर्पण, मयूर पिच्छ का व्यजन, शुक्लवर्ण का चामर, भगवद् ध्वज, आश्रमानुसार दण्ड, दो काषायवर्ण के दो क्षौमवस्त्रादि एकत्र कर अपने आसन से उठकर शिष्य को प्रदान करे । फिर स्नानार्थ जल स्थापित करे । तदनन्तर शुचि स्थान में देवाधिदेव की पूजा करे । उन देवाधिदेव की तृप्ति के लिये तर्पण करे तथा अग्नि के मध्य में पूर्णाहुति करे ॥ १३-१८ ॥ क्षान्त्वा पूर्वोक्तविधिना सकुण्डान्मण्डलान्तरात् । अर्घ्यपात्रसमूहाच्च बलिदानं समाचरेत् ॥ १९ ॥ सोदकेन च भूतानामोदनेनास्त्रमुच्चरन् । बलिमण्डलकं कृत्वा यागागाराच्च बाह्यतः ॥ २० ॥ अथ कुण्डान्मण्डलादर्घ्यादिपात्रसमूहाच्च मन्त्रोपसंहारं बलिदानक्रमं चाह— क्षान्त्वेति चतुर्भिः । भूतानां = कुमुदादीनामित्यर्थः । बलिमण्डलकं = बलिदानार्थं गोमयोपलिप्तं स्थानमित्यर्थः ॥ १९-२० ॥ फिर कुण्ड से, मण्डल से, अर्घ्यपात्र समूह से मन्त्रोपसंहार कर साधक को इस प्रकार बलिदान करना चाहिए । यज्ञगृह से बाहर अस्त्र मन्त्र का उच्चारण करते हुए उदक सहित ओदन से भूतों के लिये बलिमण्डल (गोमयोपलिप्त स्थान) का निर्माण करे ॥ १९-२० ॥ कृत्वान्तर्बलिदानं तु प्रदाक्षिण्येन वै पुरा । अथ ऊर्ध्वं इदं चोक्त्वा शेषं तन्मण्डले बहिः ॥ २१ ॥ नमोऽस्त्वच्युतभूतेभ्यः सर्वेभ्यः सर्वदैव हि । सदिक्पतिभ्यः सास्त्रेभ्यः शान्तिर्नोऽस्त्वस्य वै शिशोः ॥ २२ ॥ अथ विष्वक्सेनार्चनं तत्सन्तर्पणं तद्विसर्जनं तन्निवेदितपरित्यागं चाह— पूजाद्यमिति सार्धद्वाभ्याम् ॥ २१-२५ ॥ तदनन्तर उस मण्डल के भीतर बलिदान करे एवं प्रदक्षिणा करे । इसके बाद मण्डल के बाहर ‘नमोऽस्त्वच्युत...’ आदि श्लोक से बलि प्रदान करे । बलिमन्त्र का अर्थ—सभी दिक्पतियों के साथ अस्त्र धारण किये हुए अच्युतभूतों को सर्वदा हमारा नमस्कार हो, हमारी शान्ति हो तथा हमारे इस शिष्य को शान्ति प्राप्त हो ॥ २१-२२ ॥

विंशः परिच्छेदः ४९७ विष्वक्सेनार्चन विधानम् पूजाद्यमुपसंहृत्य दत्तशिष्टेन पूर्ववत्। वृत्तमण्डलमध्ये तु सितपद्मोदरे ततः ॥ २३ ॥ दत्तशिष्टैर्यजेद् देवं सर्वदेवगुरुं प्रभुम्। तर्पयित्वाऽग्निमध्ये तु कुर्यात् तस्य विसर्जनम् ॥ २४ ॥ तदीयमथ निक्षिप्य क्ष्मावटे वा जलान्तरे। इसके बाद विष्वक्सेन की अर्चना करे और उनका सन्तर्पण, विसर्जन तथा तन्निवेदित अन्न का परित्याग इस प्रकार करे—सामग्री द्वारा वृत्तमण्डल के मध्य में श्वेत कमल पर पूजावशिष्ट सामग्री द्वारा प्रभु सर्वदेव गुरु विष्वक्सेन का पूजन करे । अग्नि के मध्य में सन्तर्पण करे । उनका विसर्जन करे । उनकी पूजा की समस्त सामग्री पृथ्वी में गड्ढा खोद कर डाल देवे अथवा जल में प्रक्षिप्त करे ॥ २३-२५ ॥ सुधापानप्रदानप्रकारकथनम् यागावनौ च तच्चक्रं द्वादशारं विचिन्त्य च ॥ २५ ॥ न्यस्यात्मन्यर्घ्यपुष्पाद्यैः समभ्यर्च्य तदन्तरे। करकं वारिसम्पूर्णमादाय विनिवेश्य च ॥ २६ ॥ सुधापानप्रदानप्रकारमाह—यागावनौ च तच्चक्रमित्यारभ्य कृत्वा फलसमन्वित- मित्यन्तम् ॥ २५-३३ ॥ फिर यज्ञ भूमि में द्वादशार चक्र का निर्माण करे । अपने देह में अङ्गन्यास करे । अर्घ्यपुष्पादि से उस चक्र की पूजा करे और वारिपूर्ण करके कमण्डल वहाँ स्थापित करे ॥ २५-२६ ॥ तत्रेष्ट्वा वीर्यमन्त्रेण मध्ये मन्त्रास्त्रमुत्तमम्। मध्वम्बुपयसा पूर्णमपरं शुभलक्षणम् ॥ २७ ॥ तदग्रतोऽर्घ्यकलशं तन्मध्येऽस्त्रं च चक्रगम्। तमभ्यर्च्य यथान्यायं कृत्वाऽष्टशतमन्त्रितम् ॥ २८ ॥ वषट्पदनिरुद्धेन मूलमन्त्रेण तं पुनः। दद्यात् तदन्तः शार्णेन प्राग्वत् पीयूषधारिणा ॥ २९ ॥ वहाँ वीर्यमन्त्र से पूजा करे । तदनन्तर मन्त्रास्त्र से युक्त दो कलश स्थापित करे । प्रथम कलश में मधु, जल और दूध स्थापित करे । दूसरा कलश शुभ लक्षणों युक्त कर स्थापित करे । उसके आगे अर्घ्य कलश जिसमें चक्र स्थित है, उसमें अस्त्र मन्त्र स्थापित करे । फिर उसे १०८ बार मन्त्र से अभिमन्त्रित कर

४९८ सात्वतसंहिता विधिवत् पूजा करे । तदनन्तर मूल मन्त्र में वषट् लगा कर उसके भीतर पीयूष की धारा देवे ॥ २७-२९ ॥ निर्निद्रीकरणं कुर्यात् सर्वेषां मन्त्रवारिणा । तदम्बुधारादानेन ध्यानोच्चारयुतेन च ॥ ३० ॥ संविभज्याथ वैतेषां मन्त्रपानं सुधामयम् । सुधाद्यस्त्रवरं पश्चात् समन्त्रं चक्रगं न्यसेत् ॥ ३१ ॥ फिर मन्त्र से जल छिड़क कर वहाँ के समस्त लोगों को विनिद्रित करे, फिर ध्यान एवं मन्त्र का उच्चारण करते हुए उसके चारों ओर जलधारा देवे । तदनन्तर सभी को वह सुधामय मन्त्रपान करावे । पश्चात् चक्र में रहने वाले समन्त्र सुधादि अस्त्र वर का न्यास करे ॥ ३०-३१ ॥ आदाय तं तोयकुम्भमस्त्रमन्त्रमुदीरयन् । भ्रामयेत् पूर्ववद्धारामथ मध्ये निधाय तम् ॥ ३२ ॥ सम्पूर्णमुदकेनैव कृत्वा फलसमन्वितम् । इसके बाद अस्त्र मन्त्र पढ़ते हुए उस जल कलश को लेकर चक्र के चारों ओर उसके जल से धारा देवे । फिर उसे मध्य में स्थापित कर फल समन्वित उदक धारा देकर उसे सम्पूर्ण करे ॥ ३२-३३॑ ॥ गुरुयागकथनम् गुरुयागमतः कुर्याच्छिष्यः प्रयतमानसः ॥ ३३ ॥ भगवद्यागवद् भक्त्या कर्मणा मनसा गिरा । यागोपयुक्तं सम्भारं तस्मै सर्वं निवेद्य च ॥ ३४ ॥ सशिरः पाणियुग्मं तु कृत्वा वै च तदङ्घ्रिगम् । क्षान्तव्यः सुप्रयत्नेन श्रद्धापूतेन चेतसा ॥ ३५ ॥ गुरुपूजनमाह—गुरुयागमिति सार्धद्वाभ्याम् । गुर्वर्चनमन्त्रस्तु लक्ष्मीतन्त्रोक्तो ग्राह्यः— अज्ञानगहनालोकसूर्यसोमाग्निमूर्तये । दुःखत्रयाग्निसन्तापशान्तये गुरवे नमः ॥ (४१।६४) इति । अस्मिन्नवसरे पादतीर्थपरिग्रहश्चोक्तो जयाख्ये— प्रक्षाल्य सलिलेनाथ गुरोश्चरणपङ्कजे ॥ तेनात्मानं तु संसिच्य पिबेदञ्जलिना ततः । (१८।८४-८५) इति ॥ ३३-३५ ॥

विंशः परिच्छेदः ४९९ इसके बाद शिष्य समाहित चित्त होकर विधिवत् गुरुयाग करे । यह गुरु याग कर्म, मन और वाणी से भगवद् याग की तरह सम्पादन करे । सर्वप्रथम यागोपयुक्त समस्त पूजन सामग्री पूजा के द्वारा निवेदित करे । फिर गुरु के चरणों पर शिर सहित दोनों हाथ रखकर श्रद्धा से पवित्र चित्त द्वारा उनसे क्षमा माँगे ॥ ३३-३५ ॥ पञ्चरात्रविदस्तद्वद् यतींश्च स्नातकादिकान् । सम्पूज्य विधिवद् दद्यात् तेषां शक्त्या च दक्षिणाम् ॥ ३६ ॥ सर्वेषां भागवतानां दक्षिणादानादिकमाह—पञ्चरात्रेति ॥ ३६ ॥ तदनन्तर पञ्चरात्र के विद्वानों, यतियों, स्नातकादिकों की विधिवत् पूजा कर उन्हें शक्ति के अनुसार दक्षिणा प्रदान करे ॥ १३६ ॥ संवाहनपरात् कालाद् लब्ध्वाऽनुज्ञां तु गौरवीम् । भ्रातृभिः सह चाश्नीयाद् बहुभिः पूर्वदीक्षितैः ॥ ३७ ॥ तथान्यैर्भगवद्भक्तैः सुहृत्सम्बन्धिबान्धवैः । तदनन्तरं गुर्वनुज्ञया भ्रातृभिः सह भोजनमाह—संवाहनेति सार्धेन ॥ ३७-३८ ॥ फिर गुरु के पादसंवाहन के पश्चात् उनकी आज्ञा प्राप्त कर अपने भ्रातृगणों तथा पूर्व में बहुत से दीक्षित सज्जनों के साथ, अन्य भगवद् भक्तों के साथ तथा सुहृत् सम्बन्धी बन्धुओं के साथ भोजन करे । तत्पश्चात् उस काल में अथवा अन्य काल में जहाँ-तहाँ शिष्यों के साथ जाने वाले उन लोगों के साथ अनु- व्रजन करे ॥ ३७-३८ ॥ व्रजन्तं सह शिष्यैस्तु काले ह्यन्यत्र तत्र वा ॥ ३८ ॥ तदिच्छया ह्यनुव्रज्य निवर्तेताथ वै यदा । कृत्वा तु पादपतनं बहुधा सम्प्रदक्षिणम् ॥ ३९ ॥ आ मोक्षात् सर्वसिद्धीनां भक्तानां भावितात्मनाम् । परा गतिर्गुरुर्यस्मात् प्रसाद्यः स्मृत एव सः ॥ ४० ॥ ॥ इति श्रीपाञ्चरात्रे श्रीसात्वतसंहितायामभिषेकविधिर्नाम विंशः परिच्छेदः ॥ २० ॥

५०० सात्वतसंहिता तस्मिन् कालेऽन्यत्र वाव्रज्या गुरुणा सहानुव्रजनं पुनस्तदनुज्ञया निवर्तनकाले प्रणिपतनप्रदक्षिणादिभिर्गुरोः प्रसादीकरणं चाह— व्रजन्तमिति सार्धद्वाभ्याम् ॥ ३८-४० ॥ ॥ इति श्रीमौज्यायनकुलतिलकस्य यदुगिरीश्वरचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये विंशः परिच्छेदः ॥ २० ॥ तदनन्तर उनकी इच्छा से लौट आवे । फिर गुरु के चरणों पर गिर कर नमस्कार करे एवं प्रदक्षिणा करे ॥ ३८-३९ ॥ मोक्ष पर्यन्त समस्त सिद्धि प्रदान करने वाले तथा भगवदाराधन परायण भक्तों के लिये एकमात्र सर्वश्रेष्ठ गुरु ही परागति हैं, अतः वही प्रसाद्य हैं और संस्मरणीय भी हैं ॥ ४० ॥ ॥ इस प्रकार डॉ० सुधाकर मालवीय कृत सात्त्वत संहिता के अभिषेकविधि नामक बीसवें परिच्छेद की हिन्दी समाप्त हुई ॥ २० ॥

एकविंशः परिच्छेदः समयविधिः नारद उवाच भगवानथ विश्वात्मा चोदितस्तालकेतुना । द्विजप्रधाना यत् तन्मे आकर्णयत साम्प्रतम् ॥ १ ॥ अथैकविंश परिच्छेदो व्याख्यास्यते । अत्र पुनर्भगवान् वासुदेवः सङ्कर्षणेन यत्पृष्टस्तच्छृण्वित्याह—भगवानिति ॥ १ ॥ नारद जी ने कहा—हे श्रेष्ठ ब्राह्मणो ! तदनन्तर सङ्कर्षण के द्वारा पूछे जाने पर विश्वात्मा भगवान् ने जो कहा उसे मुझसे सुनिए ॥ १ ॥ सङ्कर्षण उवाच नियमाः किंस्वरूपास्तु दातव्या दीक्षितस्य च । गुरुणा प्रतिपन्नस्य शासनेऽस्मिन् जगत्प्रभो ॥ २ ॥ प्रश्नप्रकारमाह—नियमा इति ॥ २ ॥ सङ्कर्षण ने पूछा—हे जगत्प्रभो ! गुरु के शरण में प्रतिपन्न हुए दीक्षितों के लिये जो नियम गुरु द्वारा दातव्य है उनका स्वरूप क्या है? ॥ २ ॥ श्रीभगवानुवाच प्रत्येकस्मिन् हि नियमे निर्गते तु गुरोर्मुखात् । प्रब्रूयाद् बाढमित्येवं शिष्यः शोकाग्निशान्तये ॥ ३ ॥ एवं पृष्टो वासुदेव आचार्येणैकैकस्मिन् नियमे उपदिष्टे शिष्यो बाढं बाढमिति ब्रूयादित्याह—प्रत्येकस्मिन्निति ॥ ३ ॥ श्री भगवान् के कहा—गुरु के मुख से उपदिष्ट एक-एक नियम पर शिष्य 'बाढं बाढम्' ऐसा कहे ॥ ३ ॥ नाक्रम्या गौरवी छाया दैवी यानगता त्वपि । गुरुवद् गुरुवर्गश्च द्रष्टव्यो नित्यमेव हि ॥ ४ ॥

५०२ सात्वतसंहिता शयनासनयानाद्यं तदीयम्भिवादयेत् । अतन्द्रितः सदा कुर्याद् व्यापारं तद्गृहेऽखिलम् ॥ ५ ॥ नासने तत्समक्षं च वस्तव्यं न च दक्षिणे । सुयन्त्रितः संयतवाक् तदाज्ञासम्प्रतीक्षकः ॥ ६ ॥ तत्सन्निधौ तु नान्येषां प्रत्युत्थानं समाचरेत् । कुर्यात् संशयविच्छित्तिं न तदादेशतो विना ॥ ७ ॥ गुरोर्देवस्य तत्तद्वाहनस्य च छायोल्लङ्घनं न कार्यमित्याह—नेत्यर्धेन । आचार्य- पुत्रकलत्रादिषु चाचार्यदृष्टिः कार्येत्याह—गुरुवदित्यर्धेन । गुरोः शयनासनादीनामपि नमस्कारः कार्य इत्याह—शयनेत्यर्धेन । आचार्यगृहकृत्येषु जागरुकेण भवितव्य- मित्याह—अतन्द्रित इत्यर्धेन । गुरोः समक्षमासनोपरि वा तद्दक्षिणभागे वा न वर्तितव्यमित्याह—नेत्यर्धेन । गुरुसन्निधाववहितो मितभाषी तदाज्ञाप्रतीक्षकश्च भूयादि- त्याह—सुयन्त्रित इत्यर्धेन । गुरुसन्निधावन्येषां प्रत्युत्थानादिकं न कुर्यादित्याह— तदित्यर्धेन । गुर्वाज्ञां विना पृच्छकाणां संशयविच्छेदनं न कुर्यादित्याह—कुर्या- दित्यर्धेन ॥ ४-७ ॥ शिष्य गुरु देवता तथा उनके वाहन की छाया का उल्लङ्घन न करे । गुरु के समान गुरुवर्ग में भी श्रद्धा बुद्धि रखे ॥ ४ ॥ गुरु के शयन आसनादि को नमस्कार करे । उनके घर का समस्त व्यापार सावधानी से करे ॥ ५ ॥ उनके सामने आसन पर न बैठे । उनके दाहिनी ओर न रहे । गुरु के सन्निधान में सर्वदा अवहित ( मितभाषी तथा उनकी आज्ञा की प्रतीक्षा करे ॥ ६ ॥ गुरु के सन्निधान में अन्य को प्रत्युत्थानादि न करे तथा गुरु की आज्ञा के बिना अन्य किसी पृच्छक के संशय का समाधान न करे ॥ ७ ॥ व्याख्यानमागमानां च योगाभ्यासश्च धारणा । अवश्यकार्याण्येतानि स्वगृहे न गुरोर्गृहे ॥ ८ ॥ आगमव्याख्यादीनां स्वगृह एव कर्तव्यत्वमाचार्यगृहे तन्निषेधं चाह—व्याख्यान- मिति ॥ ८ ॥ आगमों का व्याख्यान, योगाभ्यास एवं धारणा आदि सभी आवश्यक कार्य अपने घर पर ही करे । गुरु के गृह में कदापि न करे ॥ ८ ॥ भोजननियमविधानम् न शङ्खचक्रपद्माङ्के भोक्तव्यं भाजने तु वै । तल्लक्ष्म चोपलं काष्ठं लोष्टं वा फलकादिकम् ॥ ९ ॥

एकविंशः परिच्छेदः ५०३ क्रमणीयं न पादेन कल्प्यं नैवासनार्थतः । भगवच्छासनज्ञानामाराधनरतात्मनाम् ॥ १० ॥ यथोचितं यथाशक्ति पूजा कार्या सदैव हि । शङ्खचक्राद्यङ्कितपात्रे न भोक्तव्यमित्याह—नेत्यर्द्धेन शङ्खचक्राङ्कितं शिलाकाष्ठ- लोष्टफलकादिकं च पादेन नाक्रमणीयम्, आसनार्थं न कल्पनीयमिति चाह— तल्लक्ष्मेति । भगवच्छास्त्राभिज्ञानां तदुक्तभगवदाराधननिष्ठानां च निरन्तरं यथा- शक्त्यर्चनं कार्यमित्याह—भगवच्छासनेति ॥ ९-११ ॥ जिस पात्र में शङ्ख एवं चक्र का चिह्न अङ्कित हो, उस पात्र में भोजन न करे । जिस उपल, काष्ठ, लौह तथा फलकादिक में शङ्ख एवं चक्र का चिह्न हो उसे पैर से लङ्घन न करे तथा उनका आसन न बनाये । भगवत् शास्त्रों के विज्ञाता तथा भगवच्छास्त्रोक्त विधि से आराधना करने वाले भक्तों का यथाशक्ति सर्वदा अर्चन करना चाहिए ॥ ९-११ ॥ प्रासादं देवदेवीयमाचार्यं पाञ्चरात्रिकम् ॥ ११ ॥ अश्वत्थं च वटं धेनुं सत्समूहं गुरोर्गृहम् । दूरात् प्रदक्षिणीकुर्यान्निकटात् प्रतिमां विभोः ॥ १२ ॥ दण्डवत्प्रणिपातैस्तु नमस्कुर्याच्चतुर्दिशम् । भगवद्विमानादीनां प्रदक्षिणनमस्कारप्रकारावाह—प्रासादमिति द्वाभ्याम् । छायाक्रमणभिया दूरादित्युक्तमिति ज्ञेयम् ॥ ११-१३ ॥ देवता, देवों का प्रासाद, आचार्य, पाञ्चरात्रिक, अश्वत्थ, वट; धेनु, सत्समूह एवं गुरु का घर दूर से ही देखकर इनकी प्रदक्षिणा करे, सन्निकट से प्रदक्षिणा करने में छायोल्लङ्घन का भय है ॥ ११-१३ ॥ न यानपादुकारूढो न सोपानत्कपादभृत् ॥ १३ ॥ न विक्षिप्तमना भूत्वा संविशेद् भगवद्गृहम् । न व्याख्यावसरे कुर्यात् प्रत्युत्थानाभिवादने ॥ १४ ॥ भगवन्मन्दिरप्रवेशकाले पादुकामुपानहं वा पद्भ्यां न स्पृशेदन्तर मनोवृत्तिं च न वर्तयेदित्याह—नेति ॥ १३-१४ ॥ भगवन्मन्दिर में सवारी से, पादुका धारण कर, जूता पहन कर तथा विक्षिप्त मन से प्रवेश न करे । गुरु यदि शास्त्र की व्याख्या करते हों, तो उस समय प्रत्युत्थान अभिवादन न करे ॥ १३-१४ ॥ नाभक्तानां न मूर्खाणां नास्तिकानां विशेषतः । दातव्यः सम्प्रवेशश्च नोपहासरतात्मनाम् ॥ १५ ॥

५०४ सात्वतसंहिता आगमव्याख्यानकाले प्रत्युत्थानप्रणामनिषेधमभक्तादीनां तत्र प्रवेशनिषेधं चाह— नेति सार्धेन। नास्तिकानामित्यत्रापि नेत्यनुषङ्गः कार्यः॥ १५॥ आगम व्याख्यान के अवसर में जो भक्त न हों, मूर्ख हो, नास्तिक हो, तथा शास्त्र का उपहास करने वाले हों, उन्हें विशेष रूप से प्रवेश न देवे॥ १५॥ नापूजितं समुद्घाट्यं शासनं पारमेश्वरम्। समक्षं नान्यभक्तानां न तत्सन्देहशान्तये॥ १६॥ प्रकाशनीयं तल्लोभान्न चाऽन्यायेन नो भयात्। अयोग्यं प्रति वाऽन्यदेवताभक्तानां समक्षं वा लोभाद् भयादन्यायाद्वा भगवच्छास्त्रं न प्रकाश्यमित्याह—नेति॥ १६-१७॥ अयोग्यों तथा अन्य देवताओं के भक्तों के सामने लोभ से या भय से, अन्याय से भगवच्छास्त्रों का प्रकाश न करे और न उनसे सुगन्ध, फल, पुष्पादि और भी अपूर्व उचित वस्तु न लेवे और संदेह की शान्ति करे॥ १६-१७॥ सुगन्धफलपुष्पाद्यमपूर्वमुचितं च यत्॥ १७॥ अभोज्यं गुरुदेवाग्निनिवेदनविवर्जितम्। अपूर्वं योग्यं फलपुष्पादिकं वस्तु गुरुदेवाग्निसमर्पणमन्तरा न भोज्यमित्याह— सुगन्धेति॥ १७-१८॥ तस्करात् पतिताच्चण्डाद् दम्भलोभमदान्वितात्॥ १८॥ मात्रावित्तं न गृह्णीयाद्भक्तादुपचारतः। तस्करादिभ्यो मात्राद्रव्यप्रतिग्रहनिषेधमाह—तस्करादिति। तथा च स्मरति शाण्डिल्यः— कुलटाषण्ढपतितस्वैरिभ्यः काकिणीमपि। उद्यतामपि गृह्णीयान्नापद्यपि कदाचन॥ (६।९८) इति॥ १८-१९॥ गृहीत्वा भगवद्विम्बं वृत्त्यर्थमटतीह यः॥ १९॥ नगरापणवीथीषु तस्य देवलकस्य च। दर्शनं स्पर्शनं नैव कुर्यात् सम्भाषणं तथा॥ २०॥ स्वगृहे समाराध्यं भगवद्विम्बमादाय द्रव्यार्जनार्थं नगरादिषु सञ्चरमाणस्य देवल- कस्य दर्शनादिकमपि न कार्यमित्याह—गृहीत्वेति सार्धेन। नन्वेतन्मन्दिरस्थभगव- द्विम्बविषयमपि स्यादिति चेन्न, तस्य राजाधीनतया बहिर्द्रव्यार्जनार्थमानेतुमशक्यत्वात्, तत्र तादृशशङ्काया एवानवकाशात्॥ १९-२०॥ गुरु देवता तथा अग्नि को जिस अन्न का अर्पण न हुआ हो, उस अन्न का