सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 553, कुल 837 में से
संदर्भ में पढ़ें४९४ सात्वतसंहिता द्दिदृश्य क्रियमाणदीक्षाक्रमेऽपि भगवदनुग्रहवशात् सद्यस्तन्मन्त्रसिद्धिलिङ्गदर्शनादौ तत्काल एवाभिषेकोऽपि संभवत्येव । प्रक्षेपयेन्मण्डलान्तर्नेत्रबन्धं विमुच्य च ॥ अष्टाङ्गप्रणिपातैस्तु प्रदक्षिणयुतैस्ततः । देवश्चाग्निर्गुरुः कुम्भः पूजनीयः पुनः पुनः ॥ तत्कालं भक्तिभावेन विज्ञाता योग्यता यदा । तीव्रमन्दधियां तेषां तदा दीक्षां समाचरेत् ॥ (१७।११६-११८) इति समयिपुत्रकाणां भक्त्यतिशये तीव्रबुद्धित्वे च तदानीमेव दीक्षाचरणं सुस्पष्टं प्रतिपादितं हि । ननु पुत्रकाणां दीक्षाचरणकथनं तत्र किं साधकमिति चेत्, जरकुड्य- दुःशङ्कापरिहरणं चतुर्मुखस्याप्यशक्यम् । कृत्वा. निरीक्षणाद्यं च देवधाम्नि तु क्षेपयेत् । तुष्टो मन्त्रमयं सम्यक् सार्घ्यपुष्पाहिताञ्जलिः ॥ (२२।३१) इति वक्ष्यमाणलक्षणानुसारेण पुष्पाञ्जलिप्रक्षेपाद्यनन्तरं हि पुत्रकत्वं सिद्ध्यति । तदा पुत्रकपदारूढस्यापि तदानीमेव दीक्षाचरणकथनं तत्र साधकं (कथं) न भवेत्, "सिद्धये द्रुतहेमाभम्" (२०।१९) इत्युक्तत्वात् । "ध्यात्वा तं स्फटिकामलम्" (२०।९२) इत्यत्र मुक्तय इति ज्ञेयम् । "स्वाहान्तं भोगसिद्धयर्थं नमोऽन्तं मोक्ष- सिद्धये" (१९।८५) इति पूर्वमेवोक्तं हि । यथार्हदण्डसहितं तत्तद्वर्णाश्रमविहितदण्ड- मित्यर्थः । एतेन "काषाये क्षौमवाससी" (२०।१७) इत्यपि व्याख्याते ॥ ४-१८॥ साधक को भगवत्तत्त्व वेत्ताओं के एवं पञ्चकाल भगवान् में निरतात्मा लोगों के तथा संहिता का मर्म जानने वालों के सन्निधान में यह अभिषेक क्रिया करनी चाहिये ॥ ४ ॥ इसी प्रकार अपने लक्ष्य का ध्यान करने वाले यतियों तथा साधकों के सन्निधान में भी यह अभिषेक क्रिया की जानी चाहिये । देवाधिदेव के सामने चौकोर मण्डप का निर्माण करना चाहिये । उस मण्डप को अभिषेक के लिये उपयुक्त समस्त उपकरणों से युक्त करना चाहिये । उसके मध्य में भद्रासन का निर्माण करे । उसमें अनन्तादि धर्मादि के लिये आसनादि निर्माण करे ॥ ५-६ ॥ पूजयित्वाऽर्घ्यपुष्पाद्यैस्ततो देवस्य सम्मुखम् । बद्धपद्मासनं शिष्यं तत्रारोप्य कृताञ्जलिम् ॥ ७ ॥ कान्ताभिर्गीयमानं तु स्तूयमानं च वन्दिभिः । शङ्खाद्यैर्ध्मायमानं तु पाठ्यमानं तु मङ्गलैः ॥ ८ ॥ जपमानं परं मन्त्रं ध्यायमानमिवाच्युतम् । अष्टाङ्गेणार्चयित्वा तु कुम्भमादाय वैष्णवम् ॥ ९ ॥