सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 586, कुल 837 में से
संदर्भ में पढ़ेंत्रयोविंशः परिच्छेदः ५२७ अथोत्तरं चाक्षदेशादादाय तदधो न्यसेत्। बीजं नेमेर्द्वितीयं यन्मध्यान्मध्यं तदासने ॥ ५ ॥ आधारषष्ठसंरूढं कुर्याद् वै नाभिसप्तकम्। अष्टमं च तदूर्ध्वे तु एतद् विद्धि तृतीयकम् ॥ ६ ॥ नाभ्यष्टममथादाय अरात् षष्ठासनस्थितम्। ततो नाभिद्वितीयस्य क्रमेणाधो निवेश्य च ॥ ७ ॥ तदुद्देशात् तृतीयं च सप्तमं तुर्यमेव च। अथादाय च नेमेः प्राक् तदधो नाभिसप्तमम् ॥ ८ ॥ तस्याप्यधस्तदुद्देशात् तृतीयं विनिवेश्य च। ततस्तु नवमं नाभेस्तस्योर्ध्वाधोगतं न्यसेत् ॥ ९ ॥ तत्रैव यद् द्वितीयं तु तत्पिण्डं विद्धि सप्तमम्। अरात् षष्ठस्य चोर्ध्वे तु नाभिपूर्वं तु विन्यसेत् ॥ १० ॥ सप्तमं चाष्टमं चापि ह्युपर्युपरि वै क्रमात्। अथाष्टमं नाभिदेशादारूढं सप्तमोपरि ॥ ११ ॥ तदधो मध्यगं चाक्षान्नवमं परिकीर्तितम्। भूयोऽरात् पञ्चमस्योर्ध्वे दद्यान्नाभितृतीयकम् ॥ १२ ॥ बाह्यात् तृतीयं तन्मूर्ध्ना पिण्डोऽयं दशमः स्मृतः। द्वितीयं नाभिदेशाच्च तत्तृतीयं तदूर्ध्वगम् ॥ १३ ॥ नेमेराद्यन्तमूर्ध्वं तु स्मृतमेकादशं त्विदम्। अथो नाभिचतुर्थस्य सप्तमं विनिवेश्य च ॥ १४ ॥ तदधो नेमिपूर्वं तु एतद् द्वादशमं स्मृतम्। नेमेस्त्रिदशमादाय तदधो योजयेत् क्रमात् ॥ १५ ॥ सप्तमं च चतुर्थं च पूर्वं नाभेर्महामते। अरषष्ठासनाः सर्वे पिण्डमेतत् त्रयोदशम् ॥ १६ ॥ नाभेेश्चतुर्थमादाय तदूर्ध्वे सप्तमं न्यसेत्। नवमं चापि तन्मूर्ध्नि एतद्विद्धि चतुर्दशम् ॥ १७ ॥ नेमेश्चतुर्थसंख्यस्य ऊर्ध्वाधोभ्यां निवेश्य च। वर्णं नाभिद्वितीयं यत् तत्पञ्चदशमं स्मृतम् ॥ १८ ॥ यद्विंशसंख्यकं बाह्यादादायाराख्यमण्डलात्। सान्तिमेन च षष्ठेन युक्तं कुर्यादनन्तरम् ॥ १९ ॥ नेमेः सप्तमवर्णस्य ऊर्ध्वाधोभ्यां निवेश्य च।