सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 587, कुल 837 में से
संदर्भ में पढ़ें५२८ सात्वतसंहिता नाभिदेशाद् द्वितीयं यद् विद्धि सप्तदशं तु तत् ॥ २० ॥ नवमं नाभिदेशाच्च सप्तमस्योपरि न्यसेत् । अथाष्टमं नाभिदेशात् कुर्यात् सप्तममूर्ध्वगम् ॥ २१ ॥ द्वितीयमपि तस्याधस्तस्माद् वै नाभिमण्डलात् । अरात् त्रयोदशादूर्ध्वं न्यूनविंशतिमं तु तत् ॥ २२ ॥ नाभेश्चतुर्थं तस्योर्ध्वे तत्तृतीयं तदूर्ध्वगम् । तत्रैव सप्तमं यद् वै विद्धि विंशतिमं त्विदम् ॥ २३ ॥ द्वितीयस्याष्टमं नाभेर्वर्णस्योर्ध्वे नियोज्य च । अरात् षष्ठं च तस्याधः कुर्यात् तदनु लाङ्गलिन् ॥ २४ ॥ नवमं नाभिदेशाच्च तृतीयस्योपरि न्यसेत् । द्वितीयं तदधः कुर्यात् त्रयोविंशतिमं शृणु ॥ २५ ॥ अष्टमं सप्तमं नाभेर्द्वितीयं प्रथमं ततः । क्रमेण योजयेच्चैव अरात् षष्ठस्य मूर्धनि ॥ २६ ॥ नेमेः सप्तममादाय तदधो नाभिसप्तमम् । तत्तृतीयं च तस्याधश्चतुर्विंशतिमं स्मृतम् ॥ २७ ॥ नाभेस्तृतीयं तस्योर्ध्वे द्वितीयं तस्य चोपरि । निवेश्य नेमिपूर्वं तु षड्विंशमधुनोच्यते ॥ २८ ॥ अरात् षष्ठासनं कुर्याद् वर्णं नाभितृतीयकम् । तदूर्ध्वे सप्तमं चैव अतोऽन्यमवधारय ॥ २९ ॥ न्यूनं षड्विंशतिं नेमेस्तस्योर्ध्वाधोगतं न्यसेत् । सप्तमं नाभिवर्णेभ्यस्त्वरवर्गाच्च पञ्चमम् ॥ ३० ॥ नेमेराद्यद्वितीयं च आदाय तदधो न्यसेत् । मध्यमक्षान्महाबुद्धेरष्टाविंशतिमं स्मृतम् ॥ ३१ ॥ नवमं सप्तमं नाभेस्तृतीयं च तृतीयकम् । अथोत्तरस्थमक्षाच्च आदाय तदधो न्यसेत् ॥ ३२ ॥ तृतीयं च द्वितीयं च नाभिदेशादनन्तरम् । नाभिद्वितीयमादाय सप्तमं तुर्यमेव च ॥ ३३ ॥ तृतीयस्याथ वै नाभेर्बाहादाद्यं तु मूर्धगम् । ततस्तु नवमं नाभेरक्षमध्यस्थमूर्ध्वगम् ॥ ३४ ॥ अष्टमस्याथ वै नाभेरथ ऊर्ध्वे द्वितीयकम् ।